अध्यायः 017

कृष्णेन युधिष्ठिरम्प्रति साल्वप्रद्युम्नयुद्धवर्णनम् ॥ 1 ॥

वासुदेव उवाच 001
एवमुक्त्वा रौक्मिणेयो यादवान्यादवर्षभ । 001a
दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥ 001c
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम् । 002a
उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥ 002c
विक्षिपन्नादयंश्चापि धनुः श्रेष्ठं महाबलैः । 003a
तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥ 003c
सविद्युच्छुरितं चापं विहरन्वै तलात्तलम् । 004a
मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥ 004c
तस्य विक्षिपतश्चापं सन्दधानस्य चासकृत् । 005a
नान्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ॥ 005c
मुखस्य वर्णो न विकल्पतेऽस्य चेलुश्च गात्राणि न चापि तस्य । 006a
सिंहोन्नतं चाप्यभिगर्जतोऽस्य शुश्राव लोकोऽद्भुतवीर्यमग्र्यम् ॥ 006c
जलेचरः काञ्चनयष्टिसंस्थो व्यात्ताननः शत्रुबलप्रमाथी । 007a
वित्रासयन्राजति वाहमुख्ये साल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥ 007c
ततस्तूर्णं विनिष्पत्य प्रद्युम्नः शत्रुकर्शनः । 008a
साल्वमेवाभिदुद्राव विधित्सुः कलहं नृप ॥ 008c
अभियानं तु वीरेण प्रद्युम्नेन महारणे । 009a
नामर्षयत सङ्क्रुद्धः साल्वः कुरुकुलोद्वह ॥ 009c
सरोषमदमत्तो वै कामगादवरुह्य च । 010a
प्रद्युम्नं योधयामास साल्वः परपुरञ्जयः ॥ 010c
तयोः सुतुमुलं युद्धं साल्ववृष्णिप्रवीरयोः । 011a
समेता ददृशुर्लोका बलिवासवयोरिव ॥ 011c
तस्य मायामयो वीर रथो हेमपरिष्कृतः । 012a
सपताकः सध्वजश्च सानुकर्षः स तूणवान् ॥ 012c
स तं रथवरं श्रीमान्समारुह्य किल प्रभो । 013a
मुमोच बाणान्कौख्य प्रद्युम्नाय महाबलः ॥ 013c
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे । 014a
प्रद्युम्नो भुजवेगेन साल्वं सम्मोहयन्निव ॥ 014c
स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट् । 015a
शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ॥ 015c
तमापतन्तं बाणौघं स चिच्छेद महाबलः । 016a
ततश्चान्याञ्शरान्दीप्तान्प्रचिक्षेप सुते मम ॥ 016c
स साल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः । 017a
मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥ 017c
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः । 018a
विवेश हृदयं पत्री स पपात भृशाहतः ॥ 018c
तस्मिन्निपतिते वीरे साल्वराजे विचेतसि । 019a
सम्प्रद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ॥ 019c
हाहाकृतमभूत्सैन्यं साल्वस्य पृथिवीपते । 020a
नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृपे ॥ 020c
तत उत्थाय राजेन्द्र प्रतिलभ्य च चेतनाम् । 021a
मुमोच बाणान्सहसा प्रद्युम्नाय महाबलः ॥ 021c
तेन बाणेन महता प्रद्युम्नः समरे स्थितः । 022a
जत्रुदेशे भृशं विद्धो व्यथितो ददृशे तदा ॥ 022c
तं स विद्ध्वा महाराज साल्वो रुक्मिणिनन्दनम् । 023a
ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥ 023c
ततो मोहं समापन्ने तनये मम भारत । 024a
मुमोच बाणांस्त्वरितः पुनरन्यान्दुरात्मवान् ॥ 024c
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः । 025a
निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥ 025c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

3-17-1 हरिभिः अश्वैः ॥ 3-17-2 व्यात्ताननमिवान्तकम् इति झ. पाठः । अन्वयात् उपगतः ॥ 3-17-3 विक्षिपन् परान्धिक्वुर्वन् । महाबलैः हयैः ॥ 3-17-4 समानं विद्युच्छुरितेन विद्युत्कम्पनेनेति । विद्युच्छुरितम् । तलात्तलं सव्यापसव्यहस्ततलपरिवर्तेन ॥ 3-17-5 विक्षिपतः कर्षतः ॥ 3-17-6 विकल्पते भिद्यते ॥ 3-17-7 जलेचरः मीनः । सर्वतिमिप्रमाथी इति झ. पाठः । वाहमुख्ये रथश्रेष्ठे ॥ 3-17-12 सानुकर्षः रथाधस्थकाष्ठम् अनुकर्षः सः । रथः तूणवान् ॥ 3-17-16 आपततेति विसर्गलोप आर्षः ॥ 3-17-22 जत्रुदेशे कण्ठमूले ॥