अध्यायः 007

विदुरस्य पुनरागमनेन खिद्यता दुर्योधनेन कर्णादिभिरालोचनम् ॥ 1 ॥ कर्णादिषु समालोच्य पाण्डवजिघांसया प्रस्थितेषु तदा समागतेन श्रीव्यासेन तेषाम् प्रतिषेधनम् ॥ 2 ॥

वैशम्पायन उवाच 001
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् । 001a
धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ 001c
स सौबलेयमानाय्य कर्णदुःशासनौ तथा । 002a
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥ 002c
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य सम्मतः । 003a
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ 003c
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति । 004a
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ 004c
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन । 005a
पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः ॥ 005c
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम् । 006a
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ 006c
शकुनिरुवाच 007
किं बालिशमतिं राजन्नास्थितोसि विशाम्पते । 007a
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ 007c
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतर्षभ । 008a
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥ 008c
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् । 009a
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति ॥ 009c
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः । 010a
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः । 010c
दुःशासन उवाच 011
एवमेतन्महाप्राज्ञ यथा वदसि मातुल । 011a
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते ॥ 011c
कर्ण उवाच 012
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् । 012a
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये ॥ 012c
[नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम् । 013a
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ॥] 013c
वैशम्पायन उवाच 014
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा । 014a
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ 014c
उपलभ्य ततः कर्णो विवृत्य नयने शुभे । 015a
रोषाद्दुःशासनं चैव सौबलं च तमेव च ॥ 015c
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना । 016a
अथो मम मतं यत्तु तन्निबोधत भूमिपाः ॥ 016c
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे । 017a
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः ॥ 017c
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः । 018a
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ 018c
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् । 019a
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ 019c
यावदेव परिद्यूना यावच्छोकपरायणाः । 020a
यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम् ॥ 020c
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः । 021a
प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा ॥ 021c
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक् । 022a
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः ॥ 022c
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः । 023a
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ 023c
प्रतिषिध्याथ तान्सर्वान्भगवाल्ँलोकपूजितः । 024a
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम् ॥ 024c

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

3-7-2 तमो रागद्वेषात्मकं मोहम् ॥ 3-7-6 करिष्ये स्वीकरिष्ये । ऋद्धान् ऋद्धिमतः ॥ 3-7-9 पणः कार्याकार्यविवेकलक्षणो व्यवहारः ॥ 3-7-10 छिद्रं समयातिक्रमदोषम् ॥ 3-7-15 उपलभ्य दुर्योधनाशयमिति शेषः ॥ 3-7-16 उद्यम्योत्क्षिप्य । आत्मानं देहम् ॥ 3-7-17 प्रियं चिकीर्षामो नतु शक्नुमः प्रिये स्थातुमिति सम्बन्धः । धृतराष्ट्रेण निरुद्धत्वात् ॥ 3-7-20 परिद्यूनाः खिन्ना वर्जितविजिगीषा वा ॥ 3-7-21 बाढमित्येव ते सर्वे इति झ. पाठः ॥