अध्यायः 033

भीमेन युधिष्ठिरम्प्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्यत्वोक्तिः ॥ 1 ॥

KK03-02-033-001 वैशम्पायन उवाच
KK03-02-033-001a याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः ।
निश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ॥ KK03-02-033-001c
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् । KK03-02-033-002a
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ KK03-02-033-002c
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा । KK03-02-033-003a
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ॥ KK03-02-033-003c
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम् । KK03-02-033-004a
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥ KK03-02-033-004c
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः । KK03-02-033-005a
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ॥ KK03-02-033-005c
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् । KK03-02-033-006a
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ KK03-02-033-006c
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः । KK03-02-033-007a
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ KK03-02-033-007c
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् । KK03-02-033-008a
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ KK03-02-033-008c
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् । KK03-02-033-009a
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ॥ KK03-02-033-009c
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि । KK03-02-033-010a
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ KK03-02-033-010c
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः । KK03-02-033-011a
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ॥ KK03-02-033-011c
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः । KK03-02-033-012a
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ KK03-02-033-012c
भवान्धर्मो धर्म इति सततं व्रतकर्शितः । KK03-02-033-013a
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ KK03-02-033-013c
दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम् । KK03-02-033-014a
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ KK03-02-033-014c
स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम् । KK03-02-033-015a
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ॥ KK03-02-033-015c
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः । KK03-02-033-016a
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ KK03-02-033-016c
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् । KK03-02-033-017a
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ॥ KK03-02-033-017c
अथवा वयमेवैतान्निहत्य भरतर्षभ । KK03-02-033-018a
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ KK03-02-033-018c
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् । KK03-02-033-019a
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥ KK03-02-033-019c
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे । KK03-02-033-020a
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ॥ KK03-02-033-020c
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा । KK03-02-033-021a
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्म तत् ॥ KK03-02-033-021c
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् । KK03-02-033-022a
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥ KK03-02-033-022c
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः । KK03-02-033-023a
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥ KK03-02-033-023c
यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः । KK03-02-033-024a
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ॥ KK03-02-033-024c
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति । KK03-02-033-025a
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ KK03-02-033-025c
सततं यश्च कामार्थी नेतरावनुतिष्ठति । KK03-02-033-026a
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ KK03-02-033-026c
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् । KK03-02-033-027a
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ KK03-02-033-027c
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः । KK03-02-033-028a
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ KK03-02-033-028c
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः । KK03-02-033-029a
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ॥ KK03-02-033-029c
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते । KK03-02-033-030a
स कामश्चित्तसङ्कल्पः शरीरं नास्य दृश्यते ॥ KK03-02-033-030c
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति । KK03-02-033-031a
अर्थमिच्छति कामार्थी न कामादन्यमिच्छति ॥ KK03-02-033-031c
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत् । KK03-02-033-032a
उपयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ॥ KK03-02-033-032c
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा । KK03-02-033-033a
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ॥ KK03-02-033-033c
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति । KK03-02-033-034a
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥ KK03-02-033-034c
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः । KK03-02-033-035a
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ KK03-02-033-035c
तस्य नाशं विनाशं वा जरया मरणेन वा । KK03-02-033-036a
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ॥ KK03-02-033-036c
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च । KK03-02-033-037a
विषये वर्तमानानां या प्रीतिरुपजायते ॥ KK03-02-033-037c
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् । KK03-02-033-038a
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ॥ KK03-02-033-038c
न धर्मपर एव स्यान्न चार्थपरमो नरः । KK03-02-033-039a
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ KK03-02-033-039c
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत् । KK03-02-033-040a
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ KK03-02-033-040c
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत् । KK03-02-033-041a
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ KK03-02-033-041c
धर्मं चार्थं च कामं च यथावद्वदतांवर । KK03-02-033-042a
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ KK03-02-033-042c
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् । KK03-02-033-043a
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ॥ KK03-02-033-043c
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् । KK03-02-033-044a
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ KK03-02-033-044c
विदितश्चैव मे धर्मः सततं चरितश्च ते । KK03-02-033-045a
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ KK03-02-033-045c
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम् । KK03-02-033-046a
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥ KK03-02-033-046c
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् । KK03-02-033-047a
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥ KK03-02-033-047c
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते । KK03-02-033-048a
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ KK03-02-033-048c
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित् । KK03-02-033-049a
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ॥ KK03-02-033-049c
प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः । KK03-02-033-050a
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ KK03-02-033-050c
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका । KK03-02-033-051a
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥ KK03-02-033-051c
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान् । KK03-02-033-052a
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ॥ KK03-02-033-052c
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः । KK03-02-033-053a
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ KK03-02-033-053c
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् । KK03-02-033-054a
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ॥ KK03-02-033-054c
प्रजापालनसम्भूतं फलं तव न गर्हितम् । KK03-02-033-055a
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ KK03-02-033-055c
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि । KK03-02-033-056a
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ KK03-02-033-056c
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः । KK03-02-033-057a
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ॥ KK03-02-033-057c
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन । KK03-02-033-058a
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥ KK03-02-033-058c
जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम् । KK03-02-033-059a
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ KK03-02-033-059c
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः । KK03-02-033-060a
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ KK03-02-033-060c
एवं बलवतः सर्वमिति बुद्ध्वा महीपते । KK03-02-033-061a
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ॥ KK03-02-033-061c
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः । KK03-02-033-062a
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ KK03-02-033-062c
सत्वेन कुरुते युद्धं राजन्सुबलवानपि । KK03-02-033-063a
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ॥ KK03-02-033-063c
सत्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा । KK03-02-033-064a
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥ KK03-02-033-064c
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता । KK03-02-033-065a
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ KK03-02-033-065c
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः । KK03-02-033-066a
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ॥ KK03-02-033-066c
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः । KK03-02-033-067a
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥ KK03-02-033-067c
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः ॥ KK03-02-033-068a
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ KK03-02-033-068c
सत्वेन कुरुते युद्धं राजन्सुबलवानपि । KK03-02-033-069a
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ KK03-02-033-069c
सर्वथा संहतैरेव दुर्बलैर्बलवानपि । KK03-02-033-070a
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ KK03-02-033-070c
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः । KK03-02-033-071a
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ॥ KK03-02-033-071c
एतच्चापि तपो राजन्पुराणमिति नः श्रुतम् । KK03-02-033-072a
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ KK03-02-033-072c
न तथा तपसा राजल्ँलोकान्प्राप्नोति क्षत्रियः । KK03-02-033-073a
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥ KK03-02-033-073c
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा । KK03-02-033-074a
इतिलोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥ KK03-02-033-074c
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च । KK03-02-033-075a
कथयन्त्यः परिषदः पृथग्राजन्समागताः ॥ KK03-02-033-075c
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते । KK03-02-033-076a
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥ KK03-02-033-076c
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि । KK03-02-033-077a
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ॥ KK03-02-033-077c
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् । KK03-02-033-078a
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ KK03-02-033-078c
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः । KK03-02-033-079a
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ KK03-02-033-079c
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन । KK03-02-033-080a
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ KK03-02-033-080c
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा । KK03-02-033-081a
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥ KK03-02-033-081c
इतिलोके निर्वचनं पुरश्चरति भारत । KK03-02-033-082a
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ॥ KK03-02-033-082c
इमामवस्थां च गते सहास्माभिररिन्दम । KK03-02-033-083a
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ॥ KK03-02-033-083c
स भवान्रथमास्थाय सर्वोपकरणान्वितम् । KK03-02-033-084a
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ॥ KK03-02-033-084c
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् । KK03-02-033-085a
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ॥ KK03-02-033-085c
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा । KK03-02-033-086a
अमित्रांस्तेजसा मृद्नन्नसुरानिव वृत्रहा । KK03-02-033-086c
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ KK03-02-033-086e
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् । KK03-02-033-087a
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ KK03-02-033-087c
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत । KK03-02-033-088a
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ KK03-02-033-088c
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च । KK03-02-033-089a
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ॥ KK03-02-033-089c
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम् । KK03-02-033-090a
इह यत्नमुपाहृत्य बलेन महताऽन्वितः ॥ KK03-02-033-090c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

3-33-2 किम्प्रयोजनमिति शेषः । राज्यस्यपदवीमिति झ.ठ. पाठः.॥ 3-33-3 कूटं कपटम् ॥ 3-33-4 विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेण शुनकेनेत्यर्थः ॥ 3-33-5 धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः । अर्थं राज्याख्यम् ॥ 3-33-7 कुणीनां हस्तविकलानाम् । पङ्गूनां पादविकलानाम् । अनादरे षष्ठी ॥ 3-33-8 धर्मकामे धर्मेच्छायाम् । प्रतीतस्य विश्वस्तस्य ॥ 3-33-9 शास्त्रैः शमवचनैः । न जयामः स्म शात्रवानिति क. ध. पाठः ॥ 3-33-11 मृगचर्यामिव । एनां वनचर्याम् । बलस्थैर्न निषेवितां बलवद्भिरसेवितामित्यर्थः ॥ 3-33-13 न आपन्न इति सम्बन्धः ॥ 3-33-18 गां पृथिवीम् ॥ 3-33-20 कृत्यलक्षणे करणीयस्वरूपे ॥ 3-33-21 कुधर्मतत् इति पाठे कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ॥ 3-33-22 धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसम्भवौ ॥ 3-33-23 धर्मार्थे नत्वर्थकामार्थम् । अर्थं प्रयोजनम् ॥ 3-33-24 यस्य चात्मार्थमेवार्थ इति झ. पाठः ॥ 3-33-25 अतिवेलमत्यन्तम् ॥ 3-33-28 साहि धर्मार्थरूपाहि ॥ 3-33-29 अर्थपरिग्रहोऽर्थार्थमेवालम्बनीयः । इतरेतरयोर्नीतौ । धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः । मेघादुदधिपुष्टिरुदधेर्मेघपूर्तिरिव ॥ 3-33-30 द्रव्यस्य स्रक्चन्दनादेः स्पर्शः । अर्थस्य स्वर्णादेः संयोगो लाभः ॥ 3-33-31 न कामादर्थमृच्छतीति क. ध. पाठः ॥ 3-33-32 साध्यते फलमेव तदिति झ. पाठः. उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम् । काष्ठाद्भस्म साध्यं नतु भस्मतोपि भस्मान्तरे साध्यमस्ति तद्वत् ॥ 3-33-33 वैतंसिको वीतंसेन जीवतीति पक्षिहन्ता । वीतंसं बन्धनोपाये मृगाणां पक्षिणामपीति विश्वः ॥ 3-33-40 धर्मं पूर्वे अहनि चरेत् ॥ 3-33-41 कामं पूर्वे वयसि चरेत् ॥ 3-33-44 प्राप्तिर्महोदयो वा राज्यलाभजः तन्मोक्षाख्यं श्रेयः । दुःखं दुःखदम् ॥ 3-33-45 कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यं शंसन्ति कथयन्ति ॥ 3-33-49 क्लैब्येन कातर्येण । वेत्तुं लब्धुम् ॥ 3-33-50 द्विजः ब्राह्मणः ॥ 3-33-51 औरसम् उत्साहः ॥ 3-33-53 उदारम् ईश्वरभावम् । अवरे अनैश्वर्ये ॥ 3-33-54 क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ॥ 3-33-59 जिह्वां जिह्वायाः प्रियं साध्वन्नम् उत्कोचमित्यर्थः । क्षुद्राणां शत्रुपक्षीयाणाम् । निकृत्या भेदरूपेण छलेन । शल्यकः व्याधः । स हि मृगेभ्यो भक्ष्यं दत्त्वा विश्वास्य हत्वा आहारं लभते तद्वत् ॥ 3-33-63 सत्वेन बलेन । प्रमाणेन सन्धेन । उत्साहेन शत्रुपक्षीयैः सह सन्धानलक्षणेन ॥ 3-33-67 एवमेव बीजौपम्येन ॥ 3-33-69 होत्राभिः सान्त्वेन आह्वानैः ॥ 3-33-70 संहतैर्मिलितैः । मधुहा मध्वर्थं गतः । ओहाङ् गतौ इत्यस्य रूपम् । कालप्रतीक्षायां हि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ॥ 3-33-71 हन्ति रसशोषणेन । पाति वर्षेण ॥ 3-33-72 पुराणम् अनादि ॥ 3-33-73 इतरेण मरणेन ॥ 3-33-74 अपेयात् अपगच्छेत् । व्यवसितः निश्चितः ॥ 3-33-78 एनः पापम् । अवाप्नुवन् अवाप्तिहेतोः ॥ 3-33-81 श्वदृतौ सारमेयचर्मकोशे । ब्रह्म वेदः । वृषले शूद्रे ॥ 3-33-82 स्वाध्यायमधिकुर्वते श्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्थः ॥ 3-33-83 भवता हेतुना । उपद्रवे राज्यभ्रंशे ॥ 3-33-84 अर्थविभावको जयार्जितमर्थं प्रदातुम् ॥ 3-33-85 वाचयित्वा आशीर्वादान् ॥ 3-33-86 धार्तराष्ट्रादिति च्छेदः ॥ 3-33-90 उपाहृत्य आलम्ब्य ॥