अध्यायः 047

वैशम्पायनेन जनमेजयम्प्रति पाण्डवानां वने भोज्यवस्तुकथनम् ॥ 1 ॥

जनमेजय उवाच KK03-04-047-001
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने । KK03-04-047-001a
प्रव्राज्यपाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ॥ KK03-04-047-001c
कथं च राजपुत्रं तमुपेक्षेताल्पचेतसम् । KK03-04-047-002a
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥ KK03-04-047-002c
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम् । KK03-04-047-003a
वन्यं वाऽप्यथवा कृष्टमेतदाख्यातु नो भवान् ॥ KK03-04-047-003c
वैशम्पायन उवाच KK03-04-047-004
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान् । KK03-04-047-004a
ब्राह्मणानां निवेद्याग्रमभुञ्जत महारथाः ॥ KK03-04-047-004c
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने । KK03-04-047-005a
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥ KK03-04-047-005c
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् । KK03-04-047-006a
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥ KK03-04-047-006c
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्मनोरमान् । KK03-04-047-007a
बाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥ KK03-04-047-007c
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाऽपि दृश्यते । KK03-04-047-008a
कृशो वा दुर्बलो वाऽपि दीनो भीतोपि वा पुनः ॥ KK03-04-047-008c
पुत्रानिव प्रियान्भ्रातॄन्ज्ञातीनिव सहोदरान् । KK03-04-047-009a
पुरोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः । KK03-04-047-009c
पतींश्च द्रौपदी सर्वाञ्द्विजातींश्च यशस्विनी । KK03-04-047-010a
मातेव भोजयित्वाऽग्रे शिष्टमाहारयत्तदा ॥ KK03-04-047-010c
प्राचीं राजा दक्षिणां भीमसेनो यमौ प्रतीचीमथवाऽप्युदीचीम् । KK03-04-047-011a
धनुर्धरा मांसहेतोर्मृगाणां क्षयं चक्रुर्नित्यमेवोपगम्य ॥ KK03-04-047-011c
तथा तेषां वसतां काम्यके वै विहीनानामर्जुनेनोत्सुकानाम् । KK03-04-047-012a
पञ्चैव वर्षाणि तथा व्यतीयुरधीयतां जपतां जुह्वतां च ॥ KK03-04-047-012c

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

3-47-3 कृष्टं कर्षणजं ग्राम्यधान्यम् ॥ 3-47-4 शुद्धैर्विषालिप्तैः । वानेयं वनभवम् ॥ 3-47-5 अनग्नयः परिव्राजकाः ॥ 3-47-10 आहारयत् आहारं कृतवती ॥