अध्यायः 019
प्रद्युम्नपराजितस्य साल्वस्य रणादपयानम् ॥ 1 ॥
वासुदेव उवाच 001
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे । 001a
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥ 001c
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् । 002a
युद्धज्ञोस्मि च वृष्णीनां नात्र किञ्चिदतोऽन्यथा ॥ 002c
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः । 003a
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ 003c
त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम् । 004a
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ 004c
सत्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया । 005a
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ 005c
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः । 006a
वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम् ॥ 006c
वासुदेव उवाच 007
एवमुक्त्वा ततो वीरो हयान्सञ्चोद्य सङ्गरे । 007a
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा ॥ 007c
मण्डलानि विचित्राणि यमकानीतराणि च । 008a
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ 008c
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः । 009a
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥ 009c
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् । 010a
उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥ 010c
सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ । 011a
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ 011c
अमृष्यमाणोपसव्यं साल्वः समितिदारुणः । 012a
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥ 012c
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् । 013a
भूय एव महाबाहो प्रययावपसव्यतः ॥ 013c
ततो बाणान्बहुविधान्पुनरेव स सौभराट् । 014a
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥ 014c
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा । 015a
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ॥ 015c
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट् । 016a
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ 016c
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् । 017a
ब्रह्मास्त्रेणान्तरा च्छित्त्वा मुमोचान्यान्पतत्त्रिणः ॥ 017c
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः । 018a
शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥ 018c
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते । 019a
रौक्मिणेयोऽपरं बाणं सन्दधे शत्रुतापनः ॥ 019c
तमर्चितं सर्वदाशार्हपूगैराशीर्भिरर्कज्वलनप्रकाशम् । 020a
दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ॥ 020c
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः । 021a
नारदं प्रेषयामासुः श्वसनं च मनोजवम् ॥ 021c
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् । 022a
नैव वध्यस्त्वया वीर साल्वराजः कथञ्चन ॥ 022c
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे । 023a
एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित् ॥ 023c
मृत्युरस्य महाबाहो रणे देवकिनन्दनः । 024a
कृष्णः सङ्कल्पितो धात्रा तन्मिथ्या न भवेदिति ॥ 024c
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् । 025a
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥ 025c
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः । 026a
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ 026c
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः । 027a
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ 027c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ॥ 20 ॥
3-19-8 यमकानि सदृशानि । इतराणि विसदृशानि ॥ 3-19-10 दह्यमाना इवेति ख. झ. पाठः ॥