अध्यायः 041

यमवरुणकुबेरैरर्जुनायास्त्रदानम् ॥ 1 ॥ अर्जुनम्प्रति शक्रेण स्वर्गागमनचोदना ॥ 2 ॥

वैशम्पायन उवाच KK03-03-041-001
तस्य सम्पश्यतस्त्वेव पिनाकी गोवृषध्वजः । KK03-03-041-001a
जगामादर्शनं भानुर्लोकस्येवास्तमीयिवान् ॥ KK03-03-041-001c
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा । KK03-03-041-002a
मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ KK03-03-041-002c
धन्योस्म्यनुगृहीतोस्मि यन्मया त्र्यम्बको हरः । KK03-03-041-003a
पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥ KK03-03-041-003c
कृतार्थं चावगच्छामि परमात्मानमात्मना । KK03-03-041-004a
शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ KK03-03-041-004c
इत्येवं चिन्तयानस्य पार्थस्यामिततेजसः । KK03-03-041-005a
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः । KK03-03-041-005c
यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ KK03-03-041-005e
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैर्मरुद्गणैः । KK03-03-041-006a
वरुणो यादसाभर्ता वशी तं देशमागमत् ॥ KK03-03-041-006c
अथ जाम्बूनदवपुर्विमानेन महार्चिषा । KK03-03-041-007a
कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥ KK03-03-041-007c
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः । KK03-03-041-008a
धनानामधिपः श्रीमानर्जुनं द्रष्टुमागतः ॥ KK03-03-041-008c
तथा लोकान्तकः श्रीमान्यमः साक्षात्प्रतापवान् । KK03-03-041-009a
मर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ KK03-03-041-009c
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् । KK03-03-041-010a
वैवस्वतो धर्मराजो विमानेनावभासयन् ॥ KK03-03-041-010c
त्रील्लोकान्गुह्यकांश्चैव गन्धर्वाश्चैव पन्नगान् । KK03-03-041-011a
द्वितीय इव मार्ताण्डो युगान्ते समुपस्थिते ॥ KK03-03-041-011c
भानुमन्ति विचित्राणि शिखराणि महागिरेः । KK03-03-041-012a
समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥ KK03-03-041-012c
ततो मुहूर्ताद्भगवानैरावतशिरोगतः । KK03-03-041-013a
आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ KK03-03-041-013c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । KK03-03-041-014a
शुशुभे नागराजस्थः सितमभ्रमिव स्थितः ॥ KK03-03-041-014c
संस्तूयमानो गन्धर्वैर्ऋषिभिश्च तपोधनैः । KK03-03-041-015a
शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ KK03-03-041-015c
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् । KK03-03-041-016a
यमऋ परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥ KK03-03-041-016c
अर्जुनार्जुन पश्यास्माल्ँलोकपालान्समागतान् । KK03-03-041-017a
दृष्टिं ते वितरामोऽद्य भवानर्हति दर्शनम् ॥ KK03-03-041-017c
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः । KK03-03-041-018a
नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥ KK03-03-041-018c
त्वया च वसुसम्भूतो महावीर्यः पितामहः । KK03-03-041-019a
भीष्मः परमधर्मात्मा जेतव्यश्च रणेऽनघ ॥ KK03-03-041-019c
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् । KK03-03-041-020a
दानवाश्च महावीर्या ये मनुष्यत्वमुपागताः । KK03-03-041-020c
निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ KK03-03-041-020e
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः । KK03-03-041-021a
कर्णश्व सुमहावीर्यस्त्वया वध्यो धनञ्जय ॥ KK03-03-041-021c
अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम् । KK03-03-041-022a
त्वया निपातिता युद्धे स्वकर्मफलनिर्जिताम् । KK03-03-041-022c
गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ KK03-03-041-023a
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन । KK03-03-041-023c
त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥ KK03-03-041-024a
लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ KK03-03-041-024c
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् । KK03-03-041-025a
अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥ KK03-03-041-025c
वैशम्पायन उवाच KK03-03-041-026
प्रतिजग्राह पार्थोपि विधिवत्कुरुनन्दनः । KK03-03-041-026a
समन्त्रं सोपरोधं च समोक्षविनिवर्तनम् ॥ KK03-03-041-026c
ततो जलधरश्यामो वरुणो यादसाम्पतिः । KK03-03-041-027a
पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ KK03-03-041-027c
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः । KK03-03-041-028a
पश्य मां पृथुताम्राक्ष वरुणोस्मि जलेश्वरः ॥ KK03-03-041-028c
मया समुद्यतान्पाशान्वारुणाननिवारितान् । KK03-03-041-029a
प्रतिगृह्णीष्व कौन्तेय सहरहस्यनिवर्तनान् ॥ KK03-03-041-029c
एभिस्तदा मया वीर सङ्ग्रामे तारकामये । KK03-03-041-030a
दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥ KK03-03-041-030c
तस्मादिमान्महासत्व मत्प्रसादसमुत्थितान् । KK03-03-041-031a
गृहाण न हि ते मुच्येदन्तकोप्याततायिनः ॥ KK03-03-041-031c
अनेन त्वं यदाऽस्त्रेण सङ्ग्रामे विचरिष्यसि । KK03-03-041-032a
तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ KK03-03-041-032c
'ततस्तान्वारुणानस्त्रान्दिव्यानस्त्रविदांवरः । KK03-03-041-033a
प्रतिजग्राह विधिवद्वरुणाद्वासविस्तदा ॥' KK03-03-041-033c
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत । KK03-03-041-034a
दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ KK03-03-041-034c
प्रीतोऽहमपि ते प्राज्ञ पाण्डवेय महाहल । KK03-03-041-035a
त्वया सह समागम्य अजितेन तथैव च ॥ KK03-03-041-035c
सव्यसाचिन्महाबाहो पूर्वदेव सनातन । KK03-03-041-036a
सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥ KK03-03-041-036c
दर्शनं ते त्विदं दिव्यं प्रदिशामि नरर्षभ । KK03-03-041-037a
अमानुषान्महाबाहो दुर्जयानपि जेष्यसि ॥ KK03-03-041-037c
मत्तश्चैव भवानाशु गृह्णात्वस्त्रमनुत्तमम् । KK03-03-041-038a
अनेन त्वमनीकानि धार्तराष्ट्रस्य धक्ष्यसि ॥ KK03-03-041-038c
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम । KK03-03-041-039a
ओजस्तेजोद्युतिकरं प्रस्वापनमरातिनुत् ॥ KK03-03-041-039c
महात्मना शङ्करेण त्रिपुरं निहतं यदा । KK03-03-041-040a
तदैतदस्त्रं निर्मुक्तं येन दग्धा महासुराः ॥ KK03-03-041-040c
त्वदर्थमुद्यतं चेदं मया सत्यपराक्रम । KK03-03-041-041a
त्वमर्हो धारणे चास्य मेरुप्रतिमगौरव । KK03-03-041-041c
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः । KK03-03-041-042a
कौबेरमधिजग्राह दिव्यमस्त्रं महाबलः ॥ KK03-03-041-042c
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् । KK03-03-041-043a
सान्त्वयञ्श्लक्ष्णया वाचा दिव्यदुन्दुभिनिःस्वनः ॥ KK03-03-041-043c
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः । KK03-03-041-044a
परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ KK03-03-041-044c
देवकार्यं तु सुमहत्त्वया कार्यमरिन्दम । KK03-03-041-045a
आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥ KK03-03-041-045c
रथो मातलिसंयुक्त आगतस्त्वत्कृते मम । KK03-03-041-046a
तत्र तेऽहम्प्रदास्यामि सर्वाण्यस्त्राणि कौरव ॥ KK03-03-041-046c
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि । KK03-03-041-047a
जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः ॥ KK03-03-041-047c
ततोऽर्जुनो महातेजा लोकपालान्समागतान् । KK03-03-041-048a
पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ KK03-03-041-048c
ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम् । KK03-03-041-049a
यथागतेन विबुधाः सर्वे कामं मनोजवाः ॥ KK03-03-041-049c
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः । KK03-03-041-050a
कृतार्थमथ चात्मानं स मेने पूर्णमानसम् ॥ KK03-03-041-050c

3-41-4 निर्वृत्तं निष्पन्नम् ॥ 3-41-5 यादांसि जलजन्तवस्तेषां गणः ॥ 3-41-6 नागैः सर्पैः ॥ 3-41-12 भानुमन्ति दीप्तिमन्ति ॥ 3-41-17 वितरामो यच्छामः ॥ 3-41-20 संसाध्याः जेतव्याः ॥ 3-41-21 मम पितुः सूर्यस्य ॥ 3-41-23 मृधे सम्प्रामे ॥ 3-41-24 लघ्वी भारशून्या ॥ 3-41-30 संयतानि बद्धानि ॥ 3-41-35 अजितेन कृष्णेन यथा तथैव प्रीतोस्मि ॥ 3-41-36 पूर्वदेव नर ॥ 3-41-41 उद्यतमुपस्थितम् । 3-41-44 देवगतिं देवानां परायणत्वम् ॥ 3-41-45 आगन्ता इति झ. पाठः । आगन्ता आयास्यतीत्यर्थः ॥