अध्यायः 035

भीमेन युधिष्ठिरम्प्रति सोपपत्तिकं वनवासापूरणेनैव दुर्योधननिग्रहचोदना ॥ 1 ॥

भीमसेन उवाच KK03-02-035-001
सन्धिं कृत्वैव कालेन ह्यन्तकेन पतत्रिणा । KK03-02-035-001a
अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा ॥ KK03-02-035-001c
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः । KK03-02-035-002a
फेनधर्मा महाराज फलधर्मा तथैव च ॥ KK03-02-035-002c
निमेषादपि कौन्तेय यस्यायुरपचीयते । KK03-02-035-003a
सूच्येवाञ्जनचूर्णानि किमिति प्रतिपालयेत् ॥ KK03-02-035-003c
यो नूनममितायुः स्यादथवाऽऽयुःप्रमाणवित् । KK03-02-035-004a
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ KK03-02-035-004c
प्रतीक्ष्यमाणः कालो नः समा राजंस्त्रयोदश । KK03-02-035-005a
आयुषोपचयं कृत्वा मरणायोपनेष्यति ॥ KK03-02-035-005c
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् । KK03-02-035-006a
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ KK03-02-035-006c
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः । KK03-02-035-007a
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥ KK03-02-035-007c
यो न यातयते वैरमल्पसत्वोद्यमः पुमान् । KK03-02-035-008a
अफलं जन्म तस्याहं मन्ये दुर्जातजीविनः ॥ KK03-02-035-008c
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी । KK03-02-035-009a
हत्वा द्विषन्तं सङ्ग्रामे भुङ्क्ष्व बाहुजितं वसु ॥ KK03-02-035-009c
हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम । KK03-02-035-010a
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स सम्मितः ॥ KK03-02-035-010c
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः । KK03-02-035-011a
येनाहमभिसन्तप्तो न नक्तं न दिवा शये ॥ KK03-02-035-011c
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे । KK03-02-035-012a
आस्ते परमसन्तप्तो नूनं सिंह इवाशये ॥ KK03-02-035-012c
योऽयमेको नुदेत्सर्वांल्लोके राजन्धनुर्भृतः । KK03-02-035-013a
सोयमात्मजमूष्माणं महाहस्तीव यच्छति ॥ KK03-02-035-013c
नकुलः सहदेवश्च वृद्धा माता च वीरसूः । KK03-02-035-014a
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ KK03-02-035-014c
सर्वे तेऽप्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः । KK03-02-035-015a
अहमेकश्च सन्तप्तो माता च प्रतिविन्ध्यतः ॥ KK03-02-035-015c
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन । KK03-02-035-016a
सर्वे हि व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥ KK03-02-035-016c
नातः पापीयसी काचिदापद्राजन्भविष्यति । KK03-02-035-017a
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ KK03-02-035-017c
शीलदोषाद्धृणाविष्ट आनृशंस्यात्परन्तप । KK03-02-035-018a
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ KK03-02-035-018c
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः । KK03-02-035-019a
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥ KK03-02-035-019c
घृणी ब्राह्मणरूपोसि कथं क्षत्रेष्वजायथाः । KK03-02-035-020a
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ KK03-02-035-020c
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् । KK03-02-035-021a
क्रूरान्निकृतिसम्पन्नान्विहितानशमात्मकान् ॥ KK03-02-035-021c
धार्तराष्ट्रान्महाराज क्षमसे किं दुरात्मनः । KK03-02-035-022a
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ॥ KK03-02-035-022c
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च । KK03-02-035-023a
तृणानां मुष्टिनैकेन हिमवन्तं च पर्वतम् । KK03-02-035-023c
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ KK03-02-035-023e
अज्ञातचर्यागूढेन पृथिव्यां विश्रुतेन च । KK03-02-035-024a
दिवीव पार्थ सूर्येण न शक्याऽऽचरितुं त्वया ॥ KK03-02-035-024c
बृहत्साल इवानूपे शाखापुष्पपलाशवान् । KK03-02-035-025a
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥ KK03-02-035-025c
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू । KK03-02-035-026a
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ KK03-02-035-026c
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् । KK03-02-035-027a
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥ KK03-02-035-027c
मां चापि राजञ्जानन्ति ह्याकुमारमिमाः प्रजाः । KK03-02-035-028a
अज्ञातचर्यां पश्यन्ति मेरोरिव निगूहनम् ॥ KK03-02-035-028c
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः । KK03-02-035-029a
राजानो राजपुत्राश्च धार्तराष्ट्रमनुव्रताः ॥ KK03-02-035-029c
न हि तेऽप्युपशाम्यन्ति निकृता वा निराकृताः । KK03-02-035-030a
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥ KK03-02-035-030c
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूंश्चरान् । KK03-02-035-031a
आचक्षीरंश्च नो ज्ञात्वा ततः स्यात्सुमहद्भयम् ॥ KK03-02-035-031c
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश । KK03-02-035-032a
परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥ KK03-02-035-032c
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः । KK03-02-035-033a
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ KK03-02-035-033c
अथवाऽनडुहे राजन्साधने साधुवाहिने । KK03-02-035-034a
सौहित्यदानादेतस्मादेनसः प्रतिमुच्यते ॥ KK03-02-035-034c
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया । KK03-02-035-035a
क्षत्रियस्य हि सर्वस्य नान्यो धर्मोस्ति संयुगात् ॥ KK03-02-035-035c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चस्त्रिंशोऽध्यायः ॥ 35 ॥

3-35-1 पतत्रिणा बाणवत् शीघ्रगामिना स्रोतसा नित्यवाहिना ॥ 3-35-2 प्रत्यक्षं प्रत्यक्षेण ज्ञातम् । कालबन्धनः कालवश्यः फेनधर्मा निस्सारः । फलधर्मा पतनशीलः ॥ 3-35-3 सूच्येवाञ्जनचूर्णस्य । यथा कज्जलक्षोदस्यातिश्लक्ष्णस्य सूक्ष्माग्रया सूच्यापि किञ्चिदपचीयते एवं निमेषादपि यस्यायुरपचीयते स किमिति अवधिं प्रतिपालयेन्न कथमपीत्यध्याहृत्य योज्यम् । सूच्येवाञ्जनचूर्णस्येति झ. पाठः ॥ 3-35-7 प्रसङ्ख्यानं प्रकृष्ठां साधुकीर्तिम् । यतः अस्पष्टः शौर्याद्यभावादितरैरविदितः । भूमिवर्धनः भूमिहिंसकः । भूमेर्भारभूत इत्यर्थः । अयातयित्वा अनिस्तीर्य । गौर्बलीवर्दइव । सोप्यशक्तश्चेत् गोषु सङ्ख्यानं स्पष्टतां वाप्य प्राप्नुवन्भूमेर्भारभूतो भवति ॥ 3-35-8 दुर्जातशायिन इति क. पाठः ॥ 3-35-9 हैरण्यौ हिरण्यस्वामिनौ । श्रुतिः कीर्तिः । पार्थिवी पृथोः राज्ञ इवेत्यर्थः ॥ 3-35-10 निकर्तारं वञ्चकम् । अह्नाय सद्यः ॥ 3-35-12 आशये स्वस्थाने ॥ 3-35-15 प्रतिविन्ध्यतः प्रतिविन्ध्यस्य माता द्रौदी ॥ 3-35-19 अनुवाकः गुरूक्तिमनुवचनं तेन हता । अर्थज्ञानशून्यस्य । वेदाक्षरमात्राभ्यासिनः ॥ 3-35-20 घृणी दयालुः ॥ 3-35-22 आस्से तूष्णीम्भूतोसि । पीठसर्पवत् अजगरवत् ॥ 3-35-23 संवर्तुं संवरीतुं छादितुम् ॥ 3-35-25 अनूपे बहुजले देशे ॥ 3-35-30 निकर्तव्यं नीचं सूचनादिकर्म कर्तव्यम् ॥ 3-35-34 अनडुहे पूर्णं घासमुपाहृत्यानृतान्मुच्यत इति धर्मशास्त्रोक्तं प्रायश्चित्तं वा कर्तव्यमित्याहाथवेति । सौहित्यमातृप्तिभोजनम् ॥