अध्यायः 014

कृष्णेन युधिष्ठिरम्प्रति साल्वेन युद्धस् स्वस्यानागमनहेतुत्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच 001
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन । 001a
क्व चासीद्विप्रवासस्ते किञ्चाकार्षीः प्रवासतः ॥ 001c
कृष्ण उवाच 002
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ । 002a
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥ 002c
महातेजा महाबाहुर्यः स राजा महायशाः । 003a
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ 003c
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति । 004a
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥ 004c
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः । 005a
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ 005c
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः । 006a
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ॥ 006c
'चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः । 007a
'ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा । 007c
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥ 007e
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः । 008a
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥ 008c
तस्य युद्धार्थिनो दर्पं युद्धे नाशयिताऽस्म्यहम् । 009a
आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ॥ 009c
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् । 010a
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे । 010c
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति । 011a
मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥ 011c
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम् । 012a
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥ 012c
मम पापस्वभावेन भ्राता येन निपातितः । 013a
शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ 013c
भ्राता बालश्च राजा च न च सङ्ग्रामकोविदः । 014a
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् । 014c
एवमादि महाराज विलप्य दिवमास्थितः । 015a
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ 015c
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः । 016a
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥ 016c
ततोऽहमपि कौरव्य रोषव्याकुललोचनः । 017a
निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ 017c
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव । 018a
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ 018c
ततः सौभवधायाहं प्रतस्थे पृथिवीपते । 019a
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ 019c
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप । 020a
आहूय साल्वं समरे युद्धाय समवस्थितः ॥ 020c
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह । 021a
शवीभूताश्च मे सर्वे भूतले च निपातिताः ॥ 021c
एतत्कार्यं महाबाहो येनाहं नागमं तदा । 022a
श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम् । 022c
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ॥ 022e

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

3-14-6 सौभं सुष्ठु भान्ति ते सुभाः काञ्चनादयो धातवस्तज्जम् ॥ 3-14-9 आख्यात कथयत ॥ 3-14-16 मार्तिकावतकः एतन्नामकदेशवासी ॥ 3-14-18 अवलेपं गर्वं ज्ञात्वेति शेषः ॥ 3-14-19 सागरस्य आसमन्ताद्वर्तो वर्तनं यस्मिन्सागरद्वीपे इत्यर्थः ॥ 3-14-20 जलजं शङ्खम् ॥