अध्यायः 042
पार्थेन मातलिसमानीतरथारोहणेन स्वर्गगमनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-04-042-001
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः । KK03-04-042-001a
चिन्तयामास राजेन्द्र देवराजरथागमम् ॥ KK03-04-042-001c
तस्य चिन्तयमानस्य गुडाकेशस्य धीमतः । KK03-04-042-002a
रथो मातलिसंयुक्त आजगाम महाप्रभः ॥ KK03-04-042-002c
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव । KK03-04-042-003a
दिशः सम्पूरयन्नादैर्महामेघरवोपमैः । KK03-04-042-003c
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः । KK03-04-042-004a
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥ KK03-04-042-004c
तथैवाशनयश्चैव चक्रयुक्तास्तुलागुडाः । KK03-04-042-005a
वायुस्फोटाः सनिर्घाताः शङ्खमेघस्वनास्तथा ॥ KK03-04-042-005c
तत्रनागा महाकाया ज्वलितास्याः सुदारुणाः । KK03-04-042-006a
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥ KK03-04-042-006c
दशवाजिसहस्राणि हरीणां वातरंहसाम् । KK03-04-042-007a
वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥ KK03-04-042-007c
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम् । KK03-04-042-008a
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥ KK03-04-042-008c
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् । KK03-04-042-009a
दृष्ट्वा पार्थो महाबाहुर्देवराजमतर्कयत् ॥ KK03-04-042-009c
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः । KK03-04-042-010a
सन्नतः प्रस्थितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ KK03-04-042-010c
भोभो शक्रात्मज श्रीमञ्शक्रस्त्वां द्रष्टुमिच्छति । KK03-04-042-011a
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य सम्मतम् ॥ KK03-04-042-011c
आह माममरश्रेष्ठः पिता तव शतक्रतुः । KK03-04-042-012a
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥ KK03-04-042-012c
एष शक्रः परिवृतो देवैर्ऋषिगणैस्तथा । KK03-04-042-013a
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ KK03-04-042-013c
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् । KK03-04-042-014a
आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ KK03-04-042-014c
अर्जुन उवाच KK03-04-042-015
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् । KK03-04-042-015a
राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ KK03-04-042-015c
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः । KK03-04-042-016a
दैवतैर्वा दुरारोहं दानवैर्वा रथोत्तमम् ॥ KK03-04-042-016c
नातप्ततपसा शक्य एष दिव्यो महारथः । KK03-04-042-017a
द्रष्टुं वाऽप्यथवा स्प्रष्टुमारोढुं कुत एव च ॥ KK03-04-042-017c
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि । KK03-04-042-018a
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ॥ KK03-04-042-018c
वैशम्पायन उवाच KK03-04-042-019
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः । KK03-04-042-019a
आरुरोह रथं शीघ्रं हयाञ्जग्राह रश्मिभिः ॥ KK03-04-042-019c
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः । KK03-04-042-020a
जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ KK03-04-042-020c
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि । KK03-04-042-021a
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ KK03-04-042-021c
साधूनां पुण्यशीलानां मुनीनां पुण्यकर्मणाम् । KK03-04-042-022a
त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ KK03-04-042-022c
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः । KK03-04-042-023a
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ KK03-04-042-023c
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् । KK03-04-042-024a
गच्छाम्यामन्त्रयित्वा त्वां सुखमस्म्युषितस्त्वयि ॥ KK03-04-042-024c
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च । KK03-04-042-025a
तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥ KK03-04-042-025c
फलानि च सुगन्धीनि भक्षितानि ततस्ततः । KK03-04-042-026a
सुसुगन्धाश्च वार्योघास्त्वच्छरीरविनिःसृताः । KK03-04-042-026c
अमृतास्वादसदृशाः पीताः प्रस्रवणोदकाः ॥ KK03-04-042-026e
शिशुर्यथा पितुश्चाङ्के सुखं शेते तटे तथा । KK03-04-042-027a
मया तवाङ्के ललितं शैलराज महाप्रभो ॥ KK03-04-042-027c
अप्सरोगणसङ्कीर्णे ब्रह्मघोषानुनादिते । KK03-04-042-028a
सुखमस्म्युषितः शैल तव सानुषु नित्यदा ॥ KK03-04-042-028c
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा । KK03-04-042-029a
आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥ KK03-04-042-029c
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा । KK03-04-042-030a
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥ KK03-04-042-030c
सोऽदर्शनपथं यातो मर्त्यानां धर्मचारिणाम् । KK03-04-042-031a
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥ KK03-04-042-031c
न तत्र सूर्यः सोमो वा द्योतते न च पावकः । KK03-04-042-032a
स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥ KK03-04-042-032c
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै । KK03-04-042-033a
आकाशे विप्रकृष्टत्वात्तनूनि सुमहान्त्यपि ॥ KK03-04-042-033c
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः । KK03-04-042-034a
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयाऽर्चिषा ॥ KK03-04-042-034c
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि । KK03-04-042-035a
तपसा च जितं स्वर्गं सम्पेतुः शतसङ्घशः ॥ KK03-04-042-035c
गन्धर्वाणां सहस्राणि सूर्यज्वलिततेजसाम् । KK03-04-042-036a
गुह्यकानामृषीणां च तथैवाप्सरसां गणान् ॥ KK03-04-042-036c
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः । KK03-04-042-037a
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥ KK03-04-042-037c
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः । KK03-04-042-038a
तान्दृष्टवानसि विभो तारारूपाणि भूतले ॥ KK03-04-042-038c
ततोऽपश्यत्स्थितं द्वारि मत्तं विजयिनं गजम् । KK03-04-042-039a
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥ KK03-04-042-039c
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः । KK03-04-042-040a
व्यरोचत यथापूर्वं मान्धाता पार्थिवोत्तमः ॥ KK03-04-042-040c
अभिचक्राम लोकान्स राज्ञां राजीवलोचनः ॥ KK03-04-042-041ac
[एवं स सङ्क्रमंस्तत्र स्वर्गलोके महायशाः ।] KK03-04-042-042a
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥4 KK03-04-042-042c
॥ इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥
3-42-3 पाटयन् द्विधाकुर्वन् ॥ 3-42-5 तुलागुडाः भाण्डगोलकाः । वायुस्फोटाः वेगवशाद्वायुं जनयन्तः ॥ 3-42-7 हरीणां पीतकौशेयसन्निभानां वाजिनां सहस्राणीत्येकदेशान्वयः ॥ 3-42-8 वैजयन्तं नाम्ना देवेन्द्रध्वजम् ॥ 3-42-20 आप्लुतः स्नातः ॥ 3-42-27 ललितं क्रीडितम् ॥ 3-42-33 विप्रकृष्टत्वात् दूरत्वात् । सुमहान्त्यपि तनूनि सूक्ष्माणि दृश्यन्ते ॥ 3-42-34 धिष्ण्येषु स्थानेषु ॥ 3-42-42 सङ्क्रमन् गच्छन् ॥