अध्यायः 103

धृतराष्ट्रसञ्जययोः संवादः ॥ 1 ॥

वैशम्पायन उवाच ॥ KK02-08-103-001
वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे । KK02-08-103-001a
धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ॥ KK02-08-103-001c
तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् । KK02-08-103-002a
निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः ॥ KK02-08-103-002c
अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप । KK02-08-103-003a
प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ॥ KK02-08-103-003c
धृतराष्ट्र उवाच ॥ KK02-08-103-004
अशोच्यत्वं कुतस्तेषां येषां वैरं भविष्यति । KK02-08-103-004a
पाण्डवैर्युद्धशौण्डैर्हि बलवद्भिर्महारथैः ॥ KK02-08-103-004c
सञ्जय उवाच ॥ KK02-08-103-005
तवेदं सुकृतं राजन्महद्वैरमुपस्थितम् । KK02-08-103-005a
विनाशो येन लोकस्य सानुबन्धो भविष्यति ॥ KK02-08-103-005c
वार्यमाणो हि भीष्मेण द्रोणेन विदुरेण च । KK02-08-103-006a
पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ॥ KK02-08-103-006c
प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव । KK02-08-103-007a
सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ॥ KK02-08-103-007c
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । KK02-08-103-008a
बुद्धिं तस्यापकर्षन्ति सोऽवाचीनानि पश्यति ॥ KK02-08-103-008c
बुद्धौ कलुषभूतायां विनाशे समुपस्थिते । KK02-08-103-009a
अनयो नयसङ्काशो हृदयान्नापसर्पति ॥ KK02-08-103-009c
अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः । KK02-08-103-010a
उत्तिष्ठन्ति विनाशाय नूनं तच्चास्य रोचते ॥ KK02-08-103-010c
न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् । KK02-08-103-011a
कालस्य बलमेतावद्विपरीतार्थदर्शनम् ॥ KK02-08-103-011c
आसादितमिदं घोरं तुमुलं रोमहर्षणम् । KK02-08-103-012a
पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ॥ KK02-08-103-012c
अयोनिजां रूपवतीं कुले जातां विभावसोः । KK02-08-103-013a
को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ॥ KK02-08-103-013c
पर्यानयेत्सभामध्ये विना दुर्द्यूतदेविनम् । KK02-08-103-014a
स्त्रीधर्मिणी वरारोहा शोणितेन परिप्लुता ॥ KK02-08-103-014c
एकवस्त्राथ पाञ्चाली पाण्डवानभ्यवैक्षत । KK02-08-103-015a
हृतस्वान्हृतराज्यांश्च हृतवस्त्रान्हृतश्रियः ॥ KK02-08-103-015c
विहीनान्सर्वकामेभ्यो दासभावमुपागतान् । KK02-08-103-016a
धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ॥ KK02-08-103-016c
क्रुद्धां चानर्हतीं कृष्णां दुःखितां कुरुसंसदि । KK02-08-103-017a
दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ॥ KK02-08-103-017c
इति सर्वमिदं राजन्नाकुलं प्रतिभाति मे । KK02-08-103-018a
धृतराष्ट्र उवाच ॥ KK02-08-103-018
तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी ॥ KK02-08-103-018c
अपि शेषं भवेदद्य पुत्राणां मम सञ्जय । KK02-08-103-019a
भरतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः ॥ KK02-08-103-019c
प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् । KK02-08-103-020a
धर्मिष्टां धर्मपत्नीं च रूपयौवनशालिनीम् ॥ KK02-08-103-020c
प्रजाभिः सह सङ्गम्य ह्यनुशोचन्ति नित्यशः । KK02-08-103-021a
अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः ॥ KK02-08-103-021c
ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे । KK02-08-103-022a
आसीन्निष्ठानको घोरो निर्घातश्च महानभूत् ॥ KK02-08-103-022c
दिव उल्काश्चापतन्त राहुश्चार्कमुपाग्रसत् । KK02-08-103-023a
अपर्वणि महाघोरं प्रजानां जयन्भयम् ॥ KK02-08-103-023c
तथैव रथशालासु प्रादुरासीद्धुताशनः । KK02-08-103-024a
ध्वजाश्चापि व्यशीर्यन्त भरतानामभूतये ॥ KK02-08-103-024c
दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः । KK02-08-103-025a
तास्तदा प्रत्यभाषन्त रासभाः सर्वतो दिशः ॥ KK02-08-103-025c
प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय । KK02-08-103-026a
कृपश्च सोमदत्तश्च बाह्लीकश्च महामनाः ॥ KK02-08-103-026c
ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः । KK02-08-103-027a
वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ॥ KK02-08-103-027c
अवृणोत्तत्र पाञ्चाली पाण्डवानामदासताम् । KK02-08-103-028a
सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ॥ KK02-08-103-028c
अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् । KK02-08-103-029a
एतदन्तास्तु भरता यद्वः कृष्णा सभां गता ॥ KK02-08-103-029c
यैषा पाञ्चालराजस्य सुता सा श्रीरनुत्तमा । KK02-08-103-030a
पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ॥ KK02-08-103-030c
तस्याः पार्थाः परिक्लेशं न क्षंस्यन्ते ह्यमर्षणाः । KK02-08-103-031a
वृष्णयो वा महेष्वासाः पाञ्चाला वा महारथाः ॥ KK02-08-103-031c
तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः । KK02-08-103-032a
आगमिष्यति बीभत्सुः पञ्चालैः परिवारितः ॥ KK02-08-103-032c
तेषां मध्ये महेष्वासो भीमसेनो महाबलः । KK02-08-103-033a
आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ॥ KK02-08-103-033c
ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः । KK02-08-103-034a
गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥ KK02-08-103-034c
तत्र मे रोचते नित्यं पार्थैः साम न विग्रहः । KK02-08-103-035a
कुरुभ्यो हि सदा मन्ये पाण्डवान्बलवत्तरान् ॥ KK02-08-103-035c
तथा हि बलवान्राजा जरासन्धो महाद्युतिः । KK02-08-103-036a
बाहुप्रहरणेनैव भीमेन निहतो युधि ॥ KK02-08-103-036c
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ । KK02-08-103-037a
उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ॥ KK02-08-103-037c
एवं कृते महाराज परं श्रेयस्त्वमाप्स्यसि । KK02-08-103-038a
एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः ॥ KK02-08-103-038c
उक्तवान्न गृहीतं वै मया पुत्रहितैषिणा ॥ ॥ KK02-08-103-039ac

इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां सभापर्वणि अनुद्यूतपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥ ॥ समाप्तमनुद्यूतपर्व सभापर्व च ॥ इतः परं वनपर्व भविष्यति तस्यायमाद्यः श्लोकः । जनमेजय उवाच ॥ एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम ॥ 1 ॥

2-103-22 निष्ठानकः चण्डवात इत्यर्थः । निर्घातो वज्रशब्दः ॥