अध्यायः 011

मैत्रेयचोदितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारकथनम् ॥

धृतराष्ट्र उवाच 001
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् । 001a
रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ 001c
विदुर उवाच 002
शृणु भीमस्य कर्मेदमतिमानषकर्मणः । 002a
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ 002c
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः । 003a
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ 003c
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप । 004a
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ॥ 004c
तद्वनं तापसा नित्यमशेषा वनचारिणः । 005a
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥ 005c
तेषां प्रविशतां तत्र मार्गमावृत्य भारत । 006a
दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यपद्यत ॥ 006c
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम् । 007a
स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥ 007c
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम् । 008a
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥ 008c
सृजन्तं राक्षसीं मायां महानादनिनादितम् । 009a
मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ॥ 009c
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम् । 010a
विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ॥ 010c
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम् । 011a
तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ॥ 011c
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः । 012a
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ॥ 012c
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः । 013a
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥ 013c
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः । 014a
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ॥ 014c
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान् । 015a
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥ 015c
तं समासाद्य वित्रस्ता कृष्णा कमललोचना । 016a
अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ॥ 016c
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा । 017a
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥ 017c
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः । 018a
इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥ 018c
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम् । 019a
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥ 019c
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् । 020a
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ॥ 020c
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत । 021a
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ॥ 021c
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् । 022a
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ॥ 022c
अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः । 023a
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ॥ 023c
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् । 024a
के यूयमभिसम्प्राप्ता भक्ष्यभूता ममान्तिकम् । 024c
युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ॥ 024e
विदुर उवाच 025
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः । 025a
आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ 025c
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः । 026a
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ 026c
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः । 027a
वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ 027c
'विस्मयं परमं गत्वा राक्षसो घोरदर्शनः । 028a
'किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम । 028c
उपपादितमद्येह चिरकालान्मनोरथम् ॥ 028e
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः । 029a
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ॥ 029c
सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् । 030a
अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ 030c
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा । 031a
विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥ 031c
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः । 032a
हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ॥ 032c
सोयमभ्यागतो मूढो ममेदं गहनं वनम् । 033a
प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ॥ 033c
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम् । 034a
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ 034c
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च । 035a
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ॥ 035c
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै । 036a
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ 036c
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम् । 037a
सम्भक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ॥ 037c
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः । 038a
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ 038c
ततो भीमो महाबाहुरारुज्य तरसा द्रुमम् । 039a
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ॥ 039c
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम् । 040a
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ 040c
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम् । 041a
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ॥ 041c
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः । 042a
निष्पिष्य पाणिना पाणिं सन्दष्टौष्ठपुटो बली । 042c
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ 042e
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि । 043a
पातयामास वेगेन कुलिशं मघवानिव ॥ 043c
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत । 044a
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ 044c
तदुदस्तमलातं तु भीमः प्रहरतां वरः । 045a
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥ 045c
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् । 046a
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ॥ 046c
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् । 047a
वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ॥ 047c
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः । 048a
यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ॥ 048c
मूर्ध्नि जर्झरभूतास्तु बहवस्तत्र पादपाः । 049a
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ 049c
तद्वृक्षयुद्धमभवन्मुहूर्तं भरतर्षभ । 050a
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥ 050c
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः । 051a
प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥ 051c
तं शिलाताडनजडं पर्यधावत राक्षसः । 052a
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ 052c
तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम् । 053a
उभावपि चकाशेते प्रवृद्धौ वृषभाविव ॥ 053c
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः । 054a
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ 054c
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः । 055a
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ 055c
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः । 056a
मातङ्गमिव मातङ्गः प्रभिन्नकरटामुखम् ॥ 056c
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यवान् । 057a
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥ 057c
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा । 058a
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ 058c
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । 059a
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ 059c
स भीमेन परामृष्टो दुर्बलो बलिनां रणे । 060a
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥ 060c
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः । 061a
योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥ 061c
विनदन्तं महानादं भिन्नभेरीस्वनं बली । 062a
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ 062c
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः । 063a
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् । 063c
आक्रम्य च कटीदेशे जानुना राक्षसाधमम् । 064a
पीडयामास पाणिभ्यां तस्य कण्ठं वृकोदरः ॥ 064c
अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम् । 065a
भूतले भ्रामयामास वाक्यं चेदमुवाच ह ॥ 065c
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम् । 066a
करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥ 066c
इत्येवमुक्त्वा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः । 067a
विस्रस्तवस्त्राभरणं स्फुरन्तमुद्धान्तचित्तं व्यसुमुत्ससर्ज ॥ 067c
तस्मिन्हते तोयदतुल्यरूपे कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः । 068a
भीमं प्रशस्याथ गुणैरनेकैर्हृष्टास्ततो द्वैतवनाय जग्मुः ॥ 068c
विदुर उवाच 069
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप । 069a
भीमेन वचनात्तस्य धर्मराजस्य कौरव ॥ 069c
ततो निष्कण्टकं कृत्वा वनं तदपराजितः । 070a
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ 070c
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः । 071a
प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ॥ 071c
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः । 072a
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ॥ 072c
स मया गच्छता मार्गे विनिकीर्णो भयावहः । 073a
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ 073c
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत । 074a
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ 074c
वैशम्पायन उवाच 075
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम् । 075a
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥ 075c

3-11-4 आभीले भयङ्करे । अर्द्धसमयेऽर्द्धज्ञाने गते सति । लोके तन्द्रावति सतीत्यर्थः ॥ 3-11-9 महानादः कुञ्जरे स्याद्वार्षिकाब्दे भयानके इतिविश्वः ॥ 3-11-31 वैत्रकीयवने एकचक्रायाम् ॥ 3-11-32 मह्यं मम ॥ 3-11-35 लब्धास्मि लप्स्यामि ॥ 3-11-37 महासुरं वातापिम् ॥ 3-11-39 आरुज्य भङ्त्वा । दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम् । उद्विद्धम् उत्पाटितम् ॥ 3-11-40 वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा । 3-11-42 कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ॥ 3-11-45 उदस्तम् उत्क्षिप्तम् । अलातम् उल्मुकम् । रक्षः राक्षसम् ॥ 3-11-49 चीराणि वृक्षवल्कलानि ॥ 3-11-55 निकारात् परिभवात् । कृष्णाया आनयनं दृष्टं येन स तथा । द्रौपद्याकर्षणेन कुपित इत्यर्थः ॥ 3-11-56 प्रभिन्नकटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ॥ 3-11-60 व्यस्पन्दत किञ्चिच्चलनं कृतवान् ॥ 3-11-61 योक्त्रयामास बबन्ध । रशनया पशुमिव ॥ 3-11-63 पशुमारं पशुमिव मारयित्वा ॥