अध्यायः 039
किरातरूपिणा हरेणार्जुनस्य पराजयः ॥ 1 ॥ तथा पार्थपूजास्तुतिसन्तुष्टेन तेन तदाश्वासनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-03-039-001
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु । KK03-03-039-001a
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ KK03-03-039-001c
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम् । KK03-03-039-002a
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ KK03-03-039-002c
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् । KK03-03-039-003a
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ KK03-03-039-003c
देव्या सहोमया श्रीमान्समानव्रतवेषया । KK03-03-039-004a
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ KK03-03-039-004c
किरातवेषसञ्छन्नः स्त्रीभिश्चापि सहस्रशः । KK03-03-039-005a
अशोभत तदा राजन्स देशोऽतीव भारत ॥ KK03-03-039-005c
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा । KK03-03-039-006a
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ KK03-03-039-006c
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः । KK03-03-039-007a
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥ KK03-03-039-007c
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम् । KK03-03-039-008a
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ KK03-03-039-008c
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् । KK03-03-039-009a
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ KK03-03-039-009c
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् । KK03-03-039-010a
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ KK03-03-039-010c
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् । KK03-03-039-011a
किरातरूपी सहसा वारयामास शङ्करः ॥ KK03-03-039-011c
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः । KK03-03-039-012a
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ KK03-03-039-012c
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः । KK03-03-039-013a
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ KK03-03-039-013c
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः । KK03-03-039-014a
मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ॥ KK03-03-039-014c
यथाऽशनेर्विनिष्पेषो वज्रस्येव च पर्वते । KK03-03-039-015a
तथा तयोः सन्निपातः शरयोरभवत्तदा ॥ KK03-03-039-015c
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव । KK03-03-039-016a
ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ॥ KK03-03-039-016c
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम् । KK03-03-039-017a
किरातवेषसञ्छन्नं स्त्रीसहायममित्रहा ॥ KK03-03-039-017c
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव । KK03-03-039-018a
को भवानटते शून्ये वने स्त्रीगणसंवृतः ॥ KK03-03-039-018c
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ । KK03-03-039-019a
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ॥ KK03-03-039-019c
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः । KK03-03-039-020a
कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ॥ KK03-03-039-020c
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि । KK03-03-039-021a
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ॥ KK03-03-039-021c
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव । KK03-03-039-022a
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥ KK03-03-039-022c
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात् । KK03-03-039-023a
इयं भूमिः सदाऽस्माकमुचिता वसतां वने ॥ KK03-03-039-023c
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः । KK03-03-039-024a
वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ॥ KK03-03-039-024c
भवांस्तु कृष्णवर्त्माभः सुकुमारः सुखोचितः । KK03-03-039-025a
कथं शून्यमिमं देशमेकाकी विचरिष्यति ॥ KK03-03-039-025c
अर्जुन उवाच KK03-03-039-026
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान् । KK03-03-039-026a
निवसामि महारण्ये द्वितीय इव पावकः ॥ KK03-03-039-026c
एष चापि मया जन्तुर्मृगरूपं समाश्रितः । KK03-03-039-027a
राक्षसो निहतो घोरो हन्तुं मामिह चागतः ॥ KK03-03-039-027c
किरात उवाच KK03-03-039-028
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि । KK03-03-039-028a
बाणैरभिहतः शेते नीतश्च यमसादनम् ॥ KK03-03-039-028c
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः । KK03-03-039-029a
ममैव च प्रहारेण जीविताद्व्यपरोपितः ॥ KK03-03-039-029c
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः । KK03-03-039-030a
अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ KK03-03-039-030c
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव । KK03-03-039-031a
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ KK03-03-039-031c
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा । KK03-03-039-032a
रोषमाहारयामास ताडयामास चेषुभिः ॥ KK03-03-039-032c
ततो हृष्टेन मनसा प्रतिजग्राह सायकान् । KK03-03-039-033a
भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ॥ KK03-03-039-033c
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः । KK03-03-039-034a
इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ॥ KK03-03-039-034c
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः । KK03-03-039-035a
शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ KK03-03-039-035c
ततोऽर्जुनः शरवर्षं किराते समवासृजत् । KK03-03-039-036a
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ॥ KK03-03-039-036c
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक् । KK03-03-039-037a
अक्षतेन शरीरेण तस्थौ गिरिवाचलः ॥ KK03-03-039-037c
स दृष्ट्वा बाणवर्षं तु मेघीभूतं धनञ्जयः । KK03-03-039-038a
परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ॥ KK03-03-039-038c
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः । KK03-03-039-039a
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ KK03-03-039-039c
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः । KK03-03-039-040a
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥ KK03-03-039-040c
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः । KK03-03-039-041a
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ KK03-03-039-041c
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः । KK03-03-039-042a
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ KK03-03-039-042c
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः । KK03-03-039-043a
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ KK03-03-039-043c
तान्प्रसन्नेन मनसा भगवाल्ँलोकभावनः । KK03-03-039-044a
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥ KK03-03-039-044c
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा । KK03-03-039-045a
वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ॥ KK03-03-039-045c
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् । KK03-03-039-046a
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ KK03-03-039-046c
किन्नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः । KK03-03-039-047a
अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ॥ KK03-03-039-047c
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् । KK03-03-039-048a
नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ KK03-03-039-048c
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च । KK03-03-039-049a
मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ॥ KK03-03-039-049c
सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा । KK03-03-039-050a
तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ॥ KK03-03-039-050c
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत । KK03-03-039-051a
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥ KK03-03-039-051c
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि । KK03-03-039-052a
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ॥ KK03-03-039-052c
तस्य मूर्धानमासाद्य पफालासिवरो हि सः । KK03-03-039-053a
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ॥ KK03-03-039-053c
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः । KK03-03-039-054a
किरातरूपी भगवांस्ततः पार्थो महाबलः ॥ KK03-03-039-054c
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे । KK03-03-039-055a
प्रजहार दुराधर्षे किरातसमरूपिणि ॥ KK03-03-039-055c
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः । KK03-03-039-056a
किरातरूपी भगवानर्दयामास फल्गुनम् ॥ KK03-03-039-056c
ततश्चटचटाशब्दः सुघोरः समजायत । KK03-03-039-057a
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥ KK03-03-039-057c
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम् । KK03-03-039-058a
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥ KK03-03-039-058c
महाराज ततो जिष्णुः किरातमुरसा बली । KK03-03-039-059a
पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ॥ KK03-03-039-059c
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा । KK03-03-039-060a
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ KK03-03-039-060c
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् । KK03-03-039-061a
तेजसा व्यक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ KK03-03-039-061c
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ । KK03-03-039-062a
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ KK03-03-039-062c
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः । KK03-03-039-063a
ततः पपात सम्मूढस्ततः प्रीतोऽभवद्भवः ॥ KK03-03-039-063c
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः । KK03-03-039-064a
रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ॥ KK03-03-039-064c
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम् । KK03-03-039-065a
मृन्मयं स्थण्डिलं कृत्वा माल्येनापूजयद्भवम् ॥ KK03-03-039-065c
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम् । KK03-03-039-066a
अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ॥ KK03-03-039-066c
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः । KK03-03-039-067a
[उवाच चैनं वचसा मेघगम्भीरगीर्हरः । KK03-03-039-067c
जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ॥ KK03-03-039-067e
भव उवाच KK03-03-039-068
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते । KK03-03-039-068a
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ KK03-03-039-068c
समं तेजश्च वीर्यं च ममाद्य तव चानघ । KK03-03-039-069a
प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ॥ KK03-03-039-069c
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान् । KK03-03-039-070a
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ KK03-03-039-070c
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम् । KK03-03-039-071a
त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ॥] KK03-03-039-071c
वैशम्पायन उवाच KK03-03-039-072
ततो देवं महादेवं गिरिशं शूनपाणिनम् । KK03-03-039-072a
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ KK03-03-039-072c
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च । KK03-03-039-073a
प्रसादयामास हरं पार्थः परपुरञ्जयः ॥ KK03-03-039-073c
अर्जुन उवाच KK03-03-039-074
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन । KK03-03-039-074a
[देवदेव महादेव नीलग्रीव जटाधर ॥ KK03-03-039-074c
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम् । KK03-03-039-075a
देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ॥ KK03-03-039-075c
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः । KK03-03-039-076a
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ KK03-03-039-076c
दक्षयज्ञविनाशाय हरिरूपाय ते नमः । KK03-03-039-077a
ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ॥ KK03-03-039-077c
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे । KK03-03-039-078a
प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ॥ KK03-03-039-078c
गणेशं जगतः शम्भुं लोककारणकारणम् । KK03-03-039-079a
प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ॥ KK03-03-039-079c
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर । KK03-03-039-080a
भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ॥ KK03-03-039-080c
दयितं तव देवेश तापसालयमुत्तमम् । KK03-03-039-081a
प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ॥ KK03-03-039-081c
न मे स्यादपराधोऽयं महादेवातिसाहसात् । KK03-03-039-082a
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह । KK03-03-039-082c
शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शङ्कर ॥ KK03-03-039-082e
वैशम्पायन उवाच KK03-03-039-083
तमुवाच महातेजाः प्रहसन्वृषभध्वजः । KK03-03-039-083a
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ KK03-03-039-083c
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः । KK03-03-039-084a
पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ॥ KK03-03-039-084c
'गङ्गाङ्कितजटः शर्वः पार्थस्यामिततेजसः । KK03-03-039-085a
प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ॥' KK03-03-039-085c
इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥
3-39-4 भूतैः प्रमथाख्यैः स्वपार्षदैः ॥ 3-39-13 समम् एककालम् ॥ 3-39-15 अशनिर्मेघजं वज्रम् । वज्रम् इन्द्रप्रहरणम् । सन्निपातो योगः ॥ 3-39-16 स दानवः राक्षसमिव ॥ 3-39-20 अभिपन्नः परिगृहीतः कामात् यदृच्छातः । परिभवात् ममाभिभवाय ॥ 3-39-23 मत्कृते मन्निमित्तम् । वनमन्तिकाद्वनस्य समीपे ॥ 3-39-24 प्ररोचितः स्वीकृतः ॥ 3-39-30 दोषान्मृगया धर्मातिक्रमरूपान् ॥ 3-39-34 नाराचान् शरजातिभेदान् ॥ 3-39-39 अहोऽयमिति सन्धिरार्षः ॥ 3-39-41 सहितुं सोढुम् ॥ 3-39-52 असक्तमकुण्ठितम् ॥ 3-39-53 पफाल विशीर्ण 3-39-55 धूमं क्रोधावेशेन ॥ 3-39-61 पीड्य निपीड्य ॥ 3-39-62 गात्रेषु संरुद्धश्चलनहीनः ॥ 3-39-66 प्रकृतिं स्वास्थ्यम् ॥ 3-39-70 चक्षुः दिव्यज्ञानम् ॥ 3-39-77 मीढुषे वर्षकाय ॥