अध्यायः 012
श्रीकृष्णेन स्वीयैः सह वने पाण्डवसमीपगमनम् ॥ 1 ॥ अर्जुनेन कृष्णस्तवनम् ॥ 2 ॥ स्वदुःखनिवेदनपूर्वकं रुदन्त्या द्रौपद्याः कृष्णेन समाश्वासनम् ॥ 3 ॥
वैशम्पायन उवाच 001
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह । 001a
पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ॥ 001c
पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः । 002a
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ 002c
वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः । 003a
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ 003c
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः । 004a
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् । 004c
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ॥ 004e
वासुदेव उवाच 005
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । 005a
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 005c
एतान्निहत्य समरे ये च तेषां पदानुगाः । 006a
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ॥ 006c
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् । 007a
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ॥ 007c
वैशम्पायन उवाच 008
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् । 008a
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ॥ 008c
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः । 009a
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥ 009c
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः । 010a
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ 010c
अर्जुन उवाच 011
दशवर्षसहस्राणि यत्र सायङ्गृहो मुनिः । 011a
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ 011c
दशवर्षसहस्राणि दशवर्षशतानि च । 012a
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ॥ 012c
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन । 013a
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ 013c
कृष्णाजिनोत्तरासङ्गः कृशो धमनिसन्ततः । 014a
आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥ 014c
प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम् । 015a
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥ 015c
आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः । 016a
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ॥ 016c
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव । 017a
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ 017c
'योगकर्ता हृषीकेशः साङ्ख्यकर्ता सनातनः । 018a
शीलस्त्वं सर्वयोगानां करणं नियमस्य च' ॥ 018c
निहत्य नरकं भौममाहृत्य मणिकुण्डले । 019a
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ 019c
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित् । 020a
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ 020c
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः । 021a
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ 021c
स त्वं नारायणो भूत्वा हरिरासीः परन्तप । 022a
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ 022c
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः । 023a
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ 023c
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः । 024a
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ 024c
शतं शतसहस्राणि सुवर्णस्य जनार्दन । 025a
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ॥ 025c
अदितेरपि पुत्रत्वमेत्य यादवनन्दन । 026a
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ॥ 026c
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप । 027a
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा । 027c
सम्प्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः । 028a
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ 028c
प्रादुर्भावसहस्रेषु तेषु तेषु त्वया विभो । 029a
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ॥ 029c
सादिता मौरवाः पाशा निशुम्भनरकौ हतौ । 030a
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ 030c
जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह । 031a
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ॥ 031c
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा । 032a
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणम् ॥ 032c
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् । 033a
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम् 033c
एवमेते युधि हता भूयश्चान्याञ्शृणुष्व ह । 034a
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि । 034c
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ 034e
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन । 035a
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ 035c
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन । 036a
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ 036c
आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा । 037a
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ 037c
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन । 038a
आत्मनैवात्मसात्कृत्वा जगदासीः परन्तप ॥ 038c
युगादौ तव वार्ष्णेय नाभिपद्मादजायत । 039a
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत् । 039c
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ॥ 039e
तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः । 040a
ललाटाज्जातवाञ्शम्भुः शूलपाणिस्त्रिलोचनः ॥ 040c
इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ । 041a
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ॥ 041c
तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः । 042a
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ॥ 042c
नैवं परे नापरे वा करिष्यन्ति कृतानि वा । 043a
यानि कर्माणि देव त्वं बाल एव महाबलः ॥ 043c
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् । 044a
वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ 044c
वैशम्पायन उवाच 045
एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः । 045a
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ 045c
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते । 046a
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ 046c
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् । 047a
काले लोकमिमं प्राप्तौ नरनारायणावृषी ॥ 047c
अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च । 048a
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ 048c
वैशम्पायन उवाच 049
'इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः । 049a
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ॥' 049c
एवमुक्ते तु वचने केशवेन महात्मना । 050a
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ॥ 050c
धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता । 051a
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह । 051c
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ 051e
द्रौपद्युवाच 052
'वासुदेव हृषीकेश वासवावरजाच्युत । 052a
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत्' ॥ 052c
पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम् । 053a
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ॥ 053c
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन । 054a
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ॥ 054c
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम । 055a
सत्याद्यज्ञोसि सम्भूतः कश्यपस्त्वां यथाऽब्रवीत् ॥ 055c
साध्यानामपि देवानां शिवानामीश्वरेश्वर । 056a
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ 056c
ब्रह्मशङ्करशक्राद्यैर्देववृन्दैः पुनः पुनः । 057a
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ॥ 057c
द्यौश्च ते शिरसा व्याप्ता पद्भ्याञ्च पृथिवी प्रभो । 058a
जठरे खमिमे लोकाः पुरुषोसि सनातनः ॥ 058c
विद्यातपोभितप्तानां तपसा भावितात्मनाम् । 059a
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ॥ 059c
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् । 060a
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ । 060c
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ॥ 060e
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश । 061a
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ 061c
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् । 062a
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ 062c
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन । 063a
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ 063c
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो । 064a
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ 064c
स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता । 065a
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ॥ 065c
राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता । 066a
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ 066c
दासीभावेन मां भोक्तुमीषुस्ते मधुसूदन । 067a
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ॥ 067c
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । 068a
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ 068c
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् । 069a
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ 069c
धिग्बलं भीमसेनस्य धिक्पार्थस्य च गाण्डिवम् । 070a
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ 070c
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा । 071a
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ 071c
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । 072a
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 072c
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत । 073a
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ 073c
नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन । 074a
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ 074c
पञ्चभिः पतिभिर्जाताः कुमारा मे महौजसः । 075a
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ॥ 075c
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । 076a
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ॥ 076c
कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमाः । 077a
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ 077c
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः । 078a
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ 078c
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा । 079a
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ॥ 079c
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् । 080a
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ 080c
धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम् । 081a
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ 081c
य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान् । 082a
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ 082c
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् । 083a
कालकूटं नवं तीक्ष्णं सम्भृतं रोमहर्षणम् ॥ 083c
तज्जीर्णमविकारेण सहान्नेन जनार्दन । 084a
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ 084c
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् । 085a
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ॥ 085c
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् । 086a
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ 086c
आशीविषैः कृष्णसर्पैः सुप्तञ्चैनमदंशयत् । 087a
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ 087c
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् । 088a
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ 088c
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते । 089a
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ 089c
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् । 090a
महद्व्यसनमापन्ना शिखिना परिवारिता ॥ 090c
हा हतास्मि कुतोन्वद्य भवेच्छान्तिरिहानलात् । 091a
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ 091c
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः । 092a
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ 092c
वैनतेयो यथा पक्षी गरुत्मान्पततांवरः । 093a
तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥ 093c
आर्यामङ्केन वामेन राजानं दक्षिणेन च । 094a
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥ 094c
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् । 095a
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ 095c
ते रात्रौ प्रस्थिताः सर्वे सह मात्रा यशस्विनः । 096a
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ॥ 096c
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः । 097a
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ 097c
सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ । 098a
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ॥ 098c
भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला । 099a
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥ 099c
तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः । 100a
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ॥ 100c
एवमुक्ता तु भीमेन राक्षसी कामरूपिणी । 101a
भीमसेनं महात्मानमाह चैवमनिन्दिता ॥ 101c
पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान् । 102a
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ॥ 102c
अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः । 103a
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ॥ 103c
तयोः श्रुत्वा तु सञ्जल्पमागच्छद्राक्षसाधमः । 104a
भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ 104c
राक्षस उवाच 105
केन सार्धं कथयसि आनयैनं ममान्तिकम् । 105a
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ॥ 105c
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी । 106a
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ॥ 106c
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः । 107a
अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ 107c
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली । 108a
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ 108c
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् । 109a
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ 109c
गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा । 110a
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ॥ 110c
तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः । 111a
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ 111c
विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ । 112a
निजघान महावीर्यस्तं तदा निर्बलं बली ॥ 112c
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह । 113a
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ॥ 113c
ततः सम्प्राद्रवन्सर्वे सह मात्रा परन्तपाः । 114a
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ 114c
प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः । 115a
ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥ 115c
तत्राप्यासादयामासुर्बकं नाम महाबलम् । 116a
पुरुषादं प्रतिभयं हिडिम्बेनैव सम्मितम् ॥ 116c
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः । 117a
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ 117c
लब्धाऽहमपि तत्रैव वसता सव्यसाचिना । 118a
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ॥ 118c
एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन । 119a
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ॥ 119c
एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता । 120a
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ॥ 120c
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः । 121a
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथम् । 121c
एतादृशानि दुःखानि सहन्ती दुर्बलीयसाम् । 122a
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ॥ 122c
कुले महति जाताऽस्मि दिव्येन विधिना किल । 123a
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ 123c
केशग्रहमनुप्राप्ता का नु जीवेत मादृशी । 124a
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥ 124c
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना । 125a
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ 125c
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ । 126a
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥ 126c
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः । 127a
बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ॥ 127c
नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः । 128a
न भ्रातरो न च पिता नैव त्वं मधुसूदन ॥ 128c
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् । 129a
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ 129c
चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः । 130a
सम्बन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ॥ 130c
वैशम्पायन उवाच 131
अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे । 131a
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ॥ 131c
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान् । 132a
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ॥ 132c
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः । 133a
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ 133c
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत् । 134a
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ 134c
तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात् । 135a
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ॥ 135c
आबभाषे महाराज द्रौपदीमर्जुनस्तदा । 136a
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः । 136c
तथा तद्भविता देवि नान्यथा वरवर्णिनि ॥ 136e
धृष्टद्युम्न उवाच 137
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् । 137a
दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ॥ 137c
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणे स्वसः । 138a
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ 138c
वैशम्पायन उवाच 139
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थिताः । 139a
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ 139c
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
3-12-7 निकृत्या छलेन ॥ 3-12-8 अभिषङ्गेण दुःखेन पराभवेन वा ॥ 3-12-11 यत्र सायङ्कालस्तत्रैव गृहं यस्य स यत्रसायङ्गृहः ॥ 3-12-14 उत्तरासङ्ग उत्तरीयवस्त्रम् ॥ 3-12-17 क्षेत्रज्ञः अन्तरात्मेत्यर्थः ॥ 3-12-19 भौमं भूमिपुत्रम् । मेध्यं यज्ञियम् ॥ 3-12-20 तत्कर्म अश्वोत्सर्गाख्यम् ॥ 3-12-28 सम्प्राप्य सम्यक्व्याप्य । आदित्यस्यन्दने सूर्यदेहे भास्करमण्डलाभिमानिनं जीवम् ॥ 3-12-30 सादिताः छिन्नाः मौरवाः आन्त्रतन्तिमयाः । मुर वेष्टने अस्मादौणादिके उक्रप्रत्यये तद्धितः ॥ 3-12-31 जारूथ्यां नगर्याम् ॥ 3-12-32 सौभं खेचरं पुरम् ॥ 3-12-36 नृशंस्यं निर्दयत्वम् ॥ 3-12-37 चैत्यम् आयतनम् आध्यात्मिकं हृदयपुण्डरीकम् । बाह्यं देवालयादि ॥ 3-12-38 आत्मनैव निमित्तान्तरं विना ॥ 3-12-50 समावाये समूहे । संरब्धेषु कुपितेषु ॥ 3-12-65 स्त्रीधर्मिणी रजस्वला ॥ 3-12-67 ईषुः ऐच्छन् ॥ 3-12-68 स्नुषा वधूः ॥ 3-12-69 धर्मपत्नीं यज्ञसंयोगिनीम् ॥ 3-12-70 विप्रकृतां दुःखम्प्रापिताम् । मर्षयेतां क्षमेताम् ॥ 3-12-74 नान्वपद्यन्त नानुगृहीतवन्तः ॥ 3-12-78 राष्ट्राणामपराधम् । दुर्बलीयसां दुर्बलतराणाम् ॥ 3-12-80 अधिज्यमारोपितगुणम् ॥ 3-12-84 सशेषत्वात् । आयुष इति शेषः ॥ 3-12-85 प्रमाणकोट्यां प्रमाणाख्यो गङ्गातीरस्थो वटविशेषस्तत्प्रदेशे ॥ 3-12-88 अपोथयत् प्रहृतवान् । अपहस्तेन हस्तपृष्ठेन ॥ 3-12-89 उपाधाक्षीत् दाहार्थम् उपहृतवान् । आर्यां श्वश्रूः ॥ 3-12-93 वैनतेयः विनतापुत्रः ॥ 3-12-106 कृपासङ्गृहीतेन स्नेहवशेन ॥ 3-12-109 संहृत्य मुष्टीकृत्य ॥ 3-12-119 एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः । निवसामार्यया हीनाः कृष्ण धौम्यपुरस्सरा इति क. ट. द. पाठः ॥ 3-12-129 विशोकवद्विशोका इव ॥ 3-12-130 सम्बन्धात् पितृष्वस्रीयभार्यात्वात् । गौरवादग्निकुण्डोद्भवत्वात् । सख्यात् भक्तिमत्त्वात् । प्रभुत्वेन सामर्थ्यवत्त्वेन त्वदीयेन ॥ 3-12-138 स्वसः हे भगिनि ॥