अध्यायः 040

महादेवेन पार्थाय स्वग्रस्तगाण्डीवादिप्रत्यर्पणपूर्वकं पाशुपतास्त्रप्रदानम् ॥ 1 ॥

देवदेव उवाच KK03-03-040-001
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् । KK03-03-040-001a
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ KK03-03-040-001c
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे । KK03-03-040-002a
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ KK03-03-040-002c
शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम् । KK03-03-040-003a
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ KK03-03-040-003c
तदेतदेव गाण्डीवं तव पार्थ करोचितम् । KK03-03-040-004a
भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम ॥ KK03-03-040-004c
तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ । KK03-03-040-005a
भविष्यति शरीरं च नीरुजं कुरुनन्दन ॥ KK03-03-040-005c
प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः । KK03-03-040-006a
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ KK03-03-040-006c
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत । KK03-03-040-007a
दिवि वा वर्तते क्षत्रं त्वत्प्रधानमरिन्दम ॥ KK03-03-040-007c
अर्जुन उवाच KK03-03-040-008
वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज । KK03-03-040-008a
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥ KK03-03-040-008c
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् । KK03-03-040-009a
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ KK03-03-040-009c
[कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः । KK03-03-040-010a
त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ॥] KK03-03-040-010c
जयेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा । KK03-03-040-011a
राज्ञश्चैव पिशाचांश्च गन्धर्वानथ पन्नगान् ॥ KK03-03-040-011c
यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः । KK03-03-040-012a
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ॥ KK03-03-040-012c
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च । KK03-03-040-013a
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ KK03-03-040-013c
एष मे प्रथमः कामो भगवन्भगनेत्रहन् । KK03-03-040-014a
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥ KK03-03-040-014c
भव उवाच KK03-03-040-015
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो । KK03-03-040-015a
समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव ॥ KK03-03-040-015c
न तद्वेद महेन्द्रोपि न यमो न च यक्षराट् । KK03-03-040-016a
वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः ॥ KK03-03-040-016c
न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् । KK03-03-040-017a
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ KK03-03-040-017c
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे । KK03-03-040-018a
मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ KK03-03-040-018c
वैशम्पायन उवाच KK03-03-040-019
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः । KK03-03-040-019a
उपसङ्गृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत् ॥ KK03-03-040-019c
ततस्त्वध्यापयामास सरहस्यनिवर्तनम् । KK03-03-040-020a
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ KK03-03-040-020c
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् । KK03-03-040-021a
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ KK03-03-040-021c
ततश्चचाल पृथिवी सपर्वतवनद्रुमा । KK03-03-040-022a
ससागरवनोद्देशा सग्रामनगराकरा ॥ KK03-03-040-022c
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः । KK03-03-040-023a
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ॥ KK03-03-040-023c
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः । KK03-03-040-024a
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ KK03-03-040-024c
स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः । KK03-03-040-025a
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमीयिवत् ॥ KK03-03-040-025c
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः । KK03-03-040-026a
प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत । KK03-03-040-026c
ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः । KK03-03-040-027a
धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् ॥ KK03-03-040-027c
ततः शुभं गिरिवरमीश्वरस्तदा सहोमयाऽसिततटसानुकन्दरम् । KK03-03-040-028a
विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः ॥ KK03-03-040-028c

इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

3-40-3 शस्ताः मारिताः ॥ 3-40-7 त्वत्प्रधानं त्वमेव श्रेष्ठो यस्मिन् क्षत्रे ॥ 3-40-14 विनिर्वृत्तः विशेषेण कृतकृत्यः ॥ 3-40-15 संहारे निवर्तने ॥ 3-40-18 मनसा सङ्कल्पमात्रेण निपात्यते शत्रुः धनुषेति बाणप्रयोगेण ॥ 3-40-19 अधीष्व अध्यापय ॥ 3-40-23 निर्घात उत्पातः ॥ 3-40-27 वशी वश इच्छा तद्वान् । तज्जयीत्यर्थः ॥