अध्यायः 032
युधिष्ठिरम्प्रति द्रौपद्या ब्राह्मणोक्तबृहस्पतिनीतिकथनम् ॥ 1 ॥
द्रौपद्युवाच KK03-02-032-001
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन । KK03-02-032-001a
ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥ KK03-02-032-001c
आर्ताऽहं प्रलपामीदमिति मां विद्धि भारत । KK03-02-032-002a
भूयश्च विलपिष्यामि सुमनास्त्वं निबोध मे ॥ KK03-02-032-002c
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन । KK03-02-032-003a
अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥ KK03-02-032-003c
आमातृस्तन्यपानाच्च यावच्छय्योपसर्पणम् । KK03-02-032-004a
जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥ KK03-02-032-004c
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ । KK03-02-032-005a
इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥ KK03-02-032-005c
उत्थानमभिजानन्ति सर्वभूतानि भारत । KK03-02-032-006a
प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ KK03-02-032-006c
पश्यन्तः स्वं समुत्थानमुपजीवन्ति जन्तवः । KK03-02-032-007a
अपि धाता विधाता च यथाऽयमुदके बकः ॥ KK03-02-032-007c
[अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन । KK03-02-032-008a
तदेवाभिप्रपद्येत न विहन्यात्कदाचन ॥] KK03-02-032-008c
स्वकर्म कुरु माहासीः कर्मणा भव दंशितः । KK03-02-032-009a
कृत्यं हि योऽभिजानाति सहस्रे सोस्ति नास्ति वा ॥ KK03-02-032-009c
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा । KK03-02-032-010a
भक्ष्यमाणो ह्यनावापः क्षीयेत हिमवानपि ॥ KK03-02-032-010c
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि । KK03-02-032-011a
[तथा ह्येता न वर्धेरन्कर्म चेदफलं भवेत् ॥] KK03-02-032-011c
दृष्ट्वाऽपि च फलं कर्म पश्यामः कुर्वतो जनान् । KK03-02-032-012a
नान्यथा ह्यपि जानन्ति वृत्तिं लोकाः कथञ्चन ॥ KK03-02-032-012c
यश्च दिष्टपरो लोके यश्चापि हठवादकः । KK03-02-032-013a
उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ॥ KK03-02-032-013c
यो हि दिष्टमुपासीत निर्विचेष्टः सुखं स्वपन् । KK03-02-032-014a
अवसीदेत्सुदुर्बुद्धिरामो घट इवोदके ॥ KK03-02-032-014c
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत् । KK03-02-032-015a
आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥ KK03-02-032-015c
अकस्मादिह यः कश्चिदर्थं प्राप्नोति पूरुषः । KK03-02-032-016a
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥ KK03-02-032-016c
यश्चापि कश्रित्पुरुषो दिष्टं नाम भजत्युत । KK03-02-032-017a
दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥ KK03-02-032-017c
यत्तावत्कर्मणा किञ्चित्फलमाप्नोति पूरुषः । KK03-02-032-018a
प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति श्रुतम् ॥ KK03-02-032-018c
स्वभावतः प्रवृत्तो यः प्राप्नोत्यर्थं न कारणात् । KK03-02-032-019a
तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥ KK03-02-032-019c
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा । KK03-02-032-020a
यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणाम् ॥ KK03-02-032-020c
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः । KK03-02-032-021a
विदधाति विभज्येह फलं पूर्वकतं नृणाम् ॥ KK03-02-032-021c
यद्धि यः पुरुषः किञ्चित्कुरुते वै शुभाशुभम् । KK03-02-032-022a
तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥ KK03-02-032-022c
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि । KK03-02-032-023a
स यथा प्रेरयत्येनं तथाऽयं कुरुतेऽवशः ॥ KK03-02-032-023c
तेषुतेषु हि कृत्येषु विनियोक्ता महेश्वरः । KK03-02-032-024a
सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥ KK03-02-032-024c
मनसाऽर्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा । KK03-02-032-025a
बुद्धिपूर्वं स्वयं वीर पुरुषस्तत्र कारणम् ॥ KK03-02-032-025c
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ । KK03-02-032-026a
अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥ KK03-02-032-026c
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः । KK03-02-032-027a
एवं धीरो विजानीयादुपायं चास्य सिद्धये ॥ KK03-02-032-027c
ततः प्रवर्तते पश्चात्कारणेष्वस्य सिद्धये । KK03-02-032-028a
तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥ KK03-02-032-028c
कुशलेन कृतं कर्म कर्त्रा साधु स्वनुष्ठितम् । KK03-02-032-029a
इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥ KK03-02-032-029c
इष्टापूर्त्तफलं न स्यान्न शिष्यो न गुरुर्भवेत् । KK03-02-032-030a
पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥ KK03-02-032-030c
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते । KK03-02-032-031a
असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥ KK03-02-032-031c
सर्वमेव हठेनैके दैवेनैके वदन्त्युत । KK03-02-032-032a
पुंसः प्रयत्नजं केचिद्दैवमेतद्विशिष्यते ॥ KK03-02-032-032c
न चैवैतावता कार्यं मन्यन्त इति चापरे । KK03-02-032-033a
अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ॥ KK03-02-032-033c
दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः । KK03-02-032-034a
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः ॥ KK03-02-032-034c
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् । KK03-02-032-035a
कुशलाः प्रतिजानन्ति ये वै तत्त्वविदो जनाः ॥ KK03-02-032-035c
तथैव धाता भूतानामिष्टानिष्टफलप्रदः । KK03-02-032-036a
यदि न स्यान्न भूतानां कृपणो नाम कश्चन ॥ KK03-02-032-036c
यंयमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः । KK03-02-032-037a
तत्तत्सफलमेव स्याद्यदि न स्यात्पुरा कृतम् ॥ KK03-02-032-037c
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः । KK03-02-032-038a
तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥ KK03-02-032-038c
कर्तव्यमेव कर्मेति मनोरेष विनिश्चयः । KK03-02-032-039a
एकान्तेन ह्यनीहोऽयं वर्ततेऽस्मासु सम्प्रति ॥ KK03-02-032-039c
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर । KK03-02-032-040a
एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥ KK03-02-032-040c
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते । KK03-02-032-041a
कृते कर्मणि राजेन्द्र तथाऽनृण्यमवाप्नुते ॥ KK03-02-032-041c
अलक्ष्मीराविशत्येनं शयानमलसं नरम् । KK03-02-032-042a
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ KK03-02-032-042c
अनर्थं संशयावस्थं गृणन्त्यामुक्तसशंयाः । KK03-02-032-043a
धीरा नराः कर्मरता न तु निःसंशयाः क्वचित् ॥ KK03-02-032-043c
एकान्ते नह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम् । KK03-02-032-044a
स तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥ KK03-02-032-044c
अथवाऽसिद्धिरेव स्यान्महिमा तु तदेव ते । KK03-02-032-045a
वृकोदरस्य बीभत्सोर्भात्रोश्च यमयोरपि ॥ KK03-02-032-045c
अन्येषां कर्म सफलमस्माकमपि वा पुनः । KK03-02-032-046a
विप्रकर्षेण बुद्ध्येत कृतकर्मा यथा फलम् ॥ KK03-02-032-046c
पृथिवीं लाङ्गलेनेह कृष्ट्वा बीजं वपत्युत । KK03-02-032-047a
आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥ KK03-02-032-047c
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः । KK03-02-032-048a
यदन्यः पुरुषः कुर्यात्तत्कृतं सफलं मया ॥ KK03-02-032-048c
तच्चेदं फलमस्माकमपराधो न मे क्वचित् । KK03-02-032-049a
इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ॥ KK03-02-032-049c
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत । KK03-02-032-050a
निर्वेदो नात्र गन्तव्यो द्वावन्तौ यस्य कर्मणः ॥ KK03-02-032-050c
सिद्धिर्वाऽप्यथवाऽसिद्धिरप्रवृत्तिरतोऽन्यथा । KK03-02-032-051a
बहूनां समवाये हि भावानां कर्म सिध्यति ॥ KK03-02-032-051c
गुणाभावे फलं न्यूनं भवत्यफलमेव च । KK03-02-032-052a
अनारम्भे हि न फलं न गुणो दृश्यते क्वचित् ॥ KK03-02-032-052c
देशकालावुपायांश्च मङ्गलं स्वस्तिसिद्धये । KK03-02-032-053a
युनक्ति मेधया धीरो यथायोगं यथाबलम् ॥ KK03-02-032-053c
अप्युपायेन तत्कार्यमुपदेष्टा पराक्रमः । KK03-02-032-054a
भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥ KK03-02-032-054c
यत्रधीमानवेक्षेत श्रेयांसं बहुभिर्गुणैः । KK03-02-032-055a
साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥ KK03-02-032-055c
व्यसनं नाभिकाङ्क्षेत विनाशं वा युधिष्ठिर । KK03-02-032-056a
अपि सिन्धोर्गिरेर्वाऽपि किं पुनर्मर्त्यधर्मिणः ॥ KK03-02-032-056c
उत्थानयुक्तः सततं परेषामन्तरैषणे । KK03-02-032-057a
आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ KK03-02-032-057c
न त्वेवात्माऽवमन्तव्यः पुरुषेण कदाचन । KK03-02-032-058a
न ह्यात्मपरिभूतस्य भूतिर्भवति शोभना ॥ KK03-02-032-058c
एवं संस्थितिका सिद्धिरियं लोकस्य भारत । KK03-02-032-059a
चित्रा सिद्धिगतिः प्रोक्ता कालावस्था विभागशः ॥ KK03-02-032-059c
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम् । KK03-02-032-060a
सर्वं चार्थमिमं प्राह पित्रे मे भरतर्षभ ॥ KK03-02-032-060c
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा । KK03-02-032-061a
तेषां सकाशादश्रौषमहमेतां तदा गृहे ॥ KK03-02-032-061c
स मां राजन्कर्मवतीमागतामाह सान्त्वयन् । KK03-02-032-062a
शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥ KK03-02-032-062c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥
3-32-12 अपिवाह्य फलं कर्मेति ट. ध. पाठः ॥ 3-32-18 यत्नवान्कर्मणेति ध. पाठः ॥ 3-32-32 त्रैधमेतन्निरुच्यते इति झ. पाठः ॥ 3-32-33 दैवशिष्टं तथा हठमिति क. पाठः । दैवादिष्टं तथा हठ इति ठ. पाठः ॥ 3-32-39 एकान्ते नह्यनर्थोयमिति क ध. पाठः ॥ 3-32-59 संस्थितिका ईदृग्व्यवस्थावती सिद्धिः फलसिद्धिः ॥ 3-32-62 कर्मवतीमागतां किञ्चित्कार्योद्देशेन पितुरन्तिके आगताम् ॥