अध्यायः 037

युधिष्ठिरेण व्यासोपदिष्टमन्त्रोपदेशपूर्वकमस्त्रग्रहणाय स्वर्गम्प्रत्यर्जुनस्य प्रस्थापनम् ॥ 1 ॥ स्वर्गं प्रस्थितेनार्जुनेन यध्येपथमिन्द्रकीलगिरौ तपश्चर्या ॥ 2 ॥ तत्र मुनिरूपिण इन्द्रस्य दर्शनम् ॥ 3 ॥ दिव्यास्त्रदानं याचितेनेन्द्रेणार्जुनम्प्रति तपसा रुद्रप्रसादनानन्तरमस्त्रलाभाय स्वर्गागमनचोदना ॥ 4 ॥

वैशम्पायन उवाच KK03-02-037-001
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः । KK03-02-037-001a
संस्मृत्य मुनिसन्देशमिदं वचनमब्रवीत् ॥ KK03-02-037-001c
विविक्ते विदितप्रज्ञमर्जुनं पुरुषर्षभ । KK03-02-037-002a
सान्त्वपूर्वं स्मितं कृत्वापाणिना परिसंस्पृशन् ॥ KK03-02-037-002c
स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः । KK03-02-037-003a
धनञ्जयं धर्मराजो रहसीदमुवाच ह ॥ KK03-02-037-003c
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत । KK03-02-037-004a
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ KK03-02-037-004c
दैवं ब्राह्मं चासुरं च सप्रयोगचिकित्सितम् । KK03-02-037-005a
सर्वास्त्राणां प्रयोगं च अभिजानन्ति कृत्स्नशः ॥ KK03-02-037-005c
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः । KK03-02-037-006a
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते । KK03-02-037-006c
सर्वयोधेषु चैवास्य सदा प्रीतिरनुत्तमा ॥ KK03-02-037-006e
आचार्या मानितास्तुष्टाः शान्तिं व्यवहरन्न्युत । KK03-02-037-007a
शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ KK03-02-037-007c
अद्य चेयं मही कृत्स्ना दुर्याधनवशानुगा । KK03-02-037-008a
सग्रामनगरा पार्थ ससागरवनाकरा ॥ KK03-02-037-008c
भवानेव प्रियोऽस्माकं त्वयि भारः समाहितः ॥ KK03-02-037-009ac
अत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम । KK03-02-037-0010a
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ॥ KK03-02-037-010c
गृहीतया तया सम्यग्जगत्सर्वं प्रकाशते । KK03-02-037-011a
तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ KK03-02-037-011c
देवतानां यथाकालं प्रसादं प्रतिपालय । KK03-02-037-012a
तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ KK03-02-037-012c
धनुष्मान्कवची खड्गी मुनिः साधुव्रते स्थितः । KK03-02-037-013a
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ KK03-02-037-013c
इनद्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय । KK03-02-037-014a
वृत्राद्भीतैर्बलं देवैस्तदा शक्रे समर्पितम् ॥ KK03-02-037-014c
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे । KK03-02-037-015a
'अनेन ब्रह्मणा तात सर्वं सम्प्रतिपद्यते ॥' KK03-02-037-015c
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति । KK03-02-037-016a
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम् ॥ KK03-02-037-016c
वैशम्पायन उवाच KK03-02-037-017
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ॥ KK03-02-037-017ac
दीक्षितं विधिना तेन यतवाक्कायमानसम् । KK03-02-037-018a
अनुजज्ञे तदा वीरं भ्राता भ्रातरमग्रजः ॥ KK03-02-037-018c
निदेशाद्धर्मराजस्य द्रष्टुकामः पुरन्दरम् । KK03-02-037-019a
धनुर्गाण्डीवमादाय तथाऽक्षय्ये महेषुधी ॥ KK03-02-037-019c
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् । KK03-02-037-020a
हत्वाऽग्निं ब्राह्मणान्निष्कैः स्वस्तिवाच्य महाभुज ॥ KK03-02-037-020c
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः । KK03-02-037-021a
वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदैक्षत ॥ KK03-02-037-021c
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् । KK03-02-037-022a
अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ KK03-02-037-022c
क्षिप्रमाप्नुहि कौन्तेय मनसा यद्यदिच्छसि । KK03-02-037-023a
संसाधयस्व कौन्तेय ध्रुवोस्तु विजयस्तव ॥ KK03-02-037-023c
अब्रुवन्ब्राह्मणाः पार्थमिति कृत्वा जयाशिषः । KK03-02-037-024a
'सिद्धचारणसङ्घाश्च गन्धर्वाश्च तमब्रुवन् ॥ KK03-02-037-024c
स्वस्तिव्रतमुपाधत्स्व सङ्कल्पस्तव सिद्ध्यताम् । KK03-02-037-025a
मनोरथाश्च ते सर्वे समृद्ध्यन्तां महारथ ॥ KK03-02-037-025c
एवमुक्तोऽभिवाद्यैतान्बद्धाञ्जलिपुटस्तथा । KK03-02-037-026a
तपोयोगमनाः पार्थः पुरोहितमवन्दत ॥ KK03-02-037-026c
ततः प्रीतमना जिष्णुस्तावुभावभ्यवन्दत । KK03-02-037-027a
सहोदरावतिरथौ युधिष्ठिरवृकोदरौ ॥ KK03-02-037-027c
तं क्लान्तमनसौ पूर्णमभिगम्य महारथौ । KK03-02-037-028a
यमौ गाण्डीवधन्वानमभ्यवादयतामुभौ ॥ KK03-02-037-028c
अभिवाद्य तु तौ वीरावूचतुः पाकशासनिम् । KK03-02-037-029a
अवाप्तव्यानि सर्वाणि दिव्यान्यस्त्राणि वासवात् । KK03-02-037-029c
अस्त्राण्याप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ KK03-02-037-029e
गिरो ह्यशिथिलाः सर्वा निर्दोषाः सम्मताः सताम् । KK03-02-037-030a
त्वमेकः पाण्डवेष्वद्य सम्प्राप्तोसि धनञ्जय ॥ KK03-02-037-030c
न चाधर्मविदं देवा नासिद्धं नातपस्विनम् । KK03-02-037-031a
द्रष्टुमिच्छन्ति कौन्तेय चलचित्तं शठं न च ॥ KK03-02-037-031c
रोरूयमाणः कटुकमीर्ष्यकः कटुकाक्षरः । KK03-02-037-032a
शठकः श्लाघकः क्षेप्ता हन्ता च विचिकित्सिता ॥ KK03-02-037-032c
विश्वस् हन्ता मायावी क्रोधनोऽनृतभाषिता । KK03-02-037-033a
अत्याशी नास्तिकोऽदाता मित्रध्रुक्सर्वशङ्कितः ॥ KK03-02-037-033c
आक्रोष्टा चातिमानी च रौद्रो लुब्धोऽथ लोलुपः । KK03-02-037-034a
स्तेनश्च मद्यपश्चैव भ्रूणहा गुरुतल्पगः ॥ KK03-02-037-034c
सम्भावितात्मा चात्यर्थं नृशंसः पुरुषश्च यः । KK03-02-037-035a
नैते लोकानाप्नुवन्ति निर्लोकास्ते धनञ्जय ॥ KK03-02-037-035c
आनृशंस्यमनुक्रोशः सत्यं करुणवेदिता । KK03-02-037-036a
दमः स्थितिर्धृतिर्धर्मः क्षमा कृत्यमनुत्तमम् ॥ KK03-02-037-036c
दया शमश्च धर्मश्च गुरुपूजा कृतज्ञता । KK03-02-037-037a
मैत्रता द्विजभक्तिश्च वसन्ति त्वयि फल्गुन । KK03-02-037-037c
व्यपेक्षा सर्वभूतेषु कृपा दानं मतिः स्मृतिः ॥ KK03-02-037-037e
तस्मात्कौरव्य शक्रेण समेष्यसि धनञ्जय । KK03-02-037-038a
त्वादृशेन हि देवानां श्लाघनीयः समागमः ॥ KK03-02-037-038c
सुहृदां सोदराणां च सर्वेषां भरतर्षभ । KK03-02-037-039a
त्वं गतिः परमा तात वृत्रहा मरुतामिव ॥ KK03-02-037-039c
तस्मिंस्त्रयोदशे वर्षे भ्रातरः सुहृदश्च ते । KK03-02-037-040a
सर्वे हि संश्रयिष्यन्ति बाहुवीर्यं महाबल ॥ KK03-02-037-040c
स पार्थ पितरं गच्छ सहस्राक्षमरिन्दम । KK03-02-037-041a
मुष्टिग्रहणमादत्स्व सर्वाण्यस्त्राणि वासवात् ॥ KK03-02-037-041c
शतशृङ्गे महाबाहो मघवानिदमब्रवीत् । KK03-02-037-042a
शृण्वतां सर्वभूतानां त्वामुपाघ्राय मूर्धनि ॥ KK03-02-037-042c
विदितः सर्वभूतानां दिवं तात गमिष्यसि । KK03-02-037-043a
प्राप्य पुण्यकृतां लोकान्रंस्यसे जयतांवर ॥ KK03-02-037-043c
मानितस्त्रिदशैः पार्थ विहृत्य सुसुखं दिवि । KK03-02-037-044a
अवाप्य परमास्त्राणि पृथिवीं पुनरेष्यसि ॥ KK03-02-037-044c
गुणांस्ते वासवस्तात खाण्डवं दहति त्वयि । KK03-02-037-045a
शृण्वतां सर्वभूतानां पुनः पुनरभाषत ॥ KK03-02-037-045c
तां प्रतिज्ञां नरश्रेष्ठ कर्तुमर्हसि वासवीम् । KK03-02-037-046a
कञ्चिद्देशमितः प्राप्य तपोयोगमना भव ॥ KK03-02-037-046c
कर्तुमर्हसि कौरव्य मघवद्वचनं हितम् । KK03-02-037-047a
दीक्षित्वाऽद्यैव गच्छ त्वं द्रष्टाऽसि त्वं पुरन्दरम् ॥ KK03-02-037-047c
तौ परिष्वज्य बीभत्सुः कृष्णामामन्त्र्य चाप्युभौ । KK03-02-037-048a
मनांस्यादाय सर्वेषां प्रयातः पुरुषर्षभः ॥' KK03-02-037-048c
तं तथा प्रस्थितं वीरं सिंहस्कन्धोरसं तदा । KK03-02-037-049a
प्राञ्जलिः पाण्डवं कृष्णा देवानां कुर्वती नमः । KK03-02-037-049c
वाग्भिः परमशुद्धाभिर्मङ्गलाभिरभाषत् ॥ KK03-02-037-049e
नमो धात्रे विधात्रे च स्वस्ति गच्छ वनाद्वनम् । KK03-02-037-050a
'धर्मस्त्वां जुषतां पार्थ भास्करश्च विभावसुः । KK03-02-037-050c
ब्रह्मा त्वां ब्राह्मणाश्चैव पालयन्तु धनञ्जय ॥' KK03-02-037-050e
ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनमास्थितः । KK03-02-037-051a
प्रपद्येथा वसून्रुद्रानादित्यान्समरुद्गणान् । KK03-02-037-051c
विश्वेदेवांस्तथा साध्याञ्शान्त्यर्थं भरतर्षभ ॥ KK03-02-037-051e
स्वस्ति तेस्त्वान्तरिक्षेभ्यो दिव्येभ्यो भरतर्षभ । KK03-02-037-052a
पार्थिवेभ्यश्च सर्वेभ्यो ये केचित्परिपन्थिनः ॥ KK03-02-037-052c
अवरोधाद्वने वासात्सर्वस्वहरणादपि । KK03-02-037-053a
इदं दुःखतरं मन्ये पुत्रेभ्यश्च विवासनात् ॥ KK03-02-037-053c
मास्माकं क्षत्रियकुले जातुचित्पुनरुद्भवः । KK03-02-037-054a
ब्राह्मणेभ्यो नमस्यामि येषां नायुधजीविका ॥ KK03-02-037-054c
इदं मे परमं दुःखं यः स पापः सुयोधनः । KK03-02-037-055a
दृष्ट्वा मां गौरिति प्राह प्रहसन्राजसंसदि ॥ KK03-02-037-055c
तस्माद्दुःखादिदं दुःखं गरीय इति मे मतिः । KK03-02-037-056a
यत्तत्परिषदो मध्ये बह्वयुक्तमभाषत ॥ KK03-02-037-056c
'ध्वंसितः स्वगृहेभ्यश्च राष्ट्राच्च भरतर्षभ । KK03-02-037-057a
वने प्रतिष्ठितो भूत्वा सौहार्दादवतिष्ठसे ॥' KK03-02-037-057c
जेता यः सर्वशत्रूणां यः पावकमतर्पयः । KK03-02-037-058a
जनस्त्वां पश्यतीदानीं गच्छन्तं भरतर्षभ ॥' KK03-02-037-058c
अस्मिन्नूनं महारण्ये भ्रातरः सुहृदश्च ते । KK03-02-037-059a
त्वत्कथाः कथयिष्यन्ति चारणा ऋषयस्तथा ॥ KK03-02-037-059c
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय । KK03-02-037-060a
तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ KK03-02-037-060c
'वसुदेवस्वसा देवी त्वामार्या पुनरागतम् । KK03-02-037-061a
पश्यतु त्वां पृथा पार्थ सहस्राक्षमिवादितिः' ॥ KK03-02-037-061c
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे । KK03-02-037-062a
रंस्यन्ते तव कर्माणि कीर्तयन्तः पुनः पुनः ॥ KK03-02-037-062c
न च नः पार्थ भोगेषु न धने नोत जीविते । KK03-02-037-063a
तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥ KK03-02-037-063c
त्वयि नः पार्थ सर्वेषां सुखदुःखे प्रतिष्ठते । KK03-02-037-064a
जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥ KK03-02-037-064c
आपृष्टो नोसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव । KK03-02-037-065a
कृतास्त्रं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ KK03-02-037-065c
बलवद्भिर्विरुद्धं न कार्यमेतत्त्वयाऽनघ । KK03-02-037-066a
प्रयाह्यविघ्नेनैवाशु विजयाय महाबल ॥ KK03-02-037-066c
ह्रीः श्रीः कीर्तिर्धृतिः पुष्टिरुमा लक्ष्मीः सरस्वती । KK03-02-037-067a
इमा वै तव पान्थस्य पालयन्तु धनञ्जय ॥ KK03-02-037-067c
वैशम्पायन उवाच KK03-02-037-068
एवमुक्त्वाऽऽशिषः कृष्णा विरराम यशस्विनी । KK03-02-037-068ac
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः । KK03-02-037-069a
प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ KK03-02-037-069c
'शनैरिव दिशं वीर उदीचीं भरतर्षभ । KK03-02-037-070a
संहरंस्तरसा वृक्षाल्ँलता वल्लीश्च भारत । KK03-02-037-070c
असज्जमानो वृक्षेषु जगाम सुमहाबलः ॥' KK03-02-037-070e
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः । KK03-02-037-071a
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ KK03-02-037-071c
सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् । KK03-02-037-072a
दिव्यं हैमवतं पुण्यं देवजुष्टं परन्तपः ॥ KK03-02-037-072c
अगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः । KK03-02-037-073a
मनोजवगतिर्भूत्वा योगयुक्तो यथाऽनिलः ॥ KK03-02-037-073c
हिमवन्तमतिक्रम्य गन्धमादनमेव च । KK03-02-037-074a
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ KK03-02-037-074c
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः । KK03-02-037-075a
'गत्वा स षडहोरात्रान्सप्तमेऽहनि पाण्डवः ॥ KK03-02-037-075c
प्रस्थेन्द्रकीलस्य शुभे तपोयोगपरोऽभवत् । KK03-02-037-076a
ऊर्ध्वबाहुर्न चाङ्गानि प्रास्पन्दयत किञ्चन ॥ KK03-02-037-076c
समाहितात्मा नियतः सहस्राक्षसुतोऽच्युतः' । KK03-02-037-077a
अन्तरिक्षे स शुश्राव तिष्ठेति स वचस्तदा ॥ KK03-02-037-077c
तच्छ्रुत्वा सर्वतो दृष्टिं चारयामास पाण्डवः । KK03-02-037-078a
अथापश्यत्सव्यसाची वृक्षमूले तपस्विनम् ॥ KK03-02-037-078c
ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् । KK03-02-037-079a
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः ॥ KK03-02-037-079c
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी । KK03-02-037-080a
निबद्धाऽसितलत्राणः क्षत्रधर्ममनुव्रतः ॥ KK03-02-037-080c
नेह शस्त्रेण कर्तव्यं शान्तानामेष आलयः । KK03-02-037-081a
विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ KK03-02-037-081c
नेहास्ति धनुषा कार्यं न सङ्ग्रामोऽत्र कर्हिचित् । KK03-02-037-082a
निक्षिपैतद्धनुस्तात प्राप्तोसि परमां गतिम् ॥ KK03-02-037-082c
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् । KK03-02-037-083a
तथा हसन्निवाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् । KK03-02-037-083c
न चैनं चालयामास धैर्यात्सुधृतनिश्चयम् ॥ KK03-02-037-083e
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव । KK03-02-037-084a
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ KK03-02-037-084c
एवमुक्तः सहस्राक्षं प्रत्युवाच धनञ्जयः । KK03-02-037-085a
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ KK03-02-037-085c
ईप्सितो ह्येष वै कामो वरं चैनं प्रयच्छ मे । KK03-02-037-086a
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ KK03-02-037-086c
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव । KK03-02-037-087a
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ॥ KK03-02-037-087c
कामान्वृणीष्व लोकांस्त्वं प्राप्तोसि परमां गतिम् । KK03-02-037-088a
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः ॥ KK03-02-037-088c
न लोभान्न पुनः कामान्न देवत्वं पुनः सुखम् । KK03-02-037-089a
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ॥ KK03-02-037-089c
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च । KK03-02-037-090a
अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ KK03-02-037-090c
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् । KK03-02-037-091a
सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ KK03-02-037-091c
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् । KK03-02-037-092a
तदा दाताऽस्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ KK03-02-037-092c
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः । KK03-02-037-093a
दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ KK03-02-037-093c
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं पुनः । KK03-02-037-094a
अर्जुनोप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ KK03-02-037-094c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तत्रिंशोऽध्यायः ॥ 37 ॥

3-37-2 विविक्तेऽवितथप्रज्ञमिति क. पाठः ॥ 3-37-5 दैवम् इन्द्रवरुणाद्यस्त्रम् । ब्राह्मं ब्रह्मास्त्रम् चिकित्सा परप्रयुक्तानां प्रतीकारः ॥ 3-37-6 गुरुवत् गुरुष्विव ॥ 3-37-7 शान्तिं दोषपरिहारं कर्तुं व्यवहरन्ति यतन्ते । शक्तिं सामर्थ्ये न हापयिष्यन्ति त्याजयिष्यन्ति अपितु उद्दीपयिष्यन्ति ॥ 3-37-10 उपनिषत् रहस्यविद्या ॥ 3-37-11 तया प्रयुक्तया सम्यगिति झ. पाठः ॥ 3-37-12 प्रतिपालय प्राप्नुहि ॥ 3-37-13 मार्गं न ददत् अददत् ॥ 3-37-14 बलं सर्वास्त्ररूपम् ॥ 3-37-15 ततः शक्रात् ॥ 3-37-16 दीक्षितः स्वीकृतव्रतः ॥ 3-37-17 अध्यापयत विद्यया योजितवान् ॥ 3-37-18 अनुजज्ञे गमनाय अनुज्ञातवान् ॥ 3-37-51 ज्येष्टापचायी ज्येष्ठपूजनशीलः ॥ 3-37-55 गौरिति बहुपुरुषभोग्येत्युपहासः ॥ 3-37-56 अभाषत शत्रुर्यत् तस्माद्दुःखादिदं त्वद्वियोगजमिति पूर्वेण सम्बन्धः ॥ 3-37-69 प्रातिष्ठत महाबाहुः सुमनाः प्रीतिमांस्तदेति क. पाठः ॥ 3-37-71 शुष्मिणो बलिनः ॥ 3-37-81 विनीतौ, जितौ क्रोधहर्षौ यैः ॥ 3-37-88 कामान् काम्यन्त इति व्युत्पत्त्या इष्टान् ॥ 3-37-90 अप्रतियात्यानिस्तीर्य ॥