अध्यायः 043

इन्द्रेणार्जुनस्य सबहुमानं स्वार्धासनारोपणम् ॥ 1 ॥

वैशम्पायन उवाच KK03-04-043-001
ददर्श स पुरीं रम्यां सिद्धचारणसेविताम् । KK03-04-043-001a
सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ KK03-04-043-001c
तत्र सौगन्धिकानां च पुष्पाणां पुण्यगन्धिनाम् । KK03-04-043-002a
उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ KK03-04-043-002c
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् । KK03-04-043-003a
ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ KK03-04-043-003c
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना । KK03-04-043-004a
स लोकः पुण्यकर्तॄणां नापि युद्धे पराङ्मुखैः ॥ KK03-04-043-004c
नायज्वभिर्नाव्रतिकैर्न वेदश्रुतिवर्जितैः । KK03-04-043-005a
नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ KK03-04-043-005c
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन । KK03-04-043-006a
पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ KK03-04-043-006c
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् । KK03-04-043-007a
प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ KK03-04-043-007c
तत्र देवविमानानि कामगानि सहस्रशः । KK03-04-043-008a
संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥ KK03-04-043-008c
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः । KK03-04-043-009a
पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ KK03-04-043-009c
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । KK03-04-043-010a
हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् ॥ KK03-04-043-010c
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिःस्वनैः । KK03-04-043-011a
प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥ KK03-04-043-011c
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् । KK03-04-043-012a
इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ KK03-04-043-012c
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनौ तथा । KK03-04-043-013a
आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ KK03-04-043-013c
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः । KK03-04-043-014a
तम्बुरुर्नारदश्चैव गन्धर्वौ च हाहा हूहूः ॥ KK03-04-043-014c
तान्स सर्वान्समागम्य विधिवत्कुरुनन्दनः । KK03-04-043-015a
ततोऽपश्यद्देवराजं शतक्रतुमरिन्दमः ॥ KK03-04-043-015c
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् । KK03-04-043-016a
ददर्श साक्षाद्देवेशं पितरं पाकशासनम् ॥ KK03-04-043-016c
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा । KK03-04-043-017a
दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ KK03-04-043-017c
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दिभिः । KK03-04-043-018a
स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ KK03-04-043-018c
ततोऽभिगम्य कौन्तेयः शिरसाऽभ्यगमद्बली । KK03-04-043-019a
स चैनं वृत्तपीनाभ्यां बाहुभ्यां प्रत्यगृह्णत ॥ KK03-04-043-019c
ततः शक्रासने पुण्ये देवर्षिगणसेविते । KK03-04-043-020a
शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ KK03-04-043-020c
मूर्धि चैनमुपाघ्राय देवेन्द्रः परवीरहा । KK03-04-043-021a
अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ KK03-04-043-021c
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा । KK03-04-043-022a
आरुरुक्षुरमेयात्मा द्वितीय इव वासवः ॥ KK03-04-043-022c
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् । KK03-04-043-023a
पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ KK03-04-043-023c
प्रमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ । KK03-04-043-024a
ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥ KK03-04-043-024c
वज्रग्रहणचिह्नेन करेण परिसान्त्वयन् । KK03-04-043-025a
मुहुर्मुहुर्वज्रधरो बाहू चास्फोटयञ्शनैः ॥ KK03-04-043-025c
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् । KK03-04-043-026a
हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ KK03-04-043-026c
एकासनोपविष्टौ तौ शोभयाञ्चक्रतुः सभाम् । KK03-04-043-027a
सूर्याचन्द्रमसौ व्योम चतुर्दश्यामिवोदितौ ॥ KK03-04-043-027c
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना । KK03-04-043-028a
गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥ KK03-04-043-028c
घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा । KK03-04-043-029a
उर्वशी मिश्रकेशी च दण्डगौरी वरूथिनी ॥ KK03-04-043-029c
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा । KK03-04-043-030a
चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ KK03-04-043-030c
एताश्चान्याश्च ननृतुस्तत्रतत्र शुचिस्मिताः । KK03-04-043-031a
चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ KK03-04-043-031c
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः । KK03-04-043-032a
कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहरैः ॥ KK03-04-043-032c
[ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् । KK03-04-043-033a
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ KK03-04-043-033c
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् । KK03-04-043-034a
प्रवेशयामासुरथो पुरन्दरनिवेशनम् ॥ KK03-04-043-034c
एवं सम्पूजितो जिष्णुरुवास भवने पितुः । KK03-04-043-035a
उपशिक्षन्महास्राणि ससंहाराणि पाण्डवः ॥ KK03-04-043-035c
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं च दुःसहम् । KK03-04-043-036a
अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ KK03-04-043-036c
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः । KK03-04-043-037a
पुरन्दरनियोगाच्च पञ्चाब्दानवसत्सुखी ॥ KK03-04-043-037c
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते । KK03-04-043-038a
नृत्यं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ KK03-04-043-038c
वादित्रं देवविहितं नृलोके यन्न विद्यते । KK03-04-043-039a
तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ KK03-04-043-039c
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः । KK03-04-043-040a
स तेन सह सङ्गम्य रेमे पार्थो निरामयः ॥ KK03-04-043-040c
गीतवादित्रनृत्यानि भूय एवादिदेश ह । KK03-04-043-041a
तथाऽपि नालभच्छर्म तरस्वी द्यूतकारितम् ॥ KK03-04-043-041c
दुःशासनवधामर्षी शकुनेः सौबलस्य च । KK03-04-043-042a
ततस्तेनातुलां प्रीतिमुपागम्य क्वचित्क्वचित् । KK03-04-043-042c
गान्धर्वमतुलं नृत्यं वादित्रं चोपलब्धवान् ॥ KK03-04-043-042e
स शिक्षितो नृत्यगुणाननेकान्वादित्रगीतार्थगुणांश्च सर्वान् । KK03-04-043-043a
न शर्म लेभे परवीरहन्ताभ्रातॄन्स्मरन्मातरं चैव कुन्तीम् ॥ KK03-04-043-043c

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

3-43-3 नन्दनं नामतः ॥ 3-43-21 प्रश्रयावनतं विनयेन प्रह्वीभूतम् ॥ 3-43-25 वज्रग्रहणस्य चिह्नं किणो यस्मिन् ॥ 3-43-28 गीतानि अमन्त्रोपरि गानम् । साम मन्त्रोपरि गानम् ॥ 3-43-32 चेतः अलोचनात्मिका चित्तवृत्तिः । बुद्धिरध्यवसायरूपा । मनः सङ्कल्पविकल्पात्मकम् । कटाक्षादिभिः चित्तस्य वृत्त्यन्तरं हरन्तीत्यर्थः ॥