अध्यायः 024
पाण्डवैश्चिरावस्थाननिर्धारणपूर्वकं द्वैतवनप्रवेशः ॥ 1 ॥
वैशम्पायन उवाच 001
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः । 001a
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ 001c
द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने । 002a
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ 002c
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् । 003a
यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ॥ 003c
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः । 004a
गुरुवन्मानववरं मानयित्वा मनस्विनम् ॥ 004c
भवानेव महर्षीणां वृद्धानां पर्युपासिता । 005a
अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ॥ 005c
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः । 006a
द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ 006c
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी । 007a
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ 007c
अनुभावांश्च जानासि ब्राह्मणानां न संशयः । 008a
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ 008c
त्वमेव राजञ्जानासि श्रेयःकारणमेव च । 009a
यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥ 009c
इदं द्वैतवनं नाम सरः पुण्यजनोषितम् । 010a
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ 010c
अत्रेमा द्वादश समा विहरेमेति रोचये । 011a
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ॥ 011c
युधिष्ठिर उवाच 012
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् । 012a
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ॥ 012c
वैशम्पायन उवाच 013
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः । 013a
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ 013c
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः । 014a
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥ 014c
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् । 015a
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ 015c
ते यात्वा पाण्डवास्तत्र ब्राह्मणैर्बहुभिः सह । 016a
पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ॥ 016c
तत्सालतालाम्रमधूकनीपकदम्बसर्जार्जुनकर्णिकारैः । 017a
तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श ॥ 017c
महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः । 018a
मयूरदात्यूहचकोरसङ्घास्तस्मिन्वने बर्हिणकोकिलाश्च ॥ 018c
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् । 019a
महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ 019c
मनोरमां भोगवतीमुपेत्य पूतात्मनां चीरजटाधराणाम् । 020a
तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् ॥ 020c
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् । 021a
विवेश धर्मात्मवतां बरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः ॥ 021c
तं सत्यसन्धं सहिताऽभिपेतुर्दिदृक्षवश्चारणसिद्धसङ्घाः । 022a
वनौकसश्चापि नेरन्द्रसिंहं मनस्विनं तं परिवार्य तस्थुः ॥ 022c
स तत्र वृद्धानभिवाद्य सर्वान् प्रत्यर्चितो राजवद्देववच्च । 023a
विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ 023c
स पुण्यशीलः पितृवन्महात्मा तपस्विभिधर्मपरैरुपेत्य । 024a
प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा ॥ 024c
भीमश्च कृष्णा च धनञ्जयश्च यमौ च ते चानुचरा नरेन्द्रम् । 025a
विमुच्यवाहानवशाश्च सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः ॥ 025c
लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरेव धन्विभिः । 026a
बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव ॥ 026c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
3-24-1 सत्यसङ्गर सत्यप्रतिज्ञः ॥ समाः वर्षाणि । सन्धिरार्षः ॥ 3-24-8 अनुभावान् कर्तव्याकर्तव्यविषयान्निश्चयान् । प्रभावो निग्रहानुग्रहशक्तिः । सर्वा गतीर्विजानासि इति क. पाठः ॥ 3-24-10 द्वैतं द्वौ शोकमोहौ इतौ गतौ यस्मात्तद्वीतं द्वीतमेव द्वैतम् । स्वार्थे तद्धितः । वनं जलं यस्मिन् द्वैतवनम् ॥ 3-24-11 विहरेम प्रीत्यानयेम ॥ 3-24-16 यात्वा गत्वा ॥ 3-24-17 तपात्यये वर्षासु ॥ 3-24-19 करेणुः हस्तिनी ॥ 3-24-20 भोगवतीं सरस्वतीं नदीम् ॥ 3-24-22 चारणाः देवगायनाः ॥ 3-24-24 महाद्रुमः कदम्बः ॥ 3-24-26 लतावतानावनतः वल्लीतन्तुभिरावृततया नम्रः ॥