अध्यायः 030

भर्तृव्यसनदर्शनदूनया द्रौपद्या युधिष्ठिरम्प्रति धर्मादितोऽपि विधेरेव प्राबल्योपपादनम् ॥ 1 ॥

द्रौपद्युवाच 001
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव । 001a
पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः ॥ 001c
[कर्मभिश्चिन्तितो लोको गत्यां गत्यां पृथग्विधः । 002a
तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।] 002c
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च । 003a
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ 003c
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् । 004a
स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ 004c
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत । 005a
धर्मात्प्रियतरं किञ्चिदपि चेज्जीवितादपि ॥ 005c
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते । 006a
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ 006c
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह । 007a
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ 007c
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः । 008a
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ 008c
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते । 009a
बुद्धिः सततमन्वेति छायेव पुरुषं निजा ॥ 009c
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः । 010a
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ 010c
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान् । 011a
देवताश्च पितॄंश्चैव सततं पार्थ सेवसे ॥ 011c
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः । 012a
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत ॥ 012c
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका । 013a
आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि । 013c
नादेयं ब्राह्मणेभ्यस्ते गृहे किञ्चन विद्यते ॥ 013e
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते । 014a
तद्दत्त्वाऽतिथिभृत्येभ्यो राजञ्शिष्टेन जीवसि ॥ 014c
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये । 015a
वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ ॥ 015c
अस्मिन्नपि महारण्ये विजने दस्युसेविते । 016a
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति ॥ 016c
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः । 017a
इष्टास्त्वया महायज्ञा बहवोऽन्ये सदक्षिणाः ॥ 017c
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये । 018a
पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः ॥ 018c
ऋजोर्मृदोर्वदान्यस्य धीमतः सत्यवादिनः । 019a
कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ 019c
अतीव मोह आयाति मनश्च परिदूयते । 020a
निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम् ॥ 020c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 021a
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥ 021c
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये । 022a
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ 022c
यथा दारुमयीं योषां नरो धीरः समाहितः । 023a
इङ्गयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ 023c
आकाश इव भूतानि व्याप्य सर्वाणि भारत । 024a
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥ 024c
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः । 025a
ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः ॥ 025c
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः । 026a
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ 026c
नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन । 027a
स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः ॥ 027c
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । 028a
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ 028c
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः । 029a
धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ 029c
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः । 030a
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ 030c
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसञ्ज्ञितम् । 031a
येन कारयते कर्म शुभाशुभफलं विभुः ॥ 031c
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः । 032a
यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया ॥ 032c
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः । 033a
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ 033c
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च । 034a
अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ 034c
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः । 035a
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ 035c
एवं स भगवान्देवः स्वयम्भूः प्रपितामहः । 036a
निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥ 036c
सम्प्रयोज्य वियोज्यायं कामकारकरः प्रभुः । 037a
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥ 037c
न मातृपितृवद्राजन्धाता भूतेषु वर्तते । 038a
रोषादिव प्रवृत्तोऽयं यथाऽयमितरो जनः ॥ 038c
आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान् । 039a
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये ॥ 039c
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने । 040a
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ 040c
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि । 041a
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ 041c
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति । 042a
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ 042c
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति । 043a
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥ 043c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

3-30-1 धात्रे ईश्वराय । विधात्रे पूर्वकर्मणे ॥ 3-30-2 चिन्तितः कल्पितो लोको भोगसाधनम् । गत्याङ्गत्यां ऊर्ध्वाधोमध्यमोत्तमाधमयोनिषु । नित्यानि अपरिहार्यफलानि । लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ॥ 3-30-5 धर्मात्प्रियतरं नहि ते अध्यगमन् ज्ञातवन्तः किन्तु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ॥ 3-30-10 शृङ्गं प्रभुत्वाभिमानः ॥ 3-30-12 ते त्वया ॥ 3-30-15 पाकयज्ञा गृह्याग्निसाध्या इष्टयः ॥ 3-30-18 परीतया विपरीतया ॥ 3-30-19 ऋजोरवक्रस्य । मृदोर्दयालोः ॥ 3-30-22 धाता ईश्वरः । तथैव खलु इति क. पाठः । शुक्रं प्राक्कर्मबीजम् । उच्चरन्नुत्कर्षेणानुसरन् ॥ 3-30-24 अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः । बूतानि जरायुजादीनि ॥ 3-30-25 बद्धो वा बद्धइव ॥ 3-30-26 नसि नासिकायाम् । नस्यं नासासूत्रं तेन वा ओतः प्रोतः ॥ 3-30-37 सम्प्रयोज्य संयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः । क्रीडनकैः सारीप्रभृतिभिः ॥ 3-30-42 कृतं कर्म यदि कर्तारमेव गच्छति नत्वन्यं तर्हि कारयितृत्वादीश्वरोपि पापेन लिप्येतैवेत्यर्थः ॥