अध्यायः 050
दमयन्त्यां समुत्कण्ठितेन नलेन वने विहरत्सु हंसेष्वेकतमस्य ग्रहणम् ॥ 1 ॥ प्रतिक्रियाप्रतिज्ञानेन आत्मानं मोचितवता हंसेन नलगुणानुवर्णनेन दमयन्त्या नले रागोत्पादनम् ॥ 2 ॥
बृहदश्व उवाच KK03-04-050-001
आसीद्राजा नलो नाम वीरसेनसुतो बली । KK03-04-050-001a
उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥ KK03-04-050-001c
'यज्वा दानपतिर्दक्षः सदा शीलपुरस्कृतः' । KK03-04-050-002a
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा । KK03-04-050-002c
उपर्युपरि सर्वेषामादित्य इव तेजसा ॥ KK03-04-050-002e
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः । KK03-04-050-003a
अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥ KK03-04-050-003c
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः । KK03-04-050-004a
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥ KK03-04-050-004c
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः । KK03-04-050-005a
शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजाः ॥ KK03-04-050-005c
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः । KK03-04-050-006a
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥ KK03-04-050-006c
तं स भीमः प्रजाकामस्तोषयामास धर्मवित् । KK03-04-050-007a
महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥ KK03-04-050-007c
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ । KK03-04-050-008a
कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥ KK03-04-050-008c
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् । KK03-04-050-009a
उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥ KK03-04-050-009c
दमयन्ती तु रूपेण तेजसा वपुषा श्रिया । KK03-04-050-010a
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥ KK03-04-050-010c
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम् । KK03-04-050-011a
शतं सखीनां च तदा पर्युपास्ते शचीमिव ॥ KK03-04-050-011c
तत्र स्म राजते भैमी सर्वाभरणभूषिता । KK03-04-050-012a
सखीमध्येऽनवद्याङ्गी विद्युत्सौदामनी यथा ॥ KK03-04-050-012c
अतीव रूपसम्पन्ना श्रीरिवायतलोचना । KK03-04-050-013a
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् ॥ KK03-04-050-013c
मानुषेष्वपि चान्येषु दृष्टपूर्वाऽथवा श्रुता । KK03-04-050-014a
चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥ KK03-04-050-014c
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि । KK03-04-050-015a
कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥ KK03-04-050-015c
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् । KK03-04-050-016a
नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥ KK03-04-050-016c
तयोरदृष्टः कामोऽभूच्छृण्वतोः सततं गुणान् । KK03-04-050-017a
अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥ KK03-04-050-017c
अशक्नुवन्नलः कामं तदा धारयितुं हृदा । KK03-04-050-018a
अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥ KK03-04-050-018c
स ददर्श ततो हंसाञ्जातरूपपरिच्दान् । KK03-04-050-019a
वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥ KK03-04-050-019c
ततोऽन्तरिक्षगो वाचं व्याजहार नलं तदा । KK03-04-050-020a
हन्तव्योस्मि न ते राजन्करिष्यामि तव प्रियम् ॥ KK03-04-050-020c
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध । KK03-04-050-021a
यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥ KK03-04-050-021c
'तव चैव यथा भार्या भविष्यति तथाऽनघ । KK03-04-050-022a
विधास्यामि नरव्याघ्र सोऽनुजानातु मां भवान् ॥' KK03-04-050-022c
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः । KK03-04-050-023a
ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥ KK03-04-050-023c
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके । KK03-04-050-024a
निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥ KK03-04-050-024c
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता । KK03-04-050-025a
हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥ KK03-04-050-025c
अथ हंसा विससृपुः सर्वतः प्रमदावने । KK03-04-050-026a
एकैकशस्तदा कन्यास्तान्हंसान्समुपाद्रवन् ॥ KK03-04-050-026c
दमयन्ती तु यं हंसं समुपाधावदन्तिके । KK03-04-050-027a
स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥ KK03-04-050-027c
दमयन्ति नलो नाम निषधेषु महीपतिः । KK03-04-050-028a
अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥ KK03-04-050-028c
[कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ।] KK03-04-050-029a
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि । KK03-04-050-029c
सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥ KK03-04-050-029e
वयं हि देवगन्धर्वमनुष्योरगराक्षसान् । KK03-04-050-030a
दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥ KK03-04-050-030c
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः । KK03-04-050-031a
विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् ॥ KK03-04-050-031c
एवमुक्ता तु हंसेन दमयन्ती विशाम्पते । KK03-04-050-032a
अब्रवीत्तत्र तं हंसं त्वमप्येवं नलं वद ॥ KK03-04-050-032c
तथेत्युक्त्वाऽण्डजः कन्यां विदर्भस्य विशाम्पते । KK03-04-050-033a
पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥ KK03-04-050-033c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥
3-50-1 उपपन्नो युक्तः ॥ 3-50-12 सौदामनी प्रावृषेण्यमेघसम्बन्धिनी ॥ 3-50-15 मूर्तिमान् शरीरी ॥ 3-50-16 प्रशशंसुः वार्ताहरा इति शेषः ॥ 3-50-17 हृच्छयः कामः ॥ 3-50-19 जातरूपपरिच्छदान् सुवर्णपक्षान् ॥ 3-50-20 अन्तरिक्षगः खगः ॥ 3-50-24 गरुत्मन्तः पक्षिणः ॥