अध्यायः 031
युधिष्ठिरेण द्रौपदीम्प्रति धर्मस्य साफल्योपपादनम् ॥ 1 ॥
युधिष्ठिर उवाच 001
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः । 001a
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ॥ 001c
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्युत । 002a
ददामि देयमित्येव यजे यष्टव्यमित्युत ॥ 002c
अस्तु वाऽत्र फलं मा वा कर्तव्यं पुरुषेण यत् । 003a
गृहे निवसता कृष्णे यथाशक्ति करोमि तत् ॥ 003c
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् । 004a
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ॥ 004c
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् । 005a
[धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्] 005c
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति । 006a
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ॥ 006c
अतिवादान्मदाच्चैव मा धर्ममभिशङ्कथाः । 007a
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ॥ 007c
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः । 008a
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ॥ 008c
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि । 009a
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ॥ 009c
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते । 010a
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ॥ 010c
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः । 011a
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता ॥ 011c
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः । 012a
अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः ॥ 012c
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् । 013a
शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः ॥ 013c
एते हि धर्ममेवादौ वर्णयन्ति सदाऽनघे । 014a
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ॥ 014c
अतो नार्हसि कल्याणि धातारं धर्ममेव च । 015a
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ॥ 015c
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान् । 016a
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ॥ 016c
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् । 017a
एतावन्मन्यते बालो मोहमन्यत्र गच्छति ॥ 017c
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते । 018a
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ॥ 018c
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः । 019a
कामलोभानुगो मूढो नरकं प्रतिपद्यते ॥ 019c
आर्षं प्रमाणमुत्क्राम्य धर्मं न प्रतिपालयन् । 020a
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ॥ 020c
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते । 021a
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ॥ 021c
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि । 022a
न वै तस्य परो लोको नायमस्तीति निश्चयः ॥ 022c
शिष्टैराचरितं धर्मं कृष्णे मास्मातिशङ्कथाः । 023a
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ॥ 023c
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् । 024a
सैवः नौः सागरस्येव वणिजः पारमिच्छतः ॥ 024c
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः । 025a
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ॥ 025c
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् । 026a
विघातेनैव युज्येयुर्न चार्थं कञ्चिदाप्नुयुः ॥ 026c
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च । 027a
दानमार्जवमेतानि यदि स्युरफलानि वै ॥ 027c
नाचरिष्यन्परे धर्मं परे परतरेऽपि च । 028a
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ॥ 028c
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः । 029a
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ॥ 029c
फलदं त्विह विज्ञाय धातारं श्रेयसि स्थितम् । 030a
धर्मं तेऽव्यचरन्कृष्णे स हि धर्मः सनातनः ॥ 030c
स चायं सफलो धर्मो न धर्मोऽफल उच्यते । 031a
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ॥ 031c
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथाश्रुतम् । 032a
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ॥ 032c
एतावदेव पर्याप्तमुपमानं शुचिस्मिते । 033a
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ॥ 033c
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः । 034a
तेषां न धर्मजं किञ्चित्प्रेत्य कर्मास्ति शर्म वा ॥ 034c
कर्मणामुत पुण्यानां पापानां च फलोदयः । 035a
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ॥ 035c
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः । 036a
[अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ॥] 036c
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः । 037a
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्विषाः । 037c
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ॥ 037e
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः । 038a
यष्टव्यं च प्रयत्नेन दातव्यं चानसूयता ॥ 038c
कर्मणां फलमस्तीह तथैतद्धर्मशासनम् । 039a
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः ॥ 039c
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु । 040a
विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ॥ 040c
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप । 041a
शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी ॥ 041c
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् । 042a
उत्तमां देवतां कृष्णे मातिवोचः कथञ्चन ॥ 042c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
3-31-1 वल्गु शोभनम् । श्लक्ष्णं सुकुमारम् । नास्तिक्यं वेदविद्विष्टम् ॥ 3-31-8 दोषो दुर्बोध आत्मन इति ट. पाठः । अदोषो दुर्बलात्मनः इति ध. पाठः ॥ 3-31-21 मूढ आजन्म स न नन्दतीति ट. पाठः । आजन्मसु न नन्दतीति ध. पाठः । आत्मानं स विनश्यतीति क. पाठः ॥ 3-31-24 स वै नौः सागरस्येवेति ट. पाठः ॥