अध्यायः 006
विदुरविप्रयोगखिन्नेन धृतराष्ट्रेण तदाह्वानाय सञ्जयप्रेषणम् ॥ 1 ॥ सञ्जयाहूतेन विदुरेण पुनर्धृतराष्ट्रम्प्रत्यागमनम् ॥ 2 ॥
वैशम्पायन उवाच 001
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति । 001a
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ॥ 001c
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम् । 002a
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ॥] 002c
स सभाद्वारमागम्य विदुरस्मारमोहितः । 003a
समक्षं पार्थिवेन्द्राणां विसञ्ज्ञः प्रापतद्भुवि ॥ 003c
स तु लब्ध्वा चिरात्सञ्ज्ञां समुत्थाय महीतलात् । 004a
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ॥ 004c
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः । 005a
तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीव मे ॥ 005c
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै । 006a
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ॥ 006c
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः । 007a
भ्रातृश्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत् ॥ 007c
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम । 008a
यदि जीवति रोषेण मया पापेन निर्धुतः ॥ 008c
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन । 009a
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ॥ 009c
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् । 010a
न जह्याज्जीवितं प्राज्ञ तं गच्छानय सञ्जय ॥ 010c
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च । 011a
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति 011c
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः । 012a
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥ 012c
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः । 013a
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव पुरन्दरम् ॥ 013c
युधिष्ठिरमुपागम्य पूजयामास सञ्जयः । 014a
भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ॥ 014c
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः । 015a
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥ 015c
सञ्जय उवाच 016
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः । 016a
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ॥ 016c
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् । 017a
नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम ॥ 017c
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः । 018a
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥ 018c
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः । 019a
दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥ 019c
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ । 020a
प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥ 020c
वैशम्पायन उवाच 021
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह । 021a
क्षम्यतामिति चोवाच यदुक्तोसि मयाऽनघ ॥ 021c
विदुर उवाच 022
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान् । 022a
तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ॥ 022c
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः । 023a
दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ॥ 023c
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव । 024a
दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ॥ 024c
वैशम्पायन उवाच 025
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती । 025a
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥ 025c
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
3-6-1 महाप्राज्ञः विदुरेपदेशे स्थितानां जयो भविष्यतीति जानन् ॥ 3-6-2 सन्धिविग्रहकारितं सन्धिविग्रहादिनीतिज्ञत्वकृतम् । भविष्यति आगामिनि काले ॥ 3-6-8 निर्धुतः निःसारितः ॥ 3-6-9 व्यलीकम् अप्रियम् ॥ 3-6-10 त्यक्ष्यामि जीवितमिति झ. पाठः ॥