अध्यायः 049
भीमयुधिष्ठिरसंवादसमये बृहदश्वागमनम् ॥ 1 ॥ युधिष्ठिरम्प्रति बृहदश्वेन नलोपाख्यानकथनारम्भः ॥ 2 ॥
जनमेजय उवाच KK03-04-049-001
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । KK03-04-049-001a
युधिष्ठिरप्रभृतयः किमकुर्वत पाण्डवाः ॥ KK03-04-049-001c
वैशम्पायन उवाच KK03-04-049-002
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि । KK03-04-049-002a
न्यवसन्कृष्णया सार्धं काम्यके भरतर्षभाः ॥ KK03-04-049-002c
ततः कदाचिदेकान्ते विविक्ते मृदुशाद्वले । KK03-04-049-003a
दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥ KK03-04-049-003c
धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः । KK03-04-049-004a
तद्वियोगार्दितान्सर्वाञ्शोकः समभिपुप्लुवे ॥ KK03-04-049-004c
धनञ्जयवियोगाच्च राज्यभ्रंशाच्च दुःखिताः । KK03-04-049-005a
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत ॥ KK03-04-049-005c
निदेशात्ते महाराज गतोऽसौ भरतर्षभः । KK03-04-049-006a
अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥ KK03-04-049-006c
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम् । KK03-04-049-007a
सात्यकिर्वासुदेवश्च विनश्येयुर्न संशयः ॥ KK03-04-049-007c
योसौ गच्छति धर्मात्मा बहून्क्लेशान्विचिन्तयन् । KK03-04-049-008a
भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥ KK03-04-049-008c
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः । KK03-04-049-009a
मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥ KK03-04-049-009c
यस्य प्रभावाद्धि वयं सभामध्ये धनुष्मतः । KK03-04-049-010a
'जितान्मन्यामहे सर्वान्धार्तराष्ट्रान्ससौबलान् ॥ KK03-04-049-010c
यस्य प्रभावान्न मया सभामध्ये महाबलाः' । KK03-04-049-011a
नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥ KK03-04-049-011c
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः । KK03-04-049-012a
सहामहे भवन्मूलं वासुदेवेन पालिताः ॥ KK03-04-049-012c
मया हि सह कृष्णेन हत्वा कर्णमुखान्परान् । KK03-04-049-013a
स्वबाहुविजितां कृत्स्नां प्रशाधीमां वसुन्धराम् ॥ KK03-04-049-013c
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः । KK03-04-049-014a
अहीनपौरुषा राजन्बलिभिर्बलवत्तराः ॥ KK03-04-049-014c
क्षात्रं धर्मं महाराज त्वमवेक्षितुमर्हसि । KK03-04-049-015a
न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ॥ KK03-04-049-015c
राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः । KK03-04-049-016a
स क्षत्रधर्मविद्राजन्माधर्म्यान्नीनशः पथः ॥ KK03-04-049-016c
प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि । KK03-04-049-017a
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम् ॥ KK03-04-049-017c
व्यूढानीकान्महाराज जवेनैव महाहवे । KK03-04-049-018a
धार्तराष्ट्रानमुं लोकं गमयाम विशाम्पते ॥ KK03-04-049-018c
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान् । KK03-04-049-019a
दुर्योधनं च कर्णं च यो वाऽन्यः प्रतियोत्स्यते ॥ KK03-04-049-019c
मया प्रशमिते पश्चात्त्वमेष्यसि वनं पुनः । KK03-04-049-020a
एवं कृते न ते दोषो भविष्यति विशाम्पते ॥ KK03-04-049-020c
यज्ञैश्च विविधैस्तात कृतं पापमरिन्दम । KK03-04-049-021a
अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥ KK03-04-049-021c
एवमेतद्भवेद्राजन्यदि राजा न बालिशः । KK03-04-049-022a
अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥ KK03-04-049-022c
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः । KK03-04-049-023a
न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते । KK03-04-049-023c
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते ॥ KK03-04-049-023e
अहोरात्रं महाराज तुल्यं संवत्सरेण ह । KK03-04-049-024a
तथैव वेदवचनं श्रूयते नित्यदा विभो । KK03-04-049-024c
संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥ KK03-04-049-024e
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत । KK03-04-049-025a
त्रयोदशादितः कालो ज्ञायतां परिनिष्ठितः ॥ KK03-04-049-025c
कालो दुर्योधनं हन्तुं सानुबन्धमरिन्दम । KK03-04-049-026a
एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥ KK03-04-049-026c
द्यूतप्रियेण राजेन्द्र तथा तद्भवता कृतम् । KK03-04-049-027a
प्रायेणाज्ञातचर्यायां वयं सर्वे निपातिताः ॥ KK03-04-049-027c
न तं देशं प्रपश्यामि यत्र सोऽस्मान्सुदुर्जनः । KK03-04-049-028a
न विज्ञास्यति दुष्टात्मा चारैरिति सुयोधनः ॥ KK03-04-049-028c
अधिगम्य च सर्वान्नो वनवासमिमं ततः । KK03-04-049-029a
प्रव्राजयिष्यति पुनर्निकृत्याऽधमपूरुषः । KK03-04-049-029c
यद्यस्मानभिगच्छेत पापः स हि कथञ्चन ॥ KK03-04-049-029e
अज्ञातचर्यामुत्तीर्णान्दृष्ट्वा च पुनराह्वयेत् । KK03-04-049-030a
द्यूतेन ते महाराज पुनर्युद्धं प्रवर्तते ॥ KK03-04-049-030c
भवांश्च पुनराहूतो द्यूतेनैवापनेष्यति । KK03-04-049-031a
स तथाऽक्षेषु कुशलो निश्चितो गतचेतनः ॥ KK03-04-049-031c
चरिष्यसि महाराज वनेषु वसतीः पुनः ॥ KK03-04-049-032ac
यद्यस्मान्सुमहाराज कृपणान्कर्तुमर्हसि । KK03-04-049-033a
यावज्जीवमवेक्षस्व वेदधर्मांश्च कृत्स्नशः । KK03-04-049-033c
निकृत्या निकृतिप्रज्ञो हन्तव्य इति निश्चयः ॥ KK03-04-049-033e
अनुज्ञातस्त्वया गत्वा यावच्छक्ति सुयोधनम् । KK03-04-049-034a
यथैव कक्षमुत्सृष्टो दहेदनिलसारथिः । KK03-04-049-034c
हनिष्यामि तथा मन्दमनुजानातु मे भवान् ॥ KK03-04-049-034e
वैशम्पायन उवाच KK03-04-049-035
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः । KK03-04-049-035a
उवाच सान्त्वयन्राजा मूर्न्ध्युपाघ्राय पाण्डवम् ॥ KK03-04-049-035c
असशयं महाबाहो हनिष्यसि सुयोधनम् । KK03-04-049-036a
वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥ KK03-04-049-036c
यत्त्वमाभाषसे पार्थ प्राप्तः काल इति प्रभो । KK03-04-049-037a
अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥ KK03-04-049-037c
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम् । KK03-04-049-038a
हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥ KK03-04-049-038c
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे । KK03-04-049-039a
आजगाम महाभागो बृहदश्वो महानृषिः ॥ KK03-04-049-039c
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम् । KK03-04-049-040a
शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥ KK03-04-049-040c
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः । KK03-04-049-041a
अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥ KK03-04-049-041c
अक्षद्यूते च भगवन्धनं राज्यं च मे हृतम् । KK03-04-049-042a
आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥ KK03-04-049-042c
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः । KK03-04-049-043a
भार्या च मे सभां नीता प्राणेभ्योपि गरीयसी ॥ KK03-04-049-043c
पुनर्द्यूतेन मां जित्वा वनवासां सुदारुणम् । KK03-04-049-044a
प्राव्राजयन्महारण्यमजिनैः परिवारितम् ॥ KK03-04-049-044c
अहं वने दुर्वसतीर्वसन्परमदुःखितः । KK03-04-049-045a
अक्षद्यूताभिषङ्गेण गिरः शृण्वन्सुदारुणाः ॥ KK03-04-049-045c
आर्तानां सुहृदां वाचो द्यूतप्रभृति शंसताम् । KK03-04-049-046a
अहं हृदि श्रिताः स्मृत्वा सर्वरात्रीर्विचिन्तयन् ॥ KK03-04-049-046c
यस्मिंश्च वयमायत्ताः सदा गाण्डीवधन्वनि । KK03-04-049-047a
'स चेन्द्रलोकं गतवानस्त्रहेतोर्महाबलः ॥' KK03-04-049-047c
विना महात्मना तेन गतसत्व इवास्महे । KK03-04-049-048a
कदा द्रक्ष्यामि बीभत्सुं कृतास्त्रं पुनरागतम् ॥ KK03-04-049-048c
'इति सर्वे महेष्वासं चिन्तयाना धनञ्जयम् । KK03-04-049-049a
अनेन तु विषण्णोऽहं कारणेन सहानुजः ॥ KK03-04-049-049c
वनवासान्निवृत्तं मां पुनस्ते पापबुद्धयः । KK03-04-049-050a
जानन्तः प्रीयमाणा वै देवने भ्रातृभिः सह । KK03-04-049-050c
द्यूतेनैवाह्वयिष्यन्ति बलादक्षेषु तद्विदः ॥ KK03-04-049-050e
आहूतश्च पुनर्द्यूते नास्मि शक्तो निवर्तितुम् । KK03-04-049-051a
पणे च मम नात्यर्थं वसु किञ्चन विद्यते ॥ KK03-04-049-051c
एतत्सर्वमनुध्यायंश्चिन्तयानो दिवानिशम् । KK03-04-049-052a
न मत्तो दुःखिततरः पुमानस्तीह कश्चन' ॥ KK03-04-049-052c
नास्ति राजा मया कश्चिदल्पभाग्यतरो भुवि । KK03-04-049-053a
भवता दृष्टपूर्वो वा श्रुतपूर्वोपि वा क्वचित् । KK03-04-049-053c
न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥ KK03-04-049-053e
'एवं ब्रुवन्तं दुःखार्तमुवाच भगवानृषिः । KK03-04-049-054a
शोकं व्यपनुदन्राज्ञो धर्मराजस्य धीमतः ॥ KK03-04-049-054c
बृहदश्व उवाच KK03-04-049-055
न विषादे मनः कार्यं त्वया बुद्धिमतांवर । KK03-04-049-055a
आगमिष्यति बीभत्सुरमित्रांश्च विजेष्यते' ॥ KK03-04-049-055c
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित् । KK03-04-049-056a
अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥ KK03-04-049-056c
अत्र ते वर्णयिष्यामि यदि शुश्रूषसेऽनघ । KK03-04-049-057a
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते ॥ KK03-04-049-057c
वैशम्पायन उवाच KK03-04-049-058
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति । KK03-04-049-058a
इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥ KK03-04-049-058c
बृहदश्व उवाच KK03-04-049-059
शृणु राजन्नवहितः सह भ्रातृभिरच्युत । KK03-04-049-059a
यस्त्वत्तो दुःखिततरो राजाऽऽसीत्पृथिवीपते ॥ KK03-04-049-059c
निषधेषु महीपालो वीरसेन इति श्रुतः । KK03-04-049-060a
तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थकोविदः ॥ KK03-04-049-060c
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम् । KK03-04-049-061a
वनवासं सुदुःखार्तो भार्यया न्यवसत्सह ॥ KK03-04-049-061c
न तस्य दासा न रथो न भ्राता न च बान्धवाः । KK03-04-049-062a
वने निवसतो राजन्नश्रूयन्त कदाचन ॥ KK03-04-049-062c
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसम्मितैः । KK03-04-049-063a
ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥ KK03-04-049-063c
युधिष्ठिर उवाच KK03-04-049-064
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः । KK03-04-049-064a
चरितं वदतांश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ KK03-04-049-064c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥
3-49-4 पुप्लुवे प्लावितवान् ॥ 3-49-6 निदेशात् आज्ञातः ॥ 3-49-11 अमुं लोकं परलोकम् ॥ 3-49-14 बलिभिः सामन्तदत्तैर्धर्नर्बलवत्तराः ॥ 3-49-22 बालिशः बालवद्वृथाहठी । दीर्घसूत्रः चिरकारी ॥ 3-49-26 पुरा अग्रे ॥ 3-49-30 द्यूतेन द्यूतार्थम् ॥ 3-49-31 अपनेष्यति दूरीकरिष्यति । श्रियमिति शेषः ॥ 3-49-34 कक्षं तृणम् ॥ 3-49-50 जयन्तः प्रीयमाणा वै इति क. पाठः ॥ 3-49-61 पुष्करेण राज्ञा ॥