अध्यायः 023

कृष्णादीनां पाण्डवान्दृष्ट्वा वनात्स्वनगरगमनानन्तरं पाण्डवैः पौराणामाश्वासनपूर्वकं नगरप्रति निवर्तनम् ॥ 1 ॥

वैशम्पायन उवाच 001
तस्मिन्दशार्हाधिपतौ प्रयाते युधिष्ठिरो भीमसेनार्जुनौ च । 001a
यमौ च कृष्णा च पुरोहितश्च रथान्महार्हान्परमाश्वयुक्तान् ॥ 001c
अस्थाय वीराः सहिता वनाय प्रतस्थिरे भूतपतिप्रकाशाः । 002a
हिरण्यनिष्कान्वसनानि गाश्च गदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥ 002c
प्रेष्याः पुरो विंशतिरात्तशस्त्रा धनूंषि शस्त्राणि शरांश्च दीप्तान् । 003a
मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमीयुः ॥ 003c
ततस्तु वासांसि च राजपुत्र्या धात्र्यश्च दास्यश्च विभूषणञ्च । 004a
तदिन्द्रसेनस्त्वरितः प्रगृह्य जघन्यमेवोपययौ रथेन ॥ 004c
ततः कुरुश्रेष्ठमुपेत्य पौराः प्रदक्षिणं चक्रुरदीनसत्वाः । 005a
तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥ 005c
स चापि तानभ्यवदत्प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः । 006a
तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥ 006c
पितेव पुत्रेषु स तेषु भावं चक्रे कुरूणामृषभो महात्मा । 007a
ते चापि तस्मिन्भरतप्रबर्हे तथा बभूवुः पितरीव पुत्राः ॥ 007c
ततस्तमासाद्य महाजनौघाः कुरुप्रवीरं परिवार्य तस्थुः । 008a
हा नाथ हा धर्म इति ब्रुवाणा ह्रीताश्च सर्वेऽऽश्रुमुखा बभूवुः ॥ 008c
वरः कुरूणामधिपः प्रजानां पितेव पुत्रानपहाय चास्मान् । 009a
पौरानिमाञ्जानपदांश्च सर्वान् हित्वा प्रयातः क्वनु धर्मराजः ॥ 009c
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं धिक्सौबलं पापमतिं च कर्णम् । 010a
अनर्थमिच्छन्ति नरेन्द्र पापा ये धर्मनित्यस्य सतस्तवोग्राः ॥ 010c
स्वयं निवेश्याप्रतिमं महात्मा पुरं महादेवपुरप्रकाशम् । 011a
शतक्रतुप्रस्थममोघकर्मा हित्वा प्रयातः क्वनु धर्मराजः ॥ 011c
चकार यामप्रतिमां महात्मा सभां मयो देवसभाप्रकाशाम् । 012a
तां देवगुप्तामिव देवमायां हित्वा प्रयातः क्वनु धर्मराजः ॥ 012c
तान्धर्मकामार्थविदुत्तमौजा बीभत्सुरुच्चैः सहितानुवाच । 013a
आदास्यते वासमिमं निरुष्य वनेषु राजा द्विषतां यशांसि ॥ 013c
द्विजातिमुख्याः सहिताः पृथक् क्वभवद्भिरासाद्य तपस्विनश्च । 014a
प्रसाद्य धर्मार्थविदश्च वाच्या यथार्थसिद्धिः परमा भवेन्नः ॥ 014c
इत्येवमुक्ते वचनेऽऽर्जुनेन ते ब्राह्मणाः सर्ववर्णाश्च राजन् । 015a
मुदाऽभ्यनन्दन्सहिताश्च चक्रुः प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥ 015c
आमन्त्र्य पार्थञ्च वृकोदरञ्च धनञ्जयं याज्ञसेनीं यमौ च । 016a
प्रतस्थिरे राष्ट्रमपेतहर्षा युधिष्ठिरेणानुमता यथास्वम् ॥ 016c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

3-23-1 भूतपतिः शिवः । निष्कः अष्टोत्तरशतं सुवर्णानि वक्षोऽलङ्कारो वा । शिक्षेतिव्याकरणाद्यङ्गानामुपलक्षणम् । अक्षराणि वेदः । नित्यत्वात्क्षरणशून्यः । मन्त्रः प्रणवः ॥ 3-23-3 पुरः प्रागेव । जघन्यं पाश्चात्यं द्वारकादेशम् ॥ 3-23-4 राजपुत्र्या सुभद्रया सह ॥ 3-23-7 तदा बभूवुरिति झ. पाठः ॥ 3-23-8 ह्रीताः कुराज्ये तिष्ठाम इति लज्जिताः ॥ 3-23-10 अनर्थं द्यूतजम् ॥ 3-23-13 बीभत्सुरर्जुनः आदास्यते आच्छिद्य ग्रहीष्यति । यशांसि यशस्कराणि दिव्यसभादीनि ॥ 3-23-14 भवद्भिः पौरैः वाच्याः प्रार्थ्याः ॥