अध्यायः 016

कृष्णेन युधिष्ठिरम्प्रति साल्वयादवयुद्धवर्णनम् ॥ 1 ॥

वासुदेव उवाच 001
तां तूपयातो राजेन्द्र साल्वः सौभपतिस्तदा । 001a
प्रभूतनरनागेन बलेनोपविवेश ह ॥ 001c
समे निविष्टा सा सेना प्रभूतसलिलाशये । 002a
चतुरङ्गबलोपेता साल्वराजाभिपालिता ॥ 002c
वर्जयित्वा श्मशानानि देवतायतनानि च । 003a
वल्मीकांश्चैव चैत्यांश्च सन्निविष्टमभूद्बलम् ॥ 003c
अनीकानां विभागेन पन्थानः सुकृतास्तथा । 004a
प्रथमा नवमाश्चैव साल्वस्य शिबिरे नृप ॥ 004c
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम् । 005a
रथनागाश्वकलिलं पदातिजनसङ्कुलम् ॥ 005c
तुष्टपुष्टबलोपेतं वीरलक्षणलक्षितम् । 006a
विचित्रध्वजसन्नाहं विचित्ररथकार्मुकम् ॥ 006c
सन्निवेश्य च कौरव्य द्वारकायां नरर्षभ । 007a
अभिसारयामास तदा वेगेन पतगेन्द्रवत् ॥ 007c
तदापतन्तं सन्दृश्य बलं साल्वपतेस्तदा । 008a
निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥ 008c
असहन्तोऽभियानं तत्साल्वराजस्य कौरव । 009a
चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥ 009c
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः । 010a
संसक्ताः साल्वराजस्य बहुभिर्योधपुङ्गवैः ॥ 010c
गृहीत्वा कार्मुकं साम्बः साल्वस्य सचिवं रणे । 011a
योधयामास संहृष्टः क्षेमधूर्तिं चमूपतिम् ॥ 011c
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत् । 012a
मुमोच भरतश्रेष्ठ यथावर्षं सहस्रदृक् ॥ 012c
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः । 013a
क्षेमधूर्तिर्महाराज हिमवानिव निश्चलः ॥ 013c
ततः साम्बाय राजेन्द्र क्षेमधूर्तिरपि स्वयम् । 014a
मुमोच मायाविहितं शरजालं महत्तरम् ॥ 014c
ततो मायामयं जालं माययैव विदार्य सः । 015a
साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥ 015c
ततः स विद्धः साम्बेन क्षेमधूर्तिश्चमूपतिः । 016a
अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥ 016c
तस्मिन्विप्रद्रुते शरे साल्वस्याथ चमूपतौ । 017a
वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥ 017c
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः । 018a
वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥ 018c
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम् । 019a
चिक्षेप तरसा वीरो व्याविद्ध्यन्सत्यविक्रमः ॥ 019c
तया त्वभिहतो राजन्वेगवान्न्यपतद्भुवि । 020a
वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥ 020c
तस्मिन्निपतिते वीरे गदारुग्णे महासुरे । 021a
प्रविश्य महतीं सेनां योधयामास मे सुतः ॥ 021c
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः । 022a
महारथः समाज्ञातो महाराज महाधनुः ॥ 022c
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः । 023a
वृत्रवासवयो राजन्यथापूर्वं तथाऽभवत् ॥ 023c
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः । 024a
विनदन्तौ महाराज सिंहाविव महाबलौ ॥ 024c
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम् । 025a
अभिमन्त्र्य महास्त्रेण सन्दधे शत्रुनाशनम् ॥ 025c
स विविन्ध्याय सक्रोधः समाहूय महारथः । 026a
चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥ 026c
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम् । 027a
कामगेन स सौभेन साल्वः पुनरुपागमत् ॥ 027c
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम् । 028a
दृष्ट्वा साल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥ 028c
ततो निर्याय कौरव्य अवस्थाप्य च तद्बलम् । 029a
आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥ 029c
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि । 030a
निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ॥ 030c
अयं सौभपतेः सेनामायसैर्भुजगैरिव । 031a
धनुर्भुजविनिर्मुक्तैर्नाशयम्यद्य यादवाः ॥ 031c
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति । 032a
मयाऽभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥ 032c
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन । 033a
धिष्ठितं तद्बलं द्वारि युयुधे च यथासुखम् ॥ 033c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि षोडशोऽध्यायः ॥ 16 ॥

3-16-2 समे देशे ॥ 3-16-4 प्रवणाय च नैवासन्निति झ. पाठः ॥ 3-16-5 कलिलं सङ्कटम् । पदातिध्वजसङ्कुलमिति झ. पाठः ॥ 3-16-7 अभिसारयामास नगरसमीपं गमयामास । सैन्यं पतगेन्द्रवत्सौभञ्चोपरितः अभिसारयामास ॥ 3-16-8 आपतन्समापतत् ॥ 3-16-16 क्षेमधूर्तिः स्मयन्निवेति क. ट. पाठः । अपायात्पलायितः ॥ 3-16-18 अभिपन्नः आभिमुख्येनासादितः ॥ 3-16-19 व्याविध्य सत्यविक्रमः इति झ. पाठः । तत्र व्याविध्य भ्रामयित्वेत्यर्थः ॥ 3-16-20 रुग्णः क्षुण्णश्च गजादिपदाघातैः ॥ 3-16-27 सौभेन खेचरेण पुरेण ॥ 3-16-29 निर्याय निर्गत्य । अवस्थाप्य आश्वास्य । आनर्तानां द्वारकावासिनाम् ॥ 3-16-31 धनुर्भुजविनिर्मुक्तैः धनुषः भुजेन कौटिल्येन अत्याकर्षणजेन निर्मुक्तैः. भुज कौटिल्ये तुदादिः ॥ 3-16-33 धिष्ठितम् अधिष्ठितम् ॥