अध्यायः 102
धृतराष्ट्रेण विदुरम्प्रति पाण्डवानां वनप्रस्थानसमये चेष्टाविशेषप्रश्ने तत्तच्चेष्टाविशेषकथनपूर्वकं तत्तदभिप्रायाविष्करणम् ॥ 1 ॥ द्रोणेन दुर्योधनाय हितोपदेशः ॥ 2 ॥
वैशम्पायन उवाच KK02-08-102-001
तमागतमथो राजा विदुरं दीर्घदर्शिनम् । KK02-08-102-001a
साशङ्क इव प्रपच्छ धृतराष्टोऽम्बिकासुतः ॥ KK02-08-102-001c
कथं गच्छति कौन्तेयो धर्मपुत्रो युधिष्ठिरः । KK02-08-102-002a
भीमसेनः सव्यसाची माद्रीपुत्रौ च पाण्डवौ ॥ KK02-08-102-002c
धौम्यश्चैव कथं क्षत्तर्द्रौपदी च यशस्विनी । KK02-08-102-003a
श्रोतुमिच्छाम्यहं सर्वं तेषां शंस विचेष्टितम् ॥ KK02-08-102-003c
विदुर उवाच KK02-08-102-004
वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः । KK02-08-102-004a
बाहू विशालौ सम्पश्यन्भीमो गच्छति पाण्डवः ॥ KK02-08-102-004c
सिकता वपन्सव्यसाची राजानमनुगच्छति । KK02-08-102-005a
माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ॥ KK02-08-102-005c
पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः । KK02-08-102-006a
दर्शनीयतमो लोके राजानमनुगच्छति ॥ KK02-08-102-006c
कृष्णा तु केशैः प्रच्छाद्य मुखमायतलोचना । KK02-08-102-007a
दर्शनीया प्ररुदती राजानमनुगच्छति ॥ KK02-08-102-007c
धौम्यो रौद्राणि सामानि याम्यानि च विशाम्पते । KK02-08-102-008a
गायन्गच्छति मार्गेषु कुशानादाय पाणिना ॥ KK02-08-102-008c
धृतराष्ट्र उवाच KK02-08-102-009
विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः । KK02-08-102-009a
तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ॥ KK02-08-102-009c
विदुर उवाच KK02-08-102-010
निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च । KK02-08-102-010a
न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ॥ KK02-08-102-010c
योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत । KK02-08-102-011a
निकृत्या भ्रंशितः क्रोधान्नोन्मीलयति लोचने ॥ KK02-08-102-011c
नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा । KK02-08-102-012a
स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ॥ KK02-08-102-012c
यथा च भीमो व्रजति निगदतः शृणु । KK02-08-102-013a
बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ॥ KK02-08-102-013c
बाहू विशालौ कृत्वाऽसौ तेन भीमोपि गच्छति । KK02-08-102-014a
बाहू विदर्शयन्राजन्बाहुद्रविणदर्पितः ॥ KK02-08-102-014c
चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः । KK02-08-102-015a
प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा ॥ KK02-08-102-015c
सिकता वपन्सव्यसाची राजानमनुगच्छति । KK02-08-102-016a
असक्ताः सिकतास्तस्य यथा सम्प्रति भारत । KK02-08-102-016c
असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥ KK02-08-102-016e
न मे कश्चिद्विजानीयान्मुखमद्येति भारत । KK02-08-102-017a
मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ॥ KK02-08-102-017c
नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो । KK02-08-102-018a
पांसूपलिप्तसर्वाङ्गो नकुलस्तेन गच्छति ॥ KK02-08-102-018c
एकवस्त्रा प्ररुदती मुक्तकेशी रजस्वला । KK02-08-102-019a
शोणितेनाक्तवसना द्रौपदी वाक्यमब्रवीत् ॥ KK02-08-102-019c
यत्कृतेऽहमिदं प्राप्ता तेषां वर्षे चतुर्दशे । KK02-08-102-020a
हतपत्यो हतसुता हतबन्धुजनप्रियाः ॥ KK02-08-102-020c
बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः । KK02-08-102-021a
एवं कृतोदका भार्याः प्रवेक्ष्यन्ति गजाह्वयम् ॥ KK02-08-102-021c
कृत्वा तु नैर्ऋतान्दर्भान्धीरो धौम्यः पुरोहितः । KK02-08-102-022a
सामानि गायन्याम्यानि पुरतो याति भारत ॥ KK02-08-102-022c
हतेषु भरतेष्वाजौ कुरूणां गुरवस्तदा । KK02-08-102-023a
एवं सामानि गास्यन्तीत्युक्त्वा धौम्योपि गच्छति । KK02-08-102-023c
'प्रस्थाप्य पाण्डवाञ्शेषान्निःशेषस्ते भविष्यति । KK02-08-102-024a
इति धौम्यो व्यवसितो रौद्रसामानि गायति ॥ KK02-08-102-024c
धृतराष्ट्र उवाच KK02-08-102-025
किमब्रुवन्नैकृतिकाः किं वा नागरिका जनाः । KK02-08-102-025a
तथ्येन मे समाचक्ष्व क्षत्तः सर्वमशेषतः ॥ KK02-08-102-025c
विदुर उवाच KK02-08-102-026
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा येऽन्ये वदन्त्यथ । KK02-08-102-026a
तच्छृणुष्व महाराज वक्ष्यते च मया तव ॥ KK02-08-102-026c
प्रकृतय ऊचुः KK02-08-102-027
हाहा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् । KK02-08-102-027a
अहो धिक्कुरुवृद्धानां बालानामिव चेष्टितम् ॥ KK02-08-102-027c
राष्ट्रेभ्यः पाण्डुदायादाल्ँलोभान्निर्वासयन्ति ये । KK02-08-102-028a
अनाथाः स्म वयं सर्वे वियुक्ताः पाण्डुनन्दनैः ॥ KK02-08-102-028c
दुर्विनीतेषु लुब्धेषु का प्रीतिः कौरवेषु नः । KK02-08-102-029a
इति पौराः सुदुः खार्ताः क्रोशन्ति स्म पुनः पुनः ॥ KK02-08-102-029c
एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् । KK02-08-102-030a
कथयन्तश्च कौन्तेया वनं जग्मुर्मनस्विनः ॥ KK02-08-102-030c
एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् । KK02-08-102-031a
अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ॥ KK02-08-102-031c
राहुरग्रसदादित्यमपर्वणि विशाम्पते । KK02-08-102-032a
उल्का चाप्यपसव्येन पुरं कृत्वा व्यशीर्यत ॥ KK02-08-102-032c
प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः । KK02-08-102-033a
देवायतनचैत्येषु प्राकाराट्टालकेषु च ॥ KK02-08-102-033c
एवमेते महोत्पाताः प्रादुरासन्दुरासदाः । KK02-08-102-034a
भरतानामभावाय राजन्दुर्मन्त्रिते तव ॥ KK02-08-102-034c
वैशम्पायन उवाच KK02-08-102-035
एवं प्रवदतोरेव तयोस्तत्र विशाम्पते । KK02-08-102-035a
धृतराष्ट्रस्य राज्ञश्च विदुरस्य च धीमतः ॥ KK02-08-102-035c
नारदश्च सभामध्ये कुरूणामग्रतः स्थितः । KK02-08-102-036a
महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ॥ KK02-08-102-036c
इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः । KK02-08-102-037a
दुर्योधनापराधेन भीमार्जुनबलेन च ॥ KK02-08-102-037c
इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत । KK02-08-102-038a
ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ॥ KK02-08-102-038c
ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः । KK02-08-102-039a
द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ॥ KK02-08-102-039c
अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् । KK02-08-102-040a
दुःशासनं च कर्णं च सर्वानेव च भारतान् ॥ KK02-08-102-040c
अवध्यान्पाण्डवान्प्राहुर्देवपुत्रान्द्विजातयः । KK02-08-102-041a
अहं चै शरणं प्राप्तान्वर्तमानो यथाबलम् ॥ KK02-08-102-041c
गन्ता सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् । KK02-08-102-042a
नोत्सहेयं परित्यक्तुं दैवं हि बलवत्तरम् ॥ KK02-08-102-042c
धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः । KK02-08-102-043a
ते च द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ KK02-08-102-043c
चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः । KK02-08-102-044a
वैरं निर्यातयिष्यन्ति महद्दुःखाय पाण्डवाः ॥ KK02-08-102-044c
मया च भ्रंशितो राजन्द्रुपदः सखिविग्रहे । KK02-08-102-045a
पुत्रार्थमयजद्राजा वधाय मम भारत ॥ KK02-08-102-045c
याजोपयाजतपसा पुत्रं लेभे स पावकात् । KK02-08-102-046a
धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ॥ KK02-08-102-046c
धृष्टद्युम्नस्तु पार्थानां स्यालः सम्बन्धतो मतः । KK02-08-102-047a
पाण्डवानां प्रियरतस्तस्मान्मां भयमाविशत् ॥ KK02-08-102-047c
ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी । KK02-08-102-048a
मर्त्यधर्मतया तस्मादद्य मे साध्वसो महान् ॥ KK02-08-102-048c
गतो हि पक्षतां तेषां पार्षतः परवीरहा । KK02-08-102-049a
रथातिरथसङ्ख्यायां योऽग्रणीरर्जुनो युवा ॥ KK02-08-102-049c
सृष्टप्राणो भृशतरं तेन चेत्सङ्गमो मम । KK02-08-102-050a
किमन्यद्दुःखमधिकं परमं भुवि कौरवाः ॥ KK02-08-102-050c
धृष्टद्युम्नो द्रोणमृत्युरिति विप्रथितं वचः । KK02-08-102-051a
मद्वधायाश्रितोऽप्येष लोके चाप्यतिविश्रुतः ॥ KK02-08-102-051c
सोऽयं नूनमनुप्राप्तस्त्वत्कृते कालपर्ययः । KK02-08-102-052a
त्वरितं कुरुत श्रेयो नैतदेतावता कृतम् ॥ KK02-08-102-052c
मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी । KK02-08-102-053a
जयध्वं च महायज्ञैर्भोगानश्नीत दत्त च ॥ KK02-08-102-053c
इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् । KK02-08-102-054a
दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि ॥ KK02-08-102-054c
शमं वा पाण्डुपुत्रेण प्रयुङ्क्ष्व यदि मन्यसे । KK02-08-102-055a
वैशम्पायन उवाच KK02-08-102-055
द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् ॥ KK02-08-102-055c
सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् । KK02-08-102-056a
यदि ते न निवर्तन्ते सत्कृता यान्तु पाण्डवाः । KK02-08-102-056c
सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ॥ KK02-08-102-056e
इति श्रीमन्महाभारते सभापर्वणि अनुद्यतपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥
2-102-16 असक्ताः परस्परमलग्नाः ॥ 2-102-39 द्वीपमाश्रयम् ॥ 2-102-48 देवदत्तो देवैर्दत्तः ॥ 2-102-50 सङ्गमः सङ्ग्रामे इति शेषः ॥ 2-102-53 हैमनी हेमन्तसम्बन्धिनी ॥ 2-102-54 वैशसं नाशम् ॥