अध्यायः 008
तदा समागतेन व्यासेन धृतराष्ट्रम्प्रति पाण्डवैः सह विरोधस्यानर्थहेतुत्वकथनपूर्वकं तैः सह शमविधानम् ॥ 1 ॥
व्यास उवाच 001
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम । 001a
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ॥ 001c
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् । 002a
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ॥ 002c
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे । 003a
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥ 003c
तदयं किन्नु पापात्मा तव पुत्रः सुमन्दधीः । 004a
पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ॥ 004c
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः । 005a
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ॥ 005c
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् । 006a
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ 006c
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः । 007a
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥ 007c
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत । 008a
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ॥ 008c
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः । 009a
पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥ 009c
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः । 010a
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ॥ 010c
अथवा जायमानस्य यच्छीलमनुजायते । 011a
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥ 011c
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपि वा । 012a
भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ॥ 012c
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
3-8-2 निकृताः निर्जिताः ॥ 3-8-3 विषमिव विषं शस्त्रम् ॥ 3-8-8 समीक्षा विचारपूर्विका बुद्धिः ॥ 3-8-11 एतदपि दुर्घटमित्याह अथवेति ॥