अध्यायः 057

द्यूते नलपराजयमुत्पश्यन्त्या दमयन्त्या चोदितेन सारथिना तत्पुत्रमिथुनस्य रथारोपणेन भीमनगरप्रापणम् ॥ 1 ॥

बृहदश्व उवाच KK03-05-057-001
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् । KK03-05-057-001a
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम् ॥ KK03-05-057-001c
भयशोकसमाविष्टा राजन्भीमसुता ततः । KK03-05-057-002a
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ KK03-05-057-002c
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् । KK03-05-057-003a
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ KK03-05-057-003c
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् । KK03-05-057-004a
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥ KK03-05-057-004c
बृहन्सेने व्रजामात्यानानाय्य नल शासनात् । KK03-05-057-005a
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥ KK03-05-057-005c
'इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर । KK03-05-057-006a
उवाच देव्या वचनं मन्त्रिणां सा समीपतः ॥' KK03-05-057-006c
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् । KK03-05-057-007a
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ KK03-05-057-007c
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः । KK03-05-057-008a
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ KK03-05-057-008c
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा । KK03-05-057-009a
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥ KK03-05-057-009c
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् । KK03-05-057-010a
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ KK03-05-057-010c
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् । KK03-05-057-011a
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥ KK03-05-057-011c
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभाषितम् । KK03-05-057-012a
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ KK03-05-057-012c
वार्ष्णेयं तु ततो भैमी सान्त्वयच्छ्लक्ष्णया गिरा । KK03-05-057-013a
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ KK03-05-057-013c
जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि । KK03-05-057-014a
तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥ KK03-05-057-014c
यथायथा हि नृपतिः पुष्करेणैव जीयते । KK03-05-057-015a
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते ॥ KK03-05-057-015c
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः । KK03-05-057-016a
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ KK03-05-057-016c
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च । KK03-05-057-017a
ममापि च तथा वाक्यं नाभिनन्दति नैषधः ॥ KK03-05-057-017c
यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे । KK03-05-057-018a
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः ॥ KK03-05-057-018c
यत्तु मे वचनं राजा नाभिनन्दति मोहितः । KK03-05-057-019a
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः । KK03-05-057-019c
न हि मे शुध्यते भावो विनाशं प्रति सारथे ॥ KK03-05-057-019e
नलस्य दयितानश्वान्योजयित्वा मनोजवान् । KK03-05-057-020a
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि ॥ KK03-05-057-020c
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा । KK03-05-057-021a
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छ वा ॥ KK03-05-057-021c
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः । KK03-05-057-022a
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ KK03-05-057-022c
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते । KK03-05-057-023a
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ KK03-05-057-023c
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् । KK03-05-057-024a
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ KK03-05-057-024c
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् । KK03-05-057-025a
क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः । KK03-05-057-025c
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ KK03-05-057-025e
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः । KK03-05-057-026a
भृतिं च स ददौ चास्य सारथ्येन नियोजितः ॥ KK03-05-057-026c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

3-57-2 द्वितीयं द्वितीयवारम् । न च तत्प्रत्यवबुध्यतेति क. ध.पाठः ॥ 3-57-19 कदाचिद्विनशेदपीति झ.पाठः ॥ 3-57-20 मिथुनं कुमारीं कुमारञ्च । कुण्डिनं भीमस्य नगरम् ॥ 3-57-22 मुख्यशः मुख्येषु मुख्येषु ॥ 3-57-23 वाहिना अश्वरथेन ॥ 3-57-26 भृतिं वेतनम् ॥