अध्यायः 026

दाल्भ्येन युधिष्ठिरम्प्रति ब्राह्मणस्य क्षत्रवृद्धिकारणत्वकथनम् ॥ 1 ॥ महर्षीणां युधिष्ठिराभिगमनम् ॥ 2 ॥

वैशम्पायन उवाच 001
वसत्सु वै द्वैतवने पाण्डवेषु महात्मसु । 001a
अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥ 001c
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वशः । 002a
ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥ 002c
यजुषामृचां साम्नां च गद्यानां चैव सर्वशः । 003a
आसीदुच्चार्यमाणानां निःस्वनो हृदयङ्गमः ॥ 003c
ज्याघोषश्चैव पार्थानां ब्रह्मघोषश्च धीमताम् । 004a
संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥ 004c
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् । 005a
सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥ 005c
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् । 006a
होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ॥ 006c
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः । 007a
भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥ 007c
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः । 008a
सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ॥ 008c
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम । 009a
भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥ 009c
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह । 010a
उदीर्णे दहतः शत्रून्वनानीवाग्निमारुतौ ॥ 010c
नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम् । 011a
विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं हन्ति नृपः सपत्नान् ॥ 011c
चरन्नैश्रेयसं धर्मं प्रजापालनकारितम् । 012a
नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥ 012c
अनूनमासीदसुरस्य कामैर्वैरोचनेः श्रीरपि चाक्षयाऽऽसीत् । 013a
लब्ध्वा महीं ब्राह्मणसम्प्रयोगात्तेष्वाचरन्दुष्टमथो व्यनश्यत् ॥ 013c
नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय । 014a
समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतम् ॥ 014c
कुञ्जरस्येव सङ्ग्रामे परिगृह्याङ्कुशग्रहम् । 015a
ब्राह्माणैर्विप्रहीनस्य क्षत्रस्य क्षीयते बलम् ॥ 015c
ब्राह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् । 016a
तौ यदा चरतः सार्धं तदा लोकः प्रसीदति ॥ 016c
यथा हि सुमहानग्निः कक्षं दहति सानिलः । 017a
तथा दहति राजन्यो ब्राह्मणेन समं रिपुम् ॥ 017c
ब्राह्मणेष्वेव मेधावी बुद्धिपर्येषणं चरेत् । 018a
अलब्धस्य च लाभाय लब्धस्य परिवृद्धये ॥ 018c
अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय । 019a
यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासयेत् ॥ 019c
ब्राह्मणेषूत्तमा भक्तिस्तव नित्यं युधिष्ठिर । 020a
तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥ 020c
वैशम्पायन उवाच 021
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् । 021a
युधिष्ठिरं स्तूयमाने भूयः सुमनसोऽभवन् ॥ 021c
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः । 022a
इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥ 022c
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः । 023a
हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥ 023c
कृतवाक्च सुवाक्चैव बृहदश्वो विभावसुः । 024a
ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥ 024c
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः । 025a
अजातशत्रुमानर्चुः पुरन्दरमिवर्षयः ॥ 025c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षड्विंशोऽध्यायः ॥ 26 ॥

3-26-1 अनुकीर्णं व्याप्तम् ॥ 3-26-3 गद्यानां ब्राह्मणवाक्यानां पादाक्षरादिनियमहीनानाम् । साम्नां च निगमानां च भारतेति क. पाठः । भाष्याणाञ्चैव सर्वश इति ख. पाठः.॥ 3-26-5 सन्ध्यामुपास्येति शेषः ॥ 3-26-11 नृपः अब्राह्मणो ब्राह्मणहीनो न बुभूषेत् न भवितुमिच्छेत् । तस्येच्छतोपि जयो दुर्लभ इत्यर्थः । विनीतौ सम्यक् शिक्षितौ धर्मार्थौ येन ॥ 3-26-12 तीर्थमुपायम् ॥ 3-26-13 वैरोचनेर्बलेः ॥ 3-26-15 अङ्कुशग्रहमङ्कुशेन निगृह्णाति तम् । परिगृह्य वर्जयित्वा । परिर्वर्जने ॥ 3-26-18 बुद्धिपर्येषणं बुद्धेः साकल्येन सङ्ग्रहणम् ॥ 3-26-19 यथार्हतीर्थे यथायोग्यपात्रे । प्रतिपादनाय दानाय ॥