अध्यायः 022

कृष्णेन युधिष्ठिरम्प्रति स्वेन साल्वसंहारकथनपूर्वकं सुभद्राभिमन्युमभ्यां सह द्वारकागमनम् ॥ 1 ॥ धृष्टद्युम्नधृष्टकेतुभ्यां यथाक्रमं द्रौपदेयान्नकुलभार्यां स्वस्वनगरगमनम् ॥ 2 ॥

वासुदेव उवाच 001
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः । 001a
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥ 001c
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः । 002a
प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ 002c
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह । 003a
अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ॥ 003c
अथ दानवसङ्घास्ते विकृताननमूर्धजाः । 004a
उदक्रोशन्महाराज धिष्ठिते मयि भारत ॥ 004c
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे । 005a
अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ 005c
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः । 006a
शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ॥ 006c
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् । 007a
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ॥ 007c
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत । 008a
नादयामासुरसुरास्ते चापि निहता मया ॥ 008c
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत । 009a
सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ 009c
ततो लोकान्तकरणो दानवो दारुणाकृतिः । 010a
शिलावर्षेण महता सहसा मां समावृणोत् ॥ 010c
सोहं पर्वतवर्षेण वध्यमानः समन्ततः । 011a
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ 011c
ततोऽहं पर्वतचितः सहयः सहसारथिः । 012a
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ 012c
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा । 013a
ते भयार्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ॥ 013c
ततो हाहाकृतमभूत्सर्वं किल विशाम्पते । 014a
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥ 014c
ततो विषण्णमनसो मम राजन्सुहृज्जनाः । 015a
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ 015c
द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि । 016a
एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ 016c
ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम् । 017a
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ 017c
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः । 018a
हया मम महाराज वेपमाना इवाभवन् ॥ 018c
मेघजाल इवाकाशे विदार्याभ्युदितं रविम् । 019a
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ 019c
ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान् । 020a
हयान्सन्दृश्य मां सूतः प्राह तात्कालिकं वचः ॥ 020c
साधु सम्पश्य वार्ष्णेय साल्वं सौभपतिं स्थितम् । 021a
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ॥ 021c
मार्दवं सखितां चैव साल्वादद्य व्यपाहर । 022a
जहि साल्वं महाबाहो मैनं जीवय केशव ॥ 022c
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् । 023a
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा । 023c
योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ 023e
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो । 024a
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ 024c
जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून् । 025a
स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ॥ 025c
नैष मार्दवसाध्यो वै मतो नापि सखा तव । 026a
येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ 026c
एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः । 027a
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ 027c
वधाय साल्वराजस्य सौभस्य च निपातने । 028a
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ 028c
ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत् । 029a
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् । 029c
योजयं तत्र धनुषा दानवान्तकरं रणे ॥ 029e
यक्षाणां राक्षसानां च दानवानां च संयुगे । 030a
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ 030c
क्षुरान्तममलं चक्रं कालान्तकयमोपमम् । 031a
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ॥ 031c
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम । 032a
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ 032c
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा । 033a
द्वितीयस्येव सूर्यस्य युगान्ते प्रतपिष्यतः ॥ 033c
तत्समासाद्य नगरं सौभं व्यपगतत्विषम् । 034a
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ 034c
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् । 035a
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥ 035c
तस्मिन्निपतिते सौभे चक्रमागात्करं मम । 036a
पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ॥ 036c
ततः साल्वं गदां गुर्वीमाविध्यन्तं महाहवे । 037a
द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ 037c
तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः । 038a
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ 038c
ततोऽहं समवस्थाप्य रथं सौभसमीपतः । 039a
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ 039c
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् । 040a
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ॥ 040c
एवं निहत्य समरे सौभं साल्वं निपात्य च । 041a
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ 041c
तदेतत्कारणं राजन्नागमं नागसाह्वयम् । 042a
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ॥ 042c
मय्यागतेऽथवा वीर द्यूतं न भविता तथा । 043a
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ॥ 043c
वैशम्पायन उवाच 044
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः । 044a
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ॥ 044c
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् । 045a
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ 045c
परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः । 046a
सम्मानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ॥ 046c
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् । 047a
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ 047c
शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा । 048a
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥ 048c
ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः । 049a
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ 049c
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् । 050a
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ 050c
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा । 051a
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ 051c
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः । 052a
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ 052c
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः । 053a
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ 053c
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः । 054a
शशास पुरुषान्काले रथान्योजयतेति वै ॥ 054c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

3-22-2 सुवाससः सुपुङ्खान् ॥ 3-22-4 विकृताननमूर्धजा इति तेषां स्वरूपकथनं नतु तद्दर्शनम् । धिष्ठिते प्रागल्भ्येन स्थिते । विष्ठिते इति पाठेपि सएवार्थः ॥ 3-22-5 शब्दएव साहो लक्ष्यं यत्र तत्तथा शब्दवेधि शब्देऽस्त्रमुपारमन्न्यपतदित्यर्थः शब्दसाहं शब्दबाधानिवारकं वा ॥ 3-22-6 शब्दसाधनैः शब्दएव साधनं लक्ष्यसम्बन्धे कारणं येषां तैः । पुरस्यादृश्यत्वात् ॥ 3-22-9 प्राग्ज्येतिषं पूर्वसमुद्रतीरस्थं नगरविशेषम् । यतः कामगमम् अतः प्राग्ज्योतिषं गत्वा व्यदृश्यत ॥ 3-22-12 अप्रख्यातिम् अदर्शनम् । इयां प्राप्तवान् ॥ 3-22-16 एवं मां सौभराजो विजितवान् एतदप्यहं पश्चादश्रौषं पूर्वं मोहमापन्नः सन् सञ्ज्ञालाभानन्तरं श्रुतवान्सारथिमुखेनेति शेषः । एवमज्ञातवान्वीरेति ट. पाठः ॥ 3-22-17 इन्द्रदयितम् इन्द्रदैवत्यम् । वज्रं वज्रास्त्रम् समशातयं नाशितवान् ॥ 3-22-19 आहारयन्प्राप्तवन्तः ॥ 3-22-20 तात्कालिकं तत्कालयोग्यम् ॥ 3-22-23 पीठगः स्वासनस्थः । अयुध्यमानोपीत्यर्थः ॥ 3-22-30 प्रतिलोमानां विपरिताचाराणाम् म्लेच्छानाम् ॥ 3-22-31 क्षुरान्तं तीक्ष्णपरिधि ॥ 3-22-32 तस्मै सौभाय । प्राहिणवं प्रहितवान् ॥ 3-22-33 युगान्ते परिवेष्टत इति ट. पाठः ॥ 3-22-34 क्रकचः दन्तुरखङ्गः ॥ 3-22-43 उदकं धारयितुमिति शेषः ॥ 3-22-50 धृष्टकेतुः शिशुपालसुतः । स्वसारं करेणुमतीं नकुलभार्याम् ॥ 3-22-51 केकयाः सहदेवश्यालाः ॥ 3-22-54 शशास आज्ञापयामास ॥