अध्यायः 051
नारदेनन्द्रादीन्प्रति दमयन्तीगुणानुवर्णनपूर्वकं तत्स्वयंवरप्रवृत्तिकथनम् ॥ 1 ॥ तत्स्वयंवरार्थमागच्छद्भिरिन्द्रादिभिः पथि दृष्टस्य नलस्य दमयन्तीघटनायां दूत्येन वरणम् ॥ 2 ॥
KK03-05-051-001 बृहदश्व उवाच
KK03-05-051-001a दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत ।
KK03-05-051-001c तदा प्रभृति न स्वस्था नलं प्रति बभूव सा ॥
KK03-05-051-002a ततश्चिन्तापरा दीना विवर्णवदना कृशा ।
KK03-05-051-002c बभूव दमयन्ती तु निःश्वासपरमा तदा ॥
KK03-05-051-003a ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना ।
KK03-05-051-003c पाण्डुवर्णा क्षणेनाथ हृच्छयाविष्टचेतना ॥
KK03-05-051-004a न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
KK03-05-051-004c न नक्तं न दिवा शेते हाहेति रुदती मुहुः ॥
KK03-05-051-005ac तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥
KK03-05-051-006a ततो विदर्भपतये दमयन्त्याः सखीजनः ।
KK03-05-051-006c न्यवेदयत्तामस्वस्थां दमयन्तीं नरेश्वरः ॥
KK03-05-051-007a तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् ।
KK03-05-051-007c चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ।
KK03-05-051-007e किमर्थं दुहिता मेऽद्य नातिस्वस्थेव लक्ष्यते ॥
KK03-05-051-008a स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् ।
KK03-05-051-008c अपश्यदात्मना कार्यं दमयन्त्याः स्वयंवरम् ॥
KK03-05-051-009a स सन्निपातयामास महीपालान्विशाम्पतिः ।
KK03-05-051-009c एषोऽनुभूयतां चीराः स्वयंवर इति प्रभो ॥
KK03-05-051-010a श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् ।
KK03-05-051-010c अभिजग्मुस्ततो वीरा राजानो भीमशासनात् ॥
KK03-05-051-011a हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम् ।
KK03-05-051-011c विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः ॥
KK03-05-051-012a तेषां भीमो महाबाहुः पार्थिवानां महात्मनाम् ।
KK03-05-051-012c यथार्हमकरोत्पूजां तेऽवसंस्तत्र पूजिताः ॥
KK03-05-051-013a एतस्मिन्नेव काले तु सुराणामृषिसत्तमौ ।
KK03-05-051-013c अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥
KK03-05-051-014a नारदः पर्वतश्चैव महाप्राज्ञौ महाव्रतौ ।
KK03-05-051-014c देवराजस्य भवनं विविशाते सुपूजितौ ॥
KK03-05-051-015a तावर्चयित्वा मघवा ततः कुशलमव्ययम् ।
KK03-05-051-015c पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥
नारद उवाच KK03-05-051-016
आवयोः कुशलं देव सर्वत्रगतमीश्वर । KK03-05-051-016a
लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥ KK03-05-051-016c
बृहदश्व उवाच KK03-05-051-017
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा । KK03-05-051-017a
धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥ KK03-05-051-017c
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः । KK03-05-051-018a
अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥ KK03-05-051-018c
क्वनु ते क्षत्रियाः शूरा नहि पश्यामि तानहम् । KK03-05-051-019a
आगच्छतो महीपालान्दयितानतिथीन्मम ॥ KK03-05-051-019c
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत । KK03-05-051-020a
शृणु मे मघवन्येन न दृश्यन्ते महीक्षितः ॥ KK03-05-051-020c
विदर्भराज्ञो दुहिता दमयन्तीति विश्रुता । KK03-05-051-021a
रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥ KK03-05-051-021c
तस्याः स्वयंवरः शक्र भविता नचिरादिव । KK03-05-051-022a
तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥ KK03-05-051-022c
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः । KK03-05-051-023a
काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥ KK03-05-051-023c
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः । KK03-05-051-024a
आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥ KK03-05-051-024c
ततस्ते शुश्रुवुः सर्वे नारदस्य वचो महत् । KK03-05-051-025a
श्रुत्वैव चाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥ KK03-05-051-025c
ततः सर्वे महाराज सगणाः सहवाहनाः । KK03-05-051-026a
विदर्भानभिजग्मुस्ते यतः सर्वे महीक्षितः ॥ KK03-05-051-026c
नलोपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् । KK03-05-051-027a
अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥ KK03-05-051-027c
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् । KK03-05-051-028a
साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ॥ KK03-05-051-028c
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् । KK03-05-051-029a
तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ॥ KK03-05-051-029c
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः । KK03-05-051-030a
अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥ KK03-05-051-030c
भोभो निषधराजेन्द्र नल सत्यव्रतो भवात् । KK03-05-051-031a
अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥ KK03-05-051-031c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥
3-51-5 जज्ञुः ज्ञातवत्यः । इङ्गितैः अभिप्रायसूचकैश्चेष्टितैः ॥ 3-51-9 अनुभूयतां प्रेक्ष्यतां भवद्भिः ॥ 3-51-20 महीक्षितः पृथ्वीश्वराः ॥ 3-51-29 विगतो विनष्टः दमयन्तीं प्राप्स्याम इति सङ्कल्पो येषाम् ॥