अध्यायः 100

युधिष्ठिरेण वनगमनाय भीष्माद्यामन्त्रणम् ॥ 1 ॥ पाण्डवान्प्रति विदुरवचनम् ॥ 2 ॥

युधिष्ठिर उवाच 001
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ॥ 001a
राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥ 001c
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च । 002a
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥ 002c
'सौमदत्तिं महावीर्यं विकर्णं च महामतिम्' । 003a
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः ॥ 003c
'गान्धारीं च महाभागां मातरं च तथा पृथाम्' । 004a
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः ॥ 004c
वैशम्पायन उवाच 005
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम् । 005a
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥ 005c
विदुर उवाच 006
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति । 006a
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥ 006c
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि । 007a
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥ 007c
पाण्डवा ऊचुः 008
तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ । 008a
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः ॥ 008c
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः । 009a
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते ॥ 009c
विदुर उवाच 010
युधिष्ठिर विजानीहि ममेदं भरतर्षभ । 010a
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये ॥ 010c
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः । 011a
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥ 011c
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः । 012a
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥ 012c
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः । 013a
परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ॥ 013c
एष वै सर्वकल्याणः समाधिस्तव भारत । 014a
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत ॥ 014c
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा । 015a
द्वैपायनेन कृष्णेन नगरे वारणावते ॥ 015c
भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना । 016a
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति ॥ 016c
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः । 017a
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः ॥ 017c
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् । 018a
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव ॥ 018c
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया । 019a
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे ॥ 019c
तथा विसर्गे कौबेरे वारुणे चैव संयमे ॥ 020a
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् ॥ 020c
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् । 021a
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम् ॥ 021c
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् । 022a
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः ॥ 022c
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर । 023a
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत ॥ 023c
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् । 024a
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम् ॥ 024c
वैशम्पायन उवाच 025
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः । 025a
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥ 025c

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि शततमोऽध्यायः ॥ 100 ॥ 2-100-14 समाधिर्मनः स्वास्थ्यकरो नियमः ॥ 2-100-19 विधारणे नियमने ॥ 2-100-20 विसर्गे दाने । संयमे वशीकरणे । उपजीवनं जीवनहेतुत्वम् ॥