अध्यायः 098

निजनगरं गच्छतो युधिष्ठिरस्य मध्येमार्गं दूताह्वानेन पुनर्निवृत्त्य द्यूतसभाप्रवेशः ॥ 1 ॥ अनुद्यूतेपि युधिष्ठिरस्य शकुनिना पराजयः ॥ 2 ॥

वैशम्पायन उवाच 001
ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् । 001a
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ 001c
उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर । 002a
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः ॥ 002c
युधिष्ठिर उवाच 003
धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् । 003a
न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ॥ 003c
अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च । 004a
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ 004c
वैशम्पायन उवाच 005
असम्भवो हेममयस्य जन्तोस्तथापि रामो लुलुभे मृगाय । 005a
प्रायः समासन्नपराभवाणां धियो विपर्यस्ततरा भवन्ति ॥ 005c
इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः । 006a
जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ 006c
विविशुस्ते सभां तां तु पुनरेव महारथाः । 007a
व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ॥ 007c
यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये । 008a
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ 008c
शकुनिरुवाच 009
अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् । 009a
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ ॥ 009c
वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः । 010a
प्रविशेम महारण्यं रौरवाजिनवाससः ॥ 010c
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् । 011a
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 011c
अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान् । 012a
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥ 012c
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् । 013a
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 013c
त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् । 014a
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः ॥ 014c
अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर । 015a
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥ 015c
अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा । 016a
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि ॥ 016c
सभ्या ऊचुः 017
अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् । 017a
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ ॥ 017c
वैशम्पायन उवाच 018
जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः । 018a
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः ॥ 018c
जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत् । 019a
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन् ॥ 019c
युधिष्ठिर उवाच 020
कथं वै मद्विधो राजा स्वधर्ममनुपालयन् । 020a
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ 020c
शकुनिरुवाच 021
गवाश्वं बहुधेनुकमपर्यन्तमजाविकम् । 021a
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः ॥ 021c
हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः । 022a
यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ 022c
त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा । 023a
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः । 023c
समुत्क्षेपेण चैकेन वनवासाय भारत ॥ 023e
'वैशम्पायन उवाच 024
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः । 024a
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता ॥ 024c
युयुत्सुना कृपेणाथ सञ्जयेन च भारत । 025a
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा ॥ 025c
विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा । 026a
सोमदत्तेन च तथा बाह्लीकेन च धीमता ॥ 026c
वार्यमाणोपि सततं न च राजन्नियच्छति । 027a
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया ॥ 027c
देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत् । 028a
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत ॥ 028c
एवं भवत्विति तदा वनवासाय दीव्यति' । 029a
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः ॥ 029c
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ 029e

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥ 2-98-16 संवेगादतिशयात् ॥