अध्यायः 048

धृतराष्ट्रेण सञ्जयाग्रे पाण्डवपराक्रमस्मरणेन पुत्रान्प्रति परिशोचनम् ॥ 1 ॥ सञ्जयेन धृतराष्ट्रम्प्रति स्वस्य चारमुखात् पाण्डवदिदृक्षया वनं गतानां कृष्णादीनां दुर्योधनादिवधप्रतिज्ञाश्रवणकथनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-04-048-001
तेषां तच्चरितं श्रुत्वा मनुष्यातीतमद्भुतम् । KK03-04-048-001a
चिन्ताशोकपरीतात्मा मन्युनाभिपरिप्लुतः ॥ KK03-04-048-001c
दीर्घमुष्णं च निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः । KK03-04-048-002a
अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ॥ KK03-04-048-002c
न रात्रौ न दिवा सूत शान्तिं प्राप्नोमि वैक्षणम् । KK03-04-048-003a
सञ्चिन्त्य दुर्णयं घोरमतीतं द्यूतजं हि तत् ॥ KK03-04-048-003c
तेषामसह्यवीर्याणां शौर्यं धैर्यं धृतिं पराम् । KK03-04-048-004a
अन्योन्यमनुरागं च भ्रातॄणामतिमानुषम् ॥ KK03-04-048-004c
देवपुत्रौ महाभागौ देवराजसमद्युती । KK03-04-048-005a
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥ KK03-04-048-005c
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ । KK03-04-048-006a
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ रथे स्थितौ ॥ KK03-04-048-006c
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि । KK03-04-048-007a
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ KK03-04-048-007c
निःशेषमिह पश्यामि मम सैन्यस्य सञ्जय ॥ KK03-04-048-008ac
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ । KK03-04-048-009a
द्रौपद्यास्तं परिक्लेशं न क्षंस्येतेऽत्यमर्षिणौ ॥ KK03-04-048-009c
वृष्णयोऽथ महेष्वासाः पाञ्चाला वा महौजसः । KK03-04-048-010a
युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः । KK03-04-048-010c
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥ KK03-04-048-010e
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन । KK03-04-048-011a
न शक्यः सहितुं वेगः पर्वतैरपि दुःसहः ॥ KK03-04-048-011c
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः । KK03-04-048-012a
शैक्यया वीरघातिन्या गदया विचरिष्यति ॥ KK03-04-048-012c
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः । KK03-04-048-013a
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ KK03-04-048-013c
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः । KK03-04-048-014a
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥ KK03-04-048-014c
सञ्जय उवाच KK03-04-048-015
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः । KK03-04-048-015a
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥ KK03-04-048-015c
श्रुत्वाऽयं निर्जितान्द्यूते पाण्डवान्मधुसूदनः । KK03-04-048-016a
त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥ KK03-04-048-016c
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः । KK03-04-048-017a
विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥ KK03-04-048-017c
तैश्च यत्कथितं राजन्दृष्ट्वा पार्थान्पराजितान् । KK03-04-048-018a
चारेण विदितं सर्वं तन्मया वेदितं च ते ॥ KK03-04-048-018c
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः । KK03-04-048-019a
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥ KK03-04-048-019c
अमर्षितो हि कृष्णोपि दृष्ट्वा पार्थांस्तदा गतान् । KK03-04-048-020a
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥ KK03-04-048-020c
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह । KK03-04-048-021a
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥ KK03-04-048-021c
यत्रसर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान् । KK03-04-048-022a
सवङ्गाङ्गान्सपौण्ड्रौढ्रान्सचोलद्रविडान्ध्रकान् ॥ KK03-04-048-022c
सागरानूपकांश्चैव ये च पत्तनवासिनः । KK03-04-048-023a
सिंहलान्बर्बरान्म्लेच्छान्ये च लङ्कानिवासिनः ॥ KK03-04-048-023c
पश्चिमानि चराष्ट्राणि शतशः सागरान्तिकान् । KK03-04-048-024a
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥ KK03-04-048-024c
हारहूणांश्च चीनांश्च तुषारान्सैन्धवांस्तथा । KK03-04-048-025a
जागुडान्रामठान्मुण्डान्स्त्रीराज्यमथ तङ्गणान् ॥ KK03-04-048-025c
केकयान्मालवांश्चैव तथा काश्मीरकानपि । KK03-04-048-026a
अद्राक्षमहमाहूतान्यज्ञे ते परिवेषकान् ॥ KK03-04-048-026c
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी । KK03-04-048-027a
आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥ KK03-04-048-027c
रामेण सह कौरव्य भीमार्जुनयमैस्तथा । KK03-04-048-028a
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ KK03-04-048-028c
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च । KK03-04-048-029a
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत । KK03-04-048-029c
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यति ॥ KK03-04-048-029e
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन् । KK03-04-048-030a
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥ KK03-04-048-030c
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे । KK03-04-048-031a
शृण्वत्स्वेतेषु वीरेषु धृष्टद्युम्नमुखेषु च ॥ KK03-04-048-031c
प्रतिगृह्णामि ते वाचमिमां सत्यां जनार्दन । KK03-04-048-032a
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥ KK03-04-048-032c
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव । KK03-04-048-033a
प्रतिज्ञातो वने वासो राज्ञां मध्ये मया ह्ययम् ॥ KK03-04-048-033c
धर्मराजस्य वचनं प्रतिश्रुत्य सभासदः । KK03-04-048-034a
धृष्टद्युम्नपुरोगास्ते समयामासुरञ्जसा ॥ KK03-04-048-034c
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् । KK03-04-048-035a
पाञ्चालीं प्राहुरक्लिष्टां वासुदेवस्य शृण्वतः ॥ KK03-04-048-035c
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् । KK03-04-048-036a
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥ KK03-04-048-036c
ये स्म ते कुरवः कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा । KK03-04-048-037a
मांसानि तेषां खादन्तो हरिष्यन्ति वृकद्विजाः ॥ KK03-04-048-037c
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा । KK03-04-048-038a
उत्तमाङ्गानि कर्षन्तो यैः कृष्टाऽसि सभातले ॥ KK03-04-048-038c
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले । KK03-04-048-039a
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥ KK03-04-048-039c
परिक्लिष्टाऽसि यैस्तत्र यैश्चासि समुपेक्षिता । KK03-04-048-040a
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥ KK03-04-048-040c
एवं बहुविधा वाचस्त ऊचुः पुरुषर्षभाः । KK03-04-048-041a
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥ KK03-04-048-041c
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात् । KK03-04-048-042a
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥ KK03-04-048-042c
रामश्च कृष्णश्च धनञ्जयश्च प्रद्युम्नसाम्बौ युयुधानभीमौ । KK03-04-048-043a
माद्रीसुतौ केकयराजपुत्राः पाञ्चालपुत्राः सह मत्स्यराज्ञा ॥ KK03-04-048-043c
एतान्सर्वाल्लोँकवीरानजेयान्महात्मनः सानुबन्धान्ससैन्यान् । KK03-04-048-044a
को जीवितार्थी समरेऽभ्युदीयात्क्रुद्धान्सिंहान्केसरिणो यथैव ॥ KK03-04-048-044c
धृतराष्ट्र उवाच KK03-04-048-045
यन्माऽब्रवीद्विदुरो द्यूतकाले त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र । KK03-04-048-045a
ध्रुवं कुरूणामयमन्तकालो महाभयो भविता शोणितौधः ॥ KK03-04-048-045c
मन्ये यथा तद्भवितेति सूत यथा क्षत्ता प्राह वचः पुरा माम् । KK03-04-048-046a
असंशयं भविता युद्धमेतद्गते काले पाण्डवानां यथोक्तम् ॥ KK03-04-048-046c

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

3-48-9 न क्षंस्येते क्षमां न करिष्यतः ॥ 3-48-11 सहितुं सोढुम् ॥ 3-48-12 शैक्यया शिक्यस्थया भूमिं भित्त्वा पातालं प्रवेक्ष्यतीति भयादन्तरिक्षे एव धृतयेत्यर्थः ॥ 3-48-27 प्रतिसारिणी प्रतीपं सरतीति नीचानुगामिनीत्यर्थः । आहरिष्यामि इदानीमेवेति शेषः । अतएव प्रार्थना सत्यं मां कुर्विति ॥ 3-48-34 समयामासुः समं युक्तमित्याचख्युः । समशब्दात्तदाचष्ट इति णिच् लिटि आम् ॥ 3-48-43 युयुधानः सात्यकिः ॥ 3-48-44 केसरिणः क्रोधेनोच्छ्रितसटान् ॥