अध्यायः 010

धृतराष्ट्रेण दुर्योधनानुशासनम्प्रार्थितेन व्यासेन तत्रागमिष्यन्तं मैत्रेयम्प्रति तत्प्रार्थनाविधानपूर्वकं स्वावासम्प्रति गमनम् ॥ 1 ॥ तत्रागतेन मैत्रेयेण ऊर्वास्फालनपूर्वकं स्ववचनमनादृतवतो दुर्योधनस्य भीमसेनगदया तवोरुभेदो भूयादिति शापदानम् ॥ 2 ॥

धृतराष्ट्र उवाच 001
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने । 001a
अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ 001c
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम् । 002a
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ 002c
यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि । 003a
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ 003c
व्यास उवाच 004
अयमायाति वै राजन्मैत्रेयो भगवानृषिः । 004a
अन्वीक्ष्य पाण्डवान्भ्रातॄनिहैवाऽस्मद्दिदृक्षया ॥ 004c
एष दुर्योधनं पुत्रं तव राजन्महानृषिः । 005a
अनुशास्ता यथान्यायं शमायास्य कुलस्य च ॥ 005c
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया । 006a
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ 006c
वैशम्पायन उवाच 007
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत । 007a
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ 007c
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम् 008a
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ 008c
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले । 009a
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः । 009c
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः । 010a
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ 010c
मैत्रेय उवाच 011
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान् । 011a
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥ 011c
तं जटाजिनसंवीतं तपोवननिवासिनम् । 012a
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ 012c
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम् । 013a
अनयं द्यूतरूपेण महाभयमुपस्थितम् ॥ 013c
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ॥ 014a
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ 014c
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति । 015a
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन ॥ 015c
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् । 016a
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ 016c
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन । 017a
तेन न भ्राजसे राजंस्तापसानां समागमे ॥ 017c
वैशम्पायन उवाच 018
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् । 018a
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥ 018c
मैत्रेय उवाच 019
दुर्योधन महाबाहो निबोध वदतां वर । 019a
वचनं मे महाभाग ब्रुवतो यद्धितं तव ॥ 019c
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः । 020a
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ 020c
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः । 021a
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥ 021c
तं भीमः समरश्लाघी बलेन बलिनां वरः । 022a
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ 022c
पश्य दिग्विजये राजन्यथा भीमेन पातितः । 023a
जरासन्धो महेष्वासो नागायुतबलो युधि ॥ 023c
सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः । 024a
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ॥ 024c
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः । 025a
सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः ॥ 025c
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् । 026a
हिडिम्बबकमुख्यानां किर्मीरश्च रक्षसः । 026c
कस्तान्युधि समासीत जरामरणवान्नरः ॥ 026e
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ । 027a
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ 027c
वैशम्पायन उवाच 028
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते । 028a
ऊरुं करिकराकारं करेणाभिजघान सः ॥ 028c
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम् । 029a
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ॥ 029c
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् । 030a
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ 030c
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः । 031a
विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ॥ 031c
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः । 032a
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ 032c
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि । 033a
तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ॥ 033c
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् । 034a
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ॥ 034c
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः । 035a
प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ 035c
मैत्रेय उवाच 036
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा । 036a
शायो न भविता तात विपरीते भविष्यति ॥ 036c
वैशम्पायन उवाच 037
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा । 037a
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ 037c
मैत्रेय उवाच 038
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः । 038a
एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ 038c
वैशम्पायन उवाच 039
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् । 039a
किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ॥ 039c

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि दशमोऽध्यायः ॥ 10 ॥

3-10-5 अनुशास्ता अनुशासिष्यति ॥ 3-10-6 अक्रियायाम् अकरणे । कार्यस्य अवश्यकर्तव्यस्य ॥ 3-10-11 यदृच्छया दैवात् ॥ 3-10-15 औपयिकं योग्यम् ॥ 3-10-16 मेढीभूतः खलदामस्तम्भीभूतः । प्रग्रहे अनुग्रहे ॥ 3-10-18 व्यावृत्य अभिमुखीभूयेत्यर्थः ॥ 3-10-22 पशुमारेण पशुमारणप्रकारेण ॥ 3-10-24 विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च ॥ 3-10-25 वज्रसंहननाः वज्रकायाः ॥