अध्यायः 055
दमयन्तीस्वयंवरादनन्तरं दिवं गच्छतामिन्द्रादीनां मध्येमार्गं कलिद्वापरयोर्दर्शनम् ॥ 1 ॥ तैः स्वयंवरे दमयन्त्या नलवरणं निवेदितेन द्वापरद्वितीयेन कलिना नलपराभवप्रतिज्ञानम् ॥ 2 ॥
बृहदश्व उवाच KK03-05-055-001
वृते तु नैषधे भैम्या लोकपाला महौजसः । KK03-05-055-001a
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥ KK03-05-055-001c
अथाब्रवीत्कलिं शक्रः सम्प्रेक्ष्य बलवृत्रहा । KK03-05-055-002a
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥ KK03-05-055-002c
ततोऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् । KK03-05-055-003a
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ॥ KK03-05-055-003c
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः । KK03-05-055-004a
वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥ KK03-05-055-004c
एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः । KK03-05-055-005a
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥ KK03-05-055-005c
देवानां मानुषं मध्ये यत्सा पतिमविन्दत । KK03-05-055-006a
ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥ KK03-05-055-006c
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः । KK03-05-055-007a
अस्माभिः समनुज्ञाते दमयन्त्या नलो वृतः ॥ KK03-05-055-007c
का हि सर्वगुणोपेतं नाश्रयेत नलं नृपम् । KK03-05-055-008a
यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥ KK03-05-055-008c
योऽधीते चतुरो वेदान्सर्वानाख्यानपञ्चमान् । KK03-05-055-009a
अहिंसानिरतो यश्च सत्यवादी दृढव्रतः ॥ KK03-05-055-009c
यस्मिन्दाक्ष्यं धृतिर्ज्ञानं तपः शौचं दमः शमः । KK03-05-055-010a
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥ KK03-05-055-010c
एवंरूपं नलं यो वै कामयेच्छपितुं कले । KK03-05-055-011a
आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना ॥ KK03-05-055-011c
एवङ्गुणं नलं यो वै कामयेच्छपितुं कले । KK03-05-055-012a
कृच्छ्रे स नरके मज्जेदगाधे विपुले ह्रदे ॥ KK03-05-055-012c
एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः । KK03-05-055-013a
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् ॥ KK03-05-055-013c
संयन्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर । KK03-05-055-014a
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ॥ KK03-05-055-014c
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि ।' KK03-05-055-015a
मम प्रियकृते ह्यस्मन्कृतवांश्च भविष्यसि' ॥ KK03-05-055-015c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चपञ्चाशोऽध्यायः ॥ 55 ॥
3-55-4 निर्वृत्तः समाप्तः ॥ 3-55-7 अस्माभिः समनुज्ञातो दमयन्त्येति क. ध. पाठः ॥ 3-55-9 धर्मवादी दृढव्रतं इति क. पाठः ॥ 3-55-10 शौचं दया क्षमेति क. पाठः ॥