अध्यायः 029

युधिष्ठिरेण द्रौपदीम्प्रति क्रोधे बहुदोषोद्भावनपूर्वकं क्रोधगर्हणम् ॥ 1 ॥

'वैशम्पायन उवाच 001
द्रौपद्या वचनं श्रुत्वा श्लक्ष्णाक्षरपदं शुभम् । 001a
उवाच द्रौपदीं राजा स्मयमानो युधिष्ठिरः ॥ 001c
कारणे भवती क्रुद्धा धार्तराष्ट्रस्य दुर्मतेः । 002a
येन क्रोधं महाप्रज्ञे बहुधा बहुमन्यसे । 002c
क्रोधमूलं हरं शत्रुं कारणैः शृणु तं मम' ॥ 002e
युधिष्ठिर उवाच 003
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः । 003a
इति विद्धि महाप्रात्रे क्रोधमूलौ भवाभवौ । 003c
यो हि संहरते क्रोधं भावस्तस्य सुशोभने । 004a
'यो न संहरते क्रोधं तस्याभावो भवत्युत । 004c
अभावकारणं तस्मात्क्रोधो भवति शोभने' ॥ 004e
यः पुनः पुरुषः क्रोधं नित्यं विसृजते शुभे । 005a
तस्याभावाय भवति क्रोधः परमदारुणः ॥ 005c
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते । 006a
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥ 006c
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि । 007a
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥ 007c
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् । 008a
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥ 008c
हिंस्यात्क्रोधादवध्यांस्तु वध्यान्सम्पूजयीत च । 009a
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥ 009c
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः । 010a
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥ 010c
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चररेत् । 011a
एतद्द्रौपदि संस्मृत्यन मे मन्युः प्रवर्धते ॥ 011c
आत्मानं च परांश्चैव त्रायते महतो भयात् । 012a
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥ 012c
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः । 013a
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥ 013c
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः । 014a
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥ 014c
विद्वांस्तथैव यः शक्तः क्लिश्यमानः प्रकुप्यति । 015a
स नाशयित्वा द्वेष्टारं परलोके न नन्दति ॥ 015c
तस्माद्बलवता चैव दुर्बलेन च नित्यदा । 016a
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥ 016c
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः । 017a
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥ 017c
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता । 018a
तमेवं बहुदोषं तु क्रोधं सद्भिर्विवर्जितम् । 018c
मादृशो विसृजेत्तस्मात्सर्वलोकविनाशनम् ॥ 018e
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः । 019a
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चेतम् ॥ 019c
यस्तु क्रोधं समुत्पन्नं प्रज्ञया परिबाधते । 020a
तेजस्विनं तं विदुषो मन्यन्ते तत्त्वदर्शिनः ॥ 020c
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति । 021a
नाकार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥ 021c
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि । 022a
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥ 022c
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः । 023a
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥ 023c
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते । 024a
कालयुक्तं महाप्राज्ञैः क्रुद्धैस्तेजः सुदुर्लभम् ॥ 024c
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिनिश्चितम् । 025a
रजस्तु लोकनाशाय विहितं मानुषान्प्रति ॥ 025c
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् । 026a
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥ 026c
यदि सर्वमबुद्धीनामतिक्रान्तमचेतसाम् । 027a
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥ 027c
यदि न स्युर्मानुषेषु क्षमिणः पृथिवीसमाः । 028a
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥ 028c
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः । 029a
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥ 029c
आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम् । 030a
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥ 030c
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् । 031a
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥ 031c
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते । 032a
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ॥ 032c
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशाः । 033a
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥ 033c
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः । 034a
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥ 034c
क्षन्तव्यं पुरुषेणेह सर्वापत्सु सुशोभने । 035a
क्षमावतो हि भूतानां जन्म चैव प्रकीर्तितम् ॥ 035c
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा । 036a
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः । 036c
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ॥ 036e
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥ 037ac
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् । 038a
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना ॥ 038c
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् । 039a
यस्तमेवं विजानाति स सर्वं क्षन्तुर्महति ॥ 039c
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च । 040a
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् ॥ 040c
अति यज्ञविदां लोकान्क्षमिणः प्राप्नुवन्ति च । 041a
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ॥ 041c
अन्ये वै यजुषां लोकाः कर्मिणामपरे तथा । 042a
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः ॥ 042c
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् । 043a
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः ॥ 043c
तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् । 044a
यत्र ब्रह्म च सत्यं च यज्ञा लोकाश्च धिष्ठिताः ॥ 044c
'इज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा । 045a
'क्षन्तव्यमेव सततं पुरुषेण विजानता । 045c
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा ॥ 045e
क्षमावतामयं लोकः परश्चैव क्षमावताम् । 046a
इह सन्मानमृच्छन्ति परत्र च परां गतिम् ॥ 046c
येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा । 047a
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ 047c
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् । 048a
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥ 048c
पितामहः शान्तनवः शमं सम्पूजयिष्यति । 049a
कृष्णश्च देवकीपुत्रः शमं सम्पूजयिष्यति ॥ 049c
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः । 050a
कृपश्च सञ्जयश्चैव शममेव वदिष्यतः ॥ 050c
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च । 051a
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥ 051c
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति । 052a
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥ 052c
कालोऽयं दारुणः प्राप्तो भरतानामभूतये । 053a
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥ 053c
सुयोधनो नार्हतीति क्षमा मामेव विन्दति । 054a
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा ॥ 054c
एतदात्मवतां वृत्तमेष धर्मः सनातनः । 055a
क्षमा चैवानृशंस्यं च तत्कर्ताऽस्म्यहमञ्जसा ॥ 055c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥

3-29-3 भावयिता वर्धयिता । जितःसन्निति शेषः ॥ 3-29-7 पापं न कः कुर्यात् इति क. पाठः ॥ 3-29-11 चरेदाचरेत् ॥ 3-29-12 द्वयोरात्मपरयोः चिकित्सकः दोषापहर्ता । क्रुध्यन्तमप्रतिक्रुध्याञ्जयेल्लोकांश्च शाश्वतान् इति ख. पाठः ॥ 3-29-13 बलीयसामुपरि यदि अशक्तिमान् क्रुध्यते तर्हि आत्मानं देहं त्यजति । मनुष्याणामात्मनैव विपद्यते इति ख. पाठः । मनुष्याणां त्यजत्यात्मानमात्मना इति झ.पाठः ॥ 3-29-14 अनात्मनः अजितचित्तस्य ॥ 3-29-25 रजः रजोगुणपरिणामः ॥ 3-29-26 स्वधर्मान् अपगः अपहाय गच्छतीति तथा । द्वितीयाया अलुगार्षः ॥ 3-29-27 सर्वं क्षमार्जवादिकम् । अबुद्धीनां मूढैः अतिक्रान्तं लङ्घितम् । अनिन्दिते प्रशस्ते विषये क्षमादौ ॥ 3-29-29 अभिषक्तः तापितः । अभिषजेत्तापयेत् ॥ 3-29-30 आक्रुष्टो वाचा ताडितः । हतोऽन्येनाभिगतः । हिंसितस्ताडितः ॥ 3-29-32 जन्म उत्पत्तिः । तत्रहेतुः । प्रजानां सन्धिः दम्पत्योः प्रीतिः । एवं सङ्कुचिते लोके इति प्रजानां वृद्धिमूलं हि इति च. क. पाठः ॥ 3-29-33 अभवाय अनैश्वर्याय ॥ 3-29-34 जन्म प्रतिपद्यते । अन्यथा क्रोधप्राबल्ये । पूर्ववयस्येव दम्पत्योर्नाशाज्जन्मासम्भव इत्यर्थः ॥ 3-29-36 बलीयसा आक्रुष्टस्ताडितो वाऽशक्तः क्षमते तथा यः प्रभाववानपि क्षमते तस्य लोका इत्यर्थः ॥ 3-29-38 क्षमावतां गाथाः प्रशंसाः । क्षमावतां मध्ये महात्मना ॥ 3-29-40 ब्रह्म ब्राह्मणजातिः । भूतं सञ्चितं तपः भावि च क्षमैव रक्षति ॥ 3-29-41 अति अतिक्रम्य प्राप्नुवन्ति । तदूर्ध्वं पदमिति शेषः । ब्रह्मविदां वेदविदाम् ॥ 3-29-42 यजुषां त्रोताग्निसाध्यकर्मवताम् । कर्मिणां वापीकूपादिधर्मवताम् ॥ 3-29-48 तुष्य तुष्टा भव ॥ 3-29-52 दाता दास्यति ॥ 3-29-53 अभूतये नाशाय ॥