अध्यायः 046
अर्जुनस्य पाशुपतास्त्रलाभस्वर्लोकगमनादिश्रवणेन परिखिद्यता धृतराष्ट्रेण सञ्जयाग्रे स्वपुत्रान्प्रति परिशोचनम् ॥ 1 ॥
जनमेजय उवाच KK03-04-046-001
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः । KK03-04-046-001a
धृतराष्ट्रो महातेजाः श्रुत्वा तत्र किमब्रवीत् ॥ KK03-04-046-001c
वैशम्पायन उवाच KK03-04-046-002
शक्रलोकगतं पार्थं श्रुत्वा राजाऽम्बिकासुतः । KK03-04-046-002a
द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् ॥ KK03-04-046-002c
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः । KK03-04-046-003a
कच्चित्तवापि विदितं याथातथ्येन सारथे ॥ KK03-04-046-003c
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः । KK03-04-046-004a
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥ KK03-04-046-004c
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः । KK03-04-046-005a
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥ KK03-04-046-005c
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान् । KK03-04-046-006a
नार्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥ KK03-04-046-006c
मम पुत्रा दुरात्मानः सर्वे मृत्युवशङ्गताः । KK03-04-046-007a
येषां युद्धं दुराधर्षैः पाण्डवैः समुपस्थितम् ॥ KK03-04-046-007c
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः । KK03-04-046-008a
अनिशं चिन्तयानोऽपि य एनमुदियाद्युधि ॥ KK03-04-046-008c
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे । KK03-04-046-009a
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥ KK03-04-046-009c
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः । KK03-04-046-010a
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ KK03-04-046-010c
भवेत्सुतुमुलं युद्धं सर्वस्याप्यपराजितम् । KK03-04-046-011a
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥ KK03-04-046-011c
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः । KK03-04-046-012a
वधे नूनं भवेच्छान्तिरेतेषां फल्गुनस्य वा ॥ KK03-04-046-012c
न तु हन्ताऽर्जुनस्यास्ति जेता वाऽस्य न विद्यते । KK03-04-046-013a
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥ KK03-04-046-013c
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत् । KK03-04-046-014a
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥ KK03-04-046-014c
शेषं कुर्याद्गिरेर्वज्रो निपतन्मूर्ध्नि सञ्जय । KK03-04-046-015a
न तु कुर्युः शराः शेषं क्षिप्तास्तात किरीटिना ॥ KK03-04-046-015c
यथा हि किरणा भानोस्तपन्तीह चराचरम् । KK03-04-046-016a
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मत्सुतान् ॥ KK03-04-046-016c
अपि तद्रथघोषेण भयार्ता सव्यसाचिनः । KK03-04-046-017a
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥ KK03-04-046-017c
समुद्धरन्प्रवपंश्चैव बाणान् स्थाताऽऽततायी समरे किरीटी । KK03-04-046-018a
सृष्टोऽन्तकः सर्वहरो विधात्रा भवेद्यथा तद्वदवारणीयः ॥ KK03-04-046-018c
सञ्जय उवाच KK03-04-046-019
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति । KK03-04-046-019a
सर्वमेतद्यथातत्त्वं नतु मिथ्या महीपते ॥ KK03-04-046-019c
मन्युना हि समाविष्टाः पाण्डवास्त्वमितौजसः । KK03-04-046-020a
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥ KK03-04-046-020c
दुःशासनस्य ता वाचः श्रुत्वा वै कटुकोदयाः । KK03-04-046-021a
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥ KK03-04-046-021c
श्रुतं हि ते महाराज यथा पार्थेन संयुगे । KK03-04-046-022a
एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥ KK03-04-046-022c
कैरातं वेषमास्थाय योधयामास फल्गुनम् । KK03-04-046-023a
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥ KK03-04-046-023c
'लेभे पाशुपतं चापि परमास्त्रं महाद्युतिः । KK03-04-046-024a
'तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम् । KK03-04-046-024c
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥ KK03-04-046-024e
नैतदुत्सहते चान्यो लब्धुमन्यत्र फल्गुनात् । KK03-04-046-025a
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥ KK03-04-046-025c
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान् । KK03-04-046-026a
कस्तमुत्सहते वीरो युद्धे जरयितुं पुमान् ॥ KK03-04-046-026c
आसादितमिदं घोरं तुमुलं रोमहर्षणम् । KK03-04-046-027a
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥ KK03-04-046-027c
यत्र विस्फुरमाणौष्ठो भीमः प्राह वचोऽर्थवत् । KK03-04-046-028a
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥ KK03-04-046-028c
ऊरुं भेत्स्यामि ते पाप गदया वज्रकल्पया । KK03-04-046-029a
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥ KK03-04-046-029c
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः । KK03-04-046-030a
सर्वेसर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥ KK03-04-046-030c
मन्ये मन्युसमुद्भूताः पुत्राणां तव संयुगे । KK03-04-046-031a
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥ KK03-04-046-031c
धृतराष्ट्र उवाच KK03-04-046-032
किं कृतं सूत कर्णेन वदता परुषं वचः । KK03-04-046-032a
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥ KK03-04-046-032c
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः । KK03-04-046-033a
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥ KK03-04-046-033c
ममापि वचनं सूत न शुश्रूषति मन्दभाक् । KK03-04-046-034a
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतसम् ॥ KK03-04-046-034c
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः । KK03-04-046-035a
ते तस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥ KK03-04-046-035c
स्वैरं मुक्ता ह्यपि शराः पार्थेनामिततेजसा । KK03-04-046-036a
निर्दहेयुर्मम सुतान्किम्पुनर्मन्युनेरिताः ॥ KK03-04-046-036c
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः । KK03-04-046-037a
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥ KK03-04-046-037c
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः । KK03-04-046-038a
हरिस्त्रैलोक्यनाथः स किन्नु तस्य न निर्जितम् ॥ KK03-04-046-038c
इदं हि सुमहच्चित्रमर्जुनस्येह सञ्जय । KK03-04-046-039a
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥ KK03-04-046-039c
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा । KK03-04-046-040a
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥ KK03-04-046-040c
सर्वथा न हि मे पुत्राः सहामात्याः सबान्धवाः । KK03-04-046-041a
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥ KK03-04-046-041c
इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
3-46-5 ऋताः सत्याः ॥ 3-46-9 प्रतीयातां प्रतिगच्छेताम् ॥ 3-46-10 घृणी दयालुः । प्रमादी अनवहितः । संरम्भी उद्यमी ॥ 3-46-18 प्रवपन् प्रेरयन् । स्थाता स्थास्यति ॥ 3-46-25 नैतदुत्पत्स्यतेऽन्यो हि इति क. ध. पाठः ॥ 3-46-26 न जीर्णो न क्षीणः ॥ 3-46-31 अन्तं नाशम् । भार्यामर्षसमन्विताः इति झ. पाठः ॥ 3-46-33 विनये नीतौ ॥ 3-46-41 नहि सन्तीति शेषः ॥