अरण्यपर्व अध्यायः 001

द्यूतजितानां पाण्डवानां द्रौपद्यासह वनम्प्रति प्रस्थानम् ॥ 1 ॥ तदनु पौरैर्दुर्योधनगर्हणपूर्वकं पाण्डवैः सहारण्यवासेच्छया तदनुगमनम् ॥ 2 ॥ युधिष्ठिरेण प्रार्थनया तेषां पुरम्प्रति निवर्तनपूर्वकं सायं गङ्गातीरगवटमेत्य तत्रानुगतब्राह्मणैः सह सुखेन रात्रियापनम् ॥ 3 ॥

श्रीवेदव्यासाय नमः । 001
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001
जनमेजय उवाच 001
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । 001a
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ 001c
श्राविताः परुषा वाचः सृजन्तीर्वैरमुत्तमम् । 002a
किमकुर्वत कौरव्या मम पूर्वपितामहाः ॥ 002c
कथं चैश्वर्यभूयिष्ठाः सहसा दुःखमेयुषः । 003a
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः ॥ 003c
के चैतानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम् । 004a
किमाचाराः किमाहाराः क्वच वासो महात्मनाम् ॥ 004c
कथं द्वादश वर्षाणि वने तेषां महात्मनाम् । 005a
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामनिवर्तिनाम् ॥ 005c
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम् । 006a
पतिव्रता महाभागा सततं प्रियवादिनी ॥ 006c
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत । 007a
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ॥ 007c
श्रोतुमिच्छामि तत्सर्वं भूरिद्रविणतेजसाम् । 008a
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ 008c
वैशम्पायन उवाच 009
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । 009a
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥ 009c
वर्धमानपुरद्वारादभिनिष्क्रम्य ते तदा । 010a
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया ॥ 010c
इन्द्रसेनादयश्चैतान्भृत्याः परिचतुर्दश । 011a
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः ॥ 011c
'ततस्ते पुरुषव्याघ्रा रथानास्थाय भारत । 012a
ददृशुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥' 012c
व्रजतस्तान्विदित्वा तु पौराः शोकाभिपीडिताः । 013a
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान् । 013c
ऊचुर्वै समयं कृत्वा समागम्य परस्परम् ॥ 013e
पौरा ऊचुः 014
नेदमस्ति कुलं सर्वं न वयं नच नो गृहाः । 014a
यत्र दुर्योधनः पापः सौबलेयेन पालितः । 014c
कर्णदुःशासनाद्यैश्च राज्यमेतच्चिकीर्षति ॥ 014e
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम् । 015a
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति ॥ 015c
दुर्योधनो गुरुद्वेषी त्यक्तधर्मः प्रियानृतः । 016a
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः ॥ 016c
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः । 017a
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः ॥ 017c
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः । 018a
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः ॥ 018c
वैशम्पायन उवाच 019
एवमुक्त्वाऽनुजग्मुस्ते पाण्डवांस्तान्समेत्य च । 019a
ऊचुः प्राञ्जलयः सर्वे तान्कुन्तीमाद्रिनन्दनान् ॥ 019c
क्व गमिष्यथ भद्रं वस्त्यक्त्वाऽस्मान्दुःखभागिनः । 020a
वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ ॥ 020c
अधर्मेण जिताञ्श्रुत्वा युष्मांस्त्यक्तघृणैः परैः । 021a
उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ ॥ 021c
भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान् । 022a
कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः ॥ 022c
श्रूयतां चाभिधास्यामो गुणदोषान्नरर्षभाः । 023a
शुभाशुभाधिवासेन संसर्गः कुरुते यथा ॥ 023c
वस्त्रमापस्तिलान्भूमिं गन्धो वासयते यथा । 024a
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥ 024c
मोहजालस्य योनिर्हि मूढैरेव समागमः । 025a
अहन्यहनि धर्मस्य योनिः साधुसमागमः ॥ 025c
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः । 026a
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः ॥ 026c
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च । 027a
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योपि गरीयसी ॥ 027c
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु । 028a
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात् ॥ 028c
असतां दर्शनात्स्पर्शात्सञ्जल्पाच्च सहासनात् । 029a
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः ॥ 029c
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । 030a
मध्यमैर्मध्यतां याति श्रेष्ठैः श्रेष्ठत्वमाप्नुयुः ॥ 030c
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः । 031a
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः । 031c
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः ॥ 031e
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः । 032a
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोभिकाङ्क्षिणः ॥ 032c
युधिष्ठिर उवाच 033
धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः । 033a
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः ॥ 033c
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः । 034a
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया ॥ 034c
भीष्मः पितामहो राजा विदुरो जननी च मे । 035a
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये ॥ 035c
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः । 036a
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः ॥ 036c
निवर्ततागता दूरं ममागमनकाङ्क्षिणः । 037a
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः ॥ 037c
एतद्धि मम कार्याणां परमं हृदि संस्थितम् । 038a
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति ॥ 038c
वैशम्पायन उवाच 039
तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः । 039a
चक्रुरार्तस्वरं घोरं हा राजन्निति दुःखिताः ॥ 039c
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः । 040a
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान् ॥ 040c
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः । 041a
आजग्मुर्जाह्नवीतीरे प्रमाणाख्यं महावटम् ॥ 041c
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः । 042a
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि ॥ 042c
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्शिताः । 043a
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः ॥ 043c
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः । 044a
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः ॥ 044c
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे । 045a
ब्रह्मघोषपुरस्कारः सञ्जल्पः समजायत ॥ 045c
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः । 046a
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयत् ॥ 046c
'राजा तु भ्रातृभिः सार्धं तथा सर्वैः सुहृद्गणैः । 047a
अशेत तां निशां राजन्दुःखशोकसमाहितः ॥' 047c

इति श्रीमन्महाभाते अरण्यपर्वणि किर्मीरवधपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

3-1-1 पार्था इति च्छत्रिन्यायेन माद्रीसुतयोरप्युपलक्षणम् । दुरात्मभिर्दुष्टचित्तैः । सहामात्यैः कर्णादिभिः । निकृत्या छलेन ॥ 3-1-2 सृजद्भिर्वैरमुत्तममिति ख. ङ. झ. पाठः ॥ 3-1-3 एयुषः प्राप्तवन्तः । कथं चैश्वर्यविभ्रष्टा इति ख. झ. पाठः ॥ 3-1-4 उत्तमं तीव्रम् ॥ 3-1-8 द्रविणं पराक्रमस्तेजो देहकान्तिश्च ते उभे पुष्कले येषां ते भूरिद्रविणतेजसः ॥ 3-1-9 गजसाह्वयात् हास्तिनपुरात् ॥ 3-1-10 वर्धमानपुरम् नाम ग्रामविशेषस्तदभिमुखं द्वारं तस्मात् ॥ 3-1-11 परिचतुर्दश अधिकचतुर्दशाः । पञ्चदशेत्यर्थः । सङ्ख्यायाव्ययासन्नेति समासः । समासान्तविधेरनित्यत्वात् डच्प्रत्ययस्याभावः ॥ 3-1-13 ऊचुर्विगतसन्त्रासा इति ख. झ. पाठः ॥ 3-1-16 प्रकृतिनिर्घृणः स्वभावनिर्दयः । त्यक्ताचारसुहृज्जन इति झ. पाठः ॥ 3-1-18 सानुक्रोशाः सदयाः ॥ 3-1-22 भक्तान् आराधनापरान् । अनुरक्तान् प्रीतिमतः । सुहृदः वेतनाद्युपकारमनपेक्ष्य उपकारकान् । न विनश्येम विनाशं न प्रार्थयासहे । प्रार्थनायां लिङ् ॥ 3-1-24 आपः अपः ॥ 3-1-27 अवदातानि शुद्धानि । समास्या सङ्गतिः ॥ 3-1-28 निरारम्भाः अग्निहोत्राद्यकुर्वाणा अपि ॥ 3-1-29 न सिद्ध्यन्ति सिद्धिश्चित्तशुद्धिस्तां न प्राप्नुवन्ति धर्माचारहीनत्वात् ॥ 3-1-31 अविषयैः अगोचरैरपरिचितैरित्यर्थः । धर्मकामार्थसम्भवाः धर्मादीनां सम्भव उत्पत्तिर्येभ्यस्ते ॥ 3-1-32 समस्ताः एकीभूताः । व्यस्ताः पृथक्पृथग्भूताः ॥ 3-1-34 स्नेहो वात्सल्यं तत्सहिता अनुकम्पा दया ॥ 3-1-40 समागम्य सम्पृच्छ्य 3-1-43 ऊषुः वासं चक्रुः ॥ 3-1-44 ऊषुर्निन्युः ॥ 3-1-45 साग्नयः दारैः सहिताः अग्नयो यैस्ते । रम्यत्वं तापविरहात्सन्ध्यारागादिशोभातश्च । दारुणो रक्षःपिशाचादिसञ्चारकालत्वात् ॥