अध्यायः 052
नलेन दमयन्त्यामिन्द्रादिनिदेशनिवेदनम् ॥ 1 ॥
बृहदश्व उवाच KK03-05-052-001
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत । KK03-05-052-001a
अथैतान्परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ KK03-05-052-001c
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः । KK03-05-052-002a
किञ्च तत्र मया कार्यं कथयध्वं यथातथम् ॥ KK03-05-052-002c
एवमुक्ते नैषधेन मघवानभ्यभाषत । KK03-05-052-003a
अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥ KK03-05-052-003c
अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः । KK03-05-052-004a
शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥ KK03-05-052-004c
त्वं वै समागतानस्मान्दमयन्त्यै निवेदय । KK03-05-052-005a
लोकपाला महेन्द्राद्याः समायान्ति दिदृक्षवः ॥ KK03-05-052-005c
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः । KK03-05-052-006a
तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥ KK03-05-052-006c
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् । KK03-05-052-007a
एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥ KK03-05-052-007c
कथं हि जातसङ्कल्पः स्त्रियमुत्सृजते पुमान् । KK03-05-052-008a
परार्थमीदृशं वक्तुं तद्वै पश्यामरेश्वर ॥ KK03-05-052-008c
'एवमुक्तो नैषधेन मघवान्पुनरब्रवीत् । KK03-05-052-009a
'करिष्य इतिसंश्रुत्य पूर्वमस्मासु नैषध । KK03-05-052-009c
न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥ KK03-05-052-009e
'स वै त्वमागतानस्मान्दमयन्त्यै निवेदय । KK03-05-052-010a
श्रेयसा योक्ष्यसे हि त्वं कुर्वन्नमरशासनम् ॥' KK03-05-052-010c
बृहदश्व उवाच KK03-05-052-011
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् । KK03-05-052-011a
सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥ KK03-05-052-011c
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत । KK03-05-052-012a
जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥ KK03-05-052-012c
ददर्श तत्र वैदर्भीं सखीगणसमावृताम् । KK03-05-052-013a
देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥ KK03-05-052-013c
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् । KK03-05-052-014a
आक्षिपन्तीमिव च तां शशिनं स्वेन तेजसा ॥ KK03-05-052-014c
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् । KK03-05-052-015a
सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥ KK03-05-052-015c
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः । KK03-05-052-016a
आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥ KK03-05-052-016c
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः । KK03-05-052-017a
न चैनमभ्यभाषन्त मनोभिस्त्वभ्यपूजयन् ॥ KK03-05-052-017c
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः । KK03-05-052-018a
कोऽयं देवोऽथवा यक्षो गन्धर्वो वा भविष्यति ॥ KK03-05-052-018c
न तास्तं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन । KK03-05-052-019a
तेजसा धर्षितास्तस्य लज्जावत्यो वराङ्गनाः ॥ KK03-05-052-019c
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी । KK03-05-052-020a
दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥ KK03-05-052-020c
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन । KK03-05-052-021a
प्राप्तोस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥ KK03-05-052-021c
कथमागमनं चेह कथं चासि न लक्षितः । KK03-05-052-022a
सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥ KK03-05-052-022c
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । KK03-05-052-023a
नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥ KK03-05-052-023c
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः । KK03-05-052-024a
तेषामन्यतमं देवं पतिं वरय शोभने ॥ KK03-05-052-024c
तेषामेव प्रभावेण प्रविष्टोऽहमलक्षितः । KK03-05-052-025a
प्रविशन्तं न मां कश्चिदपश्यन्नाप्यवारयत् ॥ KK03-05-052-025c
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः । KK03-05-052-026a
एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥ KK03-05-052-026c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विपञ्चाशोऽध्यायः ॥ 52 ॥
3-52-16 धर्षिता अभिभूताः ॥