अध्यायः 036
भीमयुधिष्ठिरसंवादसमयसन्निहितेन व्यासेन युधिष्ठिराय प्रतिस्मृतिविद्योपदेशः ॥ 1 ॥ युधिष्ठिरेण व्यासवचनात्परिजनैः सह द्वैतवनात्काम्यककवनगमनम् ॥ 2 ॥
वैशम्पायन उवाच KK03-02-036-001
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः । KK03-02-036-001a
निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ॥ KK03-02-036-001c
श्रुता मे राजधर्माश्च वर्णानां च पृथक्पृथक् । KK03-02-036-002a
आयत्यां च तदात्वे च यः पश्यति स पश्यति ॥ KK03-02-036-002c
धर्मस्य जानमानोऽहं गतिमग्र्यां सुदुर्विदाम् । KK03-02-036-003a
कथं बलात्करिष्यामि मेरोरिव विवर्तनम् ॥ KK03-02-036-003c
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम् । KK03-02-036-004a
भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ॥ KK03-02-036-004c
एवमेतन्महाबाहो यथा वदसि भारत । KK03-02-036-005a
इदमन्यत्समादत्स्व वाक्यं मे वाक्यकोविद ॥ KK03-02-036-005c
महापापानि कर्माणि यानि केवलसाहसात् । KK03-02-036-006a
आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥ KK03-02-036-006c
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते । KK03-02-036-007a
सिद्ध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥ KK03-02-036-007c
यत्तु केवलचापल्याद्बलदर्पोत्थितः स्वयम् । KK03-02-036-008a
आरब्धव्यमिदं कार्यं मन्यसे शृणु तत्र मे ॥ KK03-02-036-008c
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान् । KK03-02-036-009a
भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ॥ KK03-02-036-009c
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः । KK03-02-036-010a
सर्व एव कृतास्त्राश्च सततं चाततायिनः ॥ KK03-02-036-010c
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः । KK03-02-036-011a
ते श्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ॥ KK03-02-036-011c
दुर्योधनहिते युक्ता न तथाऽस्मासु भारत । KK03-02-036-012a
पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥ KK03-02-036-012c
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः । KK03-02-036-013a
संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥ KK03-02-036-013c
दुर्योधनेन ते वीरा मानिताश्च विशेषतः । KK03-02-036-014a
प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ॥ KK03-02-036-014c
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च । KK03-02-036-015a
द्रोणस्य च महाबाहो कृपस्य च महात्मनः ॥ KK03-02-036-015c
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः । KK03-02-036-016a
तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ॥ KK03-02-036-016c
सर्वेदिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः । KK03-02-036-017a
अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥ KK03-02-036-017c
अमर्षी नित्यसंरब्धस्तत्र कर्णो महारथः । KK03-02-036-018a
सर्वास्त्रविदनाधृष्यो ह्यभेद्यकवचावृतः ॥ KK03-02-036-018c
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान् । KK03-02-036-019a
अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥ KK03-02-036-019c
न निद्रामधिगच्छामि चिन्तयानो वृकोदर । KK03-02-036-020a
अतिसर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥ KK03-02-036-020c
वैशम्पायन उवाच KK03-02-036-021
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः । KK03-02-036-021a
बभूव शान्तिसंयुक्तो गुरोर्वचनवारितः ॥ KK03-02-036-021c
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः । KK03-02-036-022a
आजगाम महायोगी व्यासः सत्यवतीसुतः ॥ KK03-02-036-022c
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः । KK03-02-036-023a
युधिष्ठिरमिदं वाक्यमुवाच वदतांवरः ॥ KK03-02-036-023c
युधिष्ठिर महाबाहो वेद्मि ते हृदयस्थितम् । KK03-02-036-024a
मनीषया ततः क्षिप्रमागतोस्मि नरर्षभ ॥ KK03-02-036-024c
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत । KK03-02-036-025a
दुर्योधनान्नृपसुतात्तथा दुःशासनादपि ॥ KK03-02-036-025c
त्ते भयममित्रघ्न हृदि सम्परिवर्तते । KK03-02-036-026a
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना ॥ KK03-02-036-026c
तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय । KK03-02-036-027a
प्रतिपाद्य तु राजेन्द्र ततः क्षिप्रं ज्वरं जहि ॥ KK03-02-036-027c
तत एकान्तमानाय्य पाराशर्यो युधिष्ठिरम् । KK03-02-036-028a
अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥ KK03-02-036-028c
श्रेयसस्तेऽपरः कालः प्राप्तो भरतसत्तम । KK03-02-036-029a
येनाभिभविता शत्रून्रणे पार्थो धनुर्धरः ॥ KK03-02-036-029c
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव । KK03-02-036-030a
विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥ KK03-02-036-030c
यामवाप्य महाबाहुरर्जुनः साधयिष्यति । KK03-02-036-031a
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु ॥ KK03-02-036-031c
वरुणं च कुबेरं च धर्मराजं च पाण्डव । KK03-02-036-032a
शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥ KK03-02-036-032c
ऋषिरेष मेहातेजा नारायणसहायवान् । KK03-02-036-033a
पुराणः शाश्वतो देवस्त्वजेयो जिष्णुरच्युतः ॥ KK03-02-036-033c
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च । KK03-02-036-034a
समादाय महाबाहुर्महत्कर्म करिष्यति ॥ KK03-02-036-034c
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम् । KK03-02-036-035a
निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥ KK03-02-036-035c
एकत्र चिरवासो हि न प्रीतिजननो भवेत् । KK03-02-036-036a
तापसानां च शान्तानां भवेदुद्वेगकारकः ॥ KK03-02-036-036c
मृगाणामुपरोधश्च वीरुदोषधिसङ्क्षयः । KK03-02-036-037a
बिभर्षि च बहून्विप्रान्वेदवेदाङ्गपारगान् ॥ KK03-02-036-037c
वैशम्पायन उवाच KK03-02-036-038
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः । KK03-02-036-038a
प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥ KK03-02-036-038c
धर्मराजाय धीमान्स व्यासः सत्यवतीसुतः । KK03-02-036-039a
अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥ KK03-02-036-039c
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः । KK03-02-036-040a
धारयामास मेधावी कालेकाले सदाऽभ्यसन् ॥ KK03-02-036-040c
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः । KK03-02-036-041a
ययौ सरस्वतीकूले काम्यकं नाम काननम् ॥ KK03-02-036-041c
तमन्वयुर्महाराज शिक्षाक्षरविशारदाः । KK03-02-036-042a
ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥ KK03-02-036-042c
ततः काम्यकमासाद्य पुनस्ते भरतर्षभ । KK03-02-036-043a
न्यविशन्त महात्मानः सामान्याः सपदानुगाः ॥ KK03-02-036-043c
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः । KK03-02-036-044a
धनुर्वेदपरा वीरा गृणाना वेदमुत्तमम् ॥ KK03-02-036-044c
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः । KK03-02-036-045a
पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥ KK03-02-036-045c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षट्त्रिंशोऽध्यायः ॥ 36 ॥
3-36-2 आयत्यामुत्तरकाले तदात्वे वर्तमानकाले । यस्तान्पश्यति ॥ 3-36-4 इतिकृत्यतामितिकर्तव्यताम् । अपदान्तरमविलम्बितम् ॥ 3-36-6 व्यथन्ते व्यथयन्ति ॥ 3-36-7 सुविचारिते निश्चिते सति ॥ 3-36-13 सैन्यस्य सैन्यसम्बन्धिनः सर्वे । मात्राभिरंशपरिच्छेदैः ॥ 3-36-16 राजपिण्डो राजदत्तो ग्रासो निर्वेश्य आनृण्यार्थं शोधनीयः ॥ 3-36-20 लाघवं शीघ्रताम् ॥ 3-36-31 साधयिष्यति राज्यम् ॥ 3-36-33 शाश्वतो देवो विष्णोरंशः सनातन इति क. ठ. ध. पाठः ॥ 3-36-39 अनुज्ञाय पृष्ट्वा ॥ 3-36-40 ब्रह्म मन्त्रम् ॥ 3-36-43 सामात्याः सपरिच्छदा इति झ. पाठः ॥