अध्यायः 028

द्रौपद्या युधिष्ठिरम्प्रति कालभेदेन क्षमाकोपयोरवश्याश्रयणीयत्वे प्रमाणतया बलिप्रह्लादसंवादानुवादपूर्वकं प्रकृते कोपस्यावश्यादरणीयत्वोक्तिः ॥

द्रौपद्युवाच 001
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । 001a
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च ॥ 001c
असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम् । 002a
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः ॥ 002c
क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत । 003a
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते ॥ 003c
श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम् । 004a
करिष्यामि हि तत्सर्वं यथावदनुशासनम् ॥ 004c
तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः । 005a
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥ 005c
प्रह्लाद उवाच 006
न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा । 006a
इति तात विजानीहि द्वयमेतदसंशयम् ॥ 006c
यो नित्यं क्षमते तात बहून्दोषान्स विन्दति । 007a
भृत्याः परिभवन्त्येनमुदासीनास्तथाऽरयः ॥ 007c
सर्वभूतानि चाप्यस्य न नमन्ते कदाचन । 008a
तस्मान्नित्यं क्षमा तात पण्डितैरपि वर्जिता ॥ 008c
अवज्ञाय हितं भृत्या भजन्ते बहुदोषताम् । 009a
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥ 009c
यानं वस्त्राण्यलङ्काराञ्शयनान्यासनानि च । 010a
भोजनान्यथ पानानि सर्वोपकरणानि च ॥ 010c
आददीरन्नधिकृता यथाकाममचेतसः । 011a
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात् ॥ 011c
न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन । 012a
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम् ॥ 012c
क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि । 013a
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः ॥ 013c
अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः । 014a
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः ॥ 014c
तथा च नित्यमुदिता यदि नाल्पमपीश्वरात् । 015a
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यकुर्वते ॥ 015c
'अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । 016a
पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनम् ॥ 016c
'एते चान्ये च बहवो नित्यं दोषाः क्षमावताम् । 017a
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम् ॥ 017c
अस्थाने यदि वा स्थाने सततं रजसावृतः । 018a
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा ॥ 018c
मित्रैः सह विरोधं च प्राप्नुते तेजसाऽऽवृतः । 019a
आप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा ॥ 019c
सोऽवमानादर्थहानिमुपालम्भमनादरम् । 020a
सन्तापद्वेषमोहांश्च शत्रूंश्च लभते नरः ॥ 020c
क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषोऽनयात् । 021a
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥ 021c
योपकर्तॄंश्च हर्तॄंश्च तेजसैवोपगच्छति । 022a
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ 022c
यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् । 023a
अन्तरं तस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ॥ 023c
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् । 024a
कालेकाले तु सम्प्राप्ते मृदुस्तीक्ष्णोपि वा भवेत् ॥ 024c
काले मृदुर्यो भवति काले भवति दारुणः । 025a
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ 025c
क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् । 026a
ये ते नित्यमसन्त्याज्या यथा प्राहुर्मनीषिणः ॥ 026c
पूर्वोपकारी यस्ते स्यादपराधे गरीयसि । 027a
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥ 027c
अबुद्धिमाश्रितानां तु क्षन्तव्यमपराधिनाम् । 028a
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ 028c
अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् । 029a
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथाऽनृजून् ॥ 029c
सर्वस्यैकोपराधस्ते क्षन्तव्यः प्राणिनो भवेत् । 030a
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥ 030c
अजानता भवेत्कश्चिदपराधः कृतो यदि । 031a
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ 031c
मृदुना दारुणं हन्ति मृदुना हन्त्यदारुणम् । 032a
नासाध्यं मृदुना किञ्चित्तस्मात्तीव्रतरं मृदु ॥ 032c
देशकालौ तु सम्प्रेक्ष्य बलाबलमथात्मनः । 033a
अन्वीक्ष्य कारणं चैव कार्यं तेजः क्षमापि वा ॥' 033c
नादेशकाले किञ्चित्स्याद्देशकालौ प्रतीक्षताम् । 034a
तथा लोकभयाच्चैव क्षन्तव्यमपराधितम् ॥ 034c
एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः । 035a
अतोऽन्यथाऽनुवर्तत्सु तेजसः काल उच्यते ॥ 035c
तदहं तेजसः कालं तव मन्ये नराधिप । 036a
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ 036c
न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति । 037a
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥ 037c
मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः । 038a
काले प्राप्ते द्वयं चैतद्यो वेद स महीपतिः ॥ 038c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

3-28-2 आगतागमं प्राप्तरहस्यम् ॥ 3-28-4 श्रेयः प्रशस्ततरम् । अत्र क्षमातेजसोर्मध्ये ॥ 3-28-8 अस्य एनम् ॥ 3-28-11 अधिकृताः अन्नपानादिसंरक्षणे नियुक्ताः । प्रदिष्टानि इदमस्मै देयमित्याज्ञापितानि ॥ 3-28-12 एनं क्षमिणम् । भर्तृपूजाभिः स्वाम्युचितमानेन ॥ 3-28-18 तेजसा क्रोधेन ॥ 3-28-20 उपालम्भं धिक्कारम् ॥ 3-28-22 उपकर्तॄनिति च्छेदः । सन्धिरार्षः । उपकर्तॄन्कोशादिवृद्धिकरान् । हर्तॄन् चोरान् ॥ 3-28-23 भवः ऐश्वर्यम् । अन्तरं छिद्रम् ॥ 3-28-28 अबुद्धिं मौढ्यम् ॥ 3-28-30 अपकृते अपकारे ॥ 3-28-32 मृदुना साम्रा ॥ 3-28-37 उत्स्रष्टुं प्रयोक्तुम् ॥