अध्यायः 025
मार्कण्डेयेन पाण्डवानुपेत्य धर्मोपदेशपूर्वकमुत्तरदिग्गमनम् ॥ 1 ॥
वैशम्पायन उवाच 001
तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् । 001a
विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीसालवनेषु तेषु ॥ 001c
यतींश्च राजा स मुनींश्च सर्वांस्तस्मिन्वने मूलफलैरुदग्रैः । 002a
द्विजातिमुख्यानृषभः कुरूणां सन्तर्पयामास महानुभावः ॥ 002c
इष्टीश्च पित्र्याणि तथा क्रियाश्च महावने वसतां पाण्डवानाम् । 003a
पुरोहितस्तत्र समृद्धतेजाश्चकार धौम्यः पितृवन्नृपाणाम् ॥ 003c
अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम । 004a
तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ 004c
तमागतं ज्वलितहुताशनप्रभं महामनाः कुरुवृषभो युधिष्ठिरः । 005a
अपूजयत्सुरऋषिमानवार्चितं महामुनिं ह्यनुपमसत्ववीर्यवान् ॥ 005c
स सर्वविद्द्रौपदीं वीक्ष्य दीनां युधिष्टिरं भीमसेनार्जुनौ च । 006a
संस्मृत्यरामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ॥ 006c
तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनोऽमी । 007a
भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य ॥ 007c
मार्कण्डेय उवाच 008
न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः । 008a
तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि ॥ 008c
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् । 009a
धन्वी चरन्पार्थ मयैव दृष्टो गिरेः पुरा ऋष्यमूकस्य सानौ ॥ 009c
सहस्रनेत्रप्रतिमो महात्मा यमस्य नेता नमुचेश्च हन्ता । 010a
पितुर्निदेशादनघः स्वधर्मं चरन्वने दाशरथिश्चकार ॥ 010c
स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः । 011a
विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ॥ 011c
भूपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य । 012a
सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम् ॥ 012c
अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूशराजम् । 013a
विहाय राज्यानि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ॥ 013c
धात्रा विधिर्यो विहितः पुराणैस्तं पूजयन्तो नरवर्य सन्तः । 014a
सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् ॥ 014c
महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र । 015a
स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम् ॥ 015c
सर्वाणि भूतानि नरेन्द्र पश्य तथा यथावद्विहितं विधात्रा । 016a
स्वयोनितः कर्म सदाचरन्ति नेशे बलस्येति चरेदधर्मम् ॥ 016c
सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य । 017a
यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ ॥ 017c
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य । 018a
ततः श्रियं तेजसा तेन दीप्तामादास्यसे पार्थिव कौरेवभ्यः ॥ 018c
वैशम्पायन उवाच 019
तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्धिः । 019a
आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः ॥ 019c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
3-25-1 महावनेष्वम्बुफलोचितेषु सरस्वतीति ख. पाठः । भागीरथीसालवनेष्विति क. पाठः ॥ 3-25-3 इष्टीः दर्शपौर्णमासाद्याः । पित्र्याणि पिण्डपितृयज्ञदर्शश्राद्धादीनि ॥ 3-25-4 राष्ट्रात् अपेत्य निर्गत्य वने वसताम् ॥ 3-25-6 अस्मयत विस्मितवान् ॥ 3-25-7 ह्रिया प्रागल्भ्यसङ्कोचेन ॥ 3-25-11 बलस्य बहुसामर्थ्यस्य ईशे प्रभवामीति हेतोरधर्मं न चरेत् । शक्तौ सत्यां धर्ममेवाचरेन्नत्वधर्ममित्यर्थः । नेशो बलस्येतीति क. पाठः ॥ 3-25-14 धात्रा ईशेन पुराणैर्वेदवाक्यैर्विहितो विधिरग्निहोत्रादिः ॥ 3-25-15 पशवोऽपि बलवानस्मीति दर्पेणाधर्मं न चरन्तीत्याह महाबलानिति । विषाणं दन्तः ॥ 3-25-17 विभा प्रभा सैव वसु वित्तं यस्य ॥ 3-25-18 आदास्यते ग्रहीष्यसि ॥