अध्यायः 021 कृष्णसाल्वयोर्युद्धम् ॥ 1 ॥ साल्वेन स्वमायासृष्टवसुदेवस्य शिरश्छेदनप्रदर्शनेन कृष्णव्यामोहनम् ॥ 2 ॥ ततो मुहूर्तेन प्रतिबुद्धेन कृष्णेन स्वानुभूतस्य मायिकत्वाध्यवसायः ॥ 3 ॥

वासुदेव उवाच 001
एवं स पुरुषव्याघ्रः साल्वो राज्ञां महारिपुः । 001a
युध्यमानो मया सङ्ख्ये वियदभ्यगमत्पुनः ॥ 001c
ततः शतघ्नीश्च महागदाश्च दीप्ताश्च शूलान्मुसलानसींश्च । 002a
चिक्षेप रोषान्मयि मन्दबुद्धिः साल्वो महाराज जयाभिकाङ्क्षी ॥ 002c
तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव । 003a
द्विधा त्रिता चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव ॥ 003c
ततः शतसहस्रेण शराणां नतपर्वणाम् । 004a
दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥ 004c
ततो मामब्रवीद्वीर दारुको विह्वलन्निव । 005a
स्थातव्यमिति तिष्ठामि साल्वबाणप्रपीडितः । 005c
अवस्थातुं न शक्नोमि अङ्गं मे व्यवसीदति ॥ 005e
इति तस्य निशम्याहं सारथेः करुणं वचः । 006a
अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥ 006c
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये । 007a
अन्तरं पाण्डवश्रेष्ठ पश्याम्यनिचितं शरैः ॥ 007c
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम् । 008a
अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥ 008c
अभीशुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे । 009a
अस्तम्भयं महाबाहो साल्वबाणप्रपीडितम् ॥ 009c
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् । 010a
त्वरितो रथमारोप्य सौहृदादिव भारत ॥ 010c
आहुकस्य वचो वीर तस्यैव परिचारकः । 011a
विषण्णः सन्नकण्ठेन तन्निबोध युधिष्ठिर ॥ 011c
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः । 012a
केशवैहि विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ 012c
उपयात्वा तु साल्वेन द्वारकां वृष्णिनन्दन । 013a
विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥ 013c
तदलं साधुयुद्धेन निवर्तस्व जनार्दन । 014a
द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥ 014c
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः । 015a
निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य च ॥ 015c
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् । 016a
जगर्हे मनसा वीर तच्छ्रुत्वा महदप्रियम् ॥ 016c
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन । 017a
तेषु रक्षां समाधाय प्रयातः सौभपातने ॥ 017c
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा । 018a
सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् । 018c
साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ 018e
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन । 019a
शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ 019c
हतः शूरसुतो व्यक्तं व्यक्तं चैते परासवः । 020a
बलदेवमुखाः सर्व इति मे निश्चिता मतिः ॥ 020c
सोहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः । 021a
अविह्वलो महाराज पुनः साल्वमयोधयम् ॥ 021c
तदोऽपश्यं महाराज प्रपतन्तमहं तदा । 022a
सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ 022c
तस्य रूपं प्रपततः पितुर्मम नराधिप । 023a
ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥ 023c
विशीर्णमलिनोष्णीषप्रकीर्णाम्बरमूर्धजः । 024a
प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ 024c
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम । 025a
मोहापन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ 025c
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम् । 026a
मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥ 026c
प्रसार्य बाहू पततः प्रसार्य चरणावपि । 027a
रूपं पितुर्मे विबभौ शकुनेः पततो यथा ॥ 027c
तं पतन्तं महाबाहो शूलपट्टसपाणयः । 028a
अभिघ्नन्तो भृशं वीर मम चेतो ह्यकम्पयन् ॥ 028c
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञामहं तदा वीर महाविमर्दे । 029a
न तत्र सौभं न रिपुं च साल्वं पश्यामि वृद्धं पितरं न चापि ॥ 029c
ततो ममासीन्मनसि मायेयमिति निश्चितम् । 030a
प्रबुद्धोस्मि ततो भूयः शतशो वाऽकिरं शरान् ॥ 030c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

3-21-8 बाणवरोत्पीडात् क्षतस्थानात् । उल्बणमुत्कटम् ॥ 3-21-9 अस्तम्भयमाश्वासितवान् ॥ 3-21-12 पितृसख आहुकः ॥ 3-21-13 विषक्तेऽन्यत्र व्यासक्ते । शूरसुतो वसुदेवः ॥ 3-21-16 अहं जगर्हे निन्दितवान् ॥