अध्यायः 038

अर्जुनेन हिमवच्छिखरे तपश्चरणम् ॥ 1 ॥ पार्थतपोभीरुभिर्महर्षिभिः प्रार्थितेन महादेवेनाश्वासनपूर्वकमृषीणाम्प्रति निवर्तनम् ॥ 2 ॥

जनमेजय उवाच KK03-03-038-001
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः । KK03-03-038-001a
विस्तरेण कथामेतां यथाऽस्त्राण्युपलब्धवान् ॥ KK03-03-038-001c
कथं च पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः । KK03-03-038-002a
वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ KK03-03-038-002c
किञ्चानेन कृतं तत्र वसता ब्रह्मवित्तम । KK03-03-038-003a
कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ KK03-03-038-003c
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम । KK03-03-038-004a
त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥ KK03-03-038-004c
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः । KK03-03-038-005a
भवेन सह सङ्ग्रामं चकाराप्रतिमं किल । KK03-03-038-005c
पुरा प्रहरतांश्रेष्ठः सङ्ग्रामेष्वपराजितः ॥ KK03-03-038-006a
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् । KK03-03-038-006c
शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ KK03-03-038-007a
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद ॥ KK03-03-038-007c
न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये । KK03-03-038-008a
चरितं यस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ KK03-03-038-008c
वैशम्पायन उवाच KK03-03-038-009
कथयिष्यामि ते तात कथामेतां महात्मनः । KK03-03-038-009a
दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥ KK03-03-038-009c
गात्रसंस्पर्शसम्बद्धां त्र्यम्बकेण महाहवे । KK03-03-038-010a
पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ KK03-03-038-010c
युधिष्ठिरनियोगात्स जगामामितविक्रमः । KK03-03-038-011a
शक्रं सुरेश्वरं द्रष्टुं देवदेवञ्च शङ्करम् ॥ KK03-03-038-011c
दिव्यं तद्धनुरादाय खड्गञ्च पुरुषर्षभः । KK03-03-038-012a
महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥ KK03-03-038-012c
दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति । KK03-03-038-013a
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ॥ KK03-03-038-013c
त्वरया परया युक्तस्तपसे धृतनिश्चयः । KK03-03-038-014a
वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ KK03-03-038-014c
नानापुष्पफलोपेतं नानापक्षिनिनादितम् । KK03-03-038-015a
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ KK03-03-038-015c
ततः प्रयाते बीभत्सौ वनं मानुषवर्जितम् । KK03-03-038-016a
शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ KK03-03-038-016c
पुष्पवर्षं च सुमहन्निपपात महीतले । KK03-03-038-017a
मेघजालं च सततं छादयामास सर्वतः ॥ KK03-03-038-017c
सोतीत्य वनदुर्गाणि सन्निकर्षे महागिरेः । KK03-03-038-018a
शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥ KK03-03-038-018c
तत्रतत्र द्रुमान्फुल्लान्विहगैर्वल्गुनादितान् । KK03-03-038-019a
नदीश्च विपुलावर्ता वैदूर्यनीलसन्निभाः ॥ KK03-03-038-019c
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा । KK03-03-038-020a
पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ KK03-03-038-020c
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः । KK03-03-038-021a
पुण्यशीतामलजलाः पश्यन्प्रीतमनाऽभवत् ॥ KK03-03-038-021c
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा । KK03-03-038-022a
तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ KK03-03-038-022c
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः । KK03-03-038-023a
शीर्णं च पतितं भूमौ पर्णं समुपभुक्तवान् ॥ KK03-03-038-023c
पूर्णेपूर्णे त्रिरात्रे तु मासमेकं फलाशनः । KK03-03-038-024a
द्विगुणेनैव कालेन द्वितीयं मासमत्ययात् ॥ KK03-03-038-024c
तृतीयमपि मासं स क्रमेणाहारमाचरन् । KK03-03-038-025a
चतुर्थे त्वथ सम्प्राप्ते मासे भरतसत्तमः ॥ KK03-03-038-025c
वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः । KK03-03-038-026a
ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रधिष्ठितः ॥ KK03-03-038-026c
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः । KK03-03-038-027a
विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥ KK03-03-038-027c
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् । KK03-03-038-028a
विवेदयिषवः पार्थं तपस्युग्रे समास्थितम् ॥ KK03-03-038-028c
नीलकण्ठं महादेवमभिवाद्य प्रणम्य च । KK03-03-038-029a
सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ KK03-03-038-029c
एकः पार्थो महातेजा हिमवत्पृष्ठमाश्रितः । KK03-03-038-030a
उग्रे तपसि दुष्पारे स्थितो धूमापयन्दिशः ॥ KK03-03-038-030c
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् । KK03-03-038-031a
सन्तापयति नः सर्वानसौ साधु निवार्यताम् ॥ KK03-03-038-031c
तेषां तद्वचनं श्रुत्वा मुनीनां भावितात्मनाम् । KK03-03-038-032a
उमापतिर्भूतपतिर्वाक्यमेतदुवाच ह ॥ KK03-03-038-032c
न वो विषादः कर्तव्यः फल्गुनं प्रति सर्वशः । KK03-03-038-033a
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ॥ KK03-03-038-033c
अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् । KK03-03-038-034a
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः । KK03-03-038-034c
यत्तस्य काङ्क्षितं प्राप्तुं तत्करिष्येऽहमद्य वै ॥ KK03-03-038-034e
वैशम्पायन उवाच KK03-03-038-035
तच्छ्रुत्वा शर्ववचनमृषयः सत्यवादिनः । KK03-03-038-035a
प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमम् ॥ KK03-03-038-035c

इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

3-38-12 खड्गञ्च कनकत्सरुम् इति झ. पाठः । तत्र कनकत्सरुं स्वर्णमुष्टिमित्यर्थः ॥ 3-38-13 ऐन्द्रिरर्जुनः ॥ 3-38-14 कण्टकितं कण्टकाक्रान्तम् ॥ 3-38-23 दर्भचीरं तृणमयं वासः । निवस्य परिधाय ॥ 3-38-24 द्विगुणेन षड्रात्रेण अत्ययात् अतिवाहितवान् ॥ 3-38-25 पक्षेणाहारमाचरन् इति झ. पाठः ॥ 3-38-26 निरालम्बो निराश्रयः ॥ 3-38-30 धूमापयन् धूमवतीरिव कुर्वन् ॥ 3-38-34 सङ्कल्पं मनोरथम् ॥