अध्यायः 097 दुर्योधनेन धृतराष्ट्रसमीपे अर्जुनप्रभाववर्णनम् ॥ 1 ॥ दुर्योधनदुर्बोधनेन धृतराष्ट्रस्य पुनर्द्यूताय पाण्डवानयनाभ्यनुज्ञा ॥ 2 ॥
दुर्योधन उवाच ॥ 001
शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान् । 001a
अर्जुनो धन्विनां श्रेष्ठो दुष्करं कृतवान्पुरा ॥ 001c
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवरे ॥ 002a
आबालवृद्धसङ्क्षोभे सर्वक्षत्रसमागमे । 002c
क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह ॥ 002e
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै । 003a
क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः ॥ 003c
ततो यन्त्रमयं विध्वा विसारं फल्गुनो बली । 004a
कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः ॥ 004c
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा । 005a
रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः । 005c
वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन् ॥ 005e
स सर्वान्पार्थिवान्दृष्ट्वा क्रुद्धान्पार्थो महाबलः । 006a
वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम् ॥ 006c
जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान् । 007a
लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा ॥ 007c
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा । 008a
ततः कदाचिद्बीभत्सुस्तीर्थयात्रां ययौ स्वयम् ॥ 008c
अथोलूपीं शुभां तात नागराजसुतां तदा । 009a
नागेष्वाप वराग्र्येषु प्रार्थितोऽथ यथा तथा ॥ 009c
ततो गोदावरीं कृष्णां कावेरीं चावगाहत । 010a
तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः ॥ 010c
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां दिशं ययौ ॥ 011ac
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै । 012a
कुमारतीर्थमासाद्य मोक्षयामास चार्जुनः ॥ 012c
ग्राहरूपाश्च ताः पञ्च अतिशौर्येण वै बलात् । 013a
कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ ॥ । 013c
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः । 014a
तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति ॥ 014c
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः । 015a
तमभ्यधावन्त्सङ्क्रुद्धाः सिंहव्याघ्रगणा इव ॥ 015c
प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी । 016a
आहुकश्चैव साम्बश्च चारुदेष्णो विदूरथः ॥ 016c
अन्ये च यादवाः सर्वे बलदेवपुरोगमाः । 017a
एकमेव परे कृष्णं गजवाजिरथैर्युताः ॥ 017c
अथासाद्य वने यान्तं परिवार्य धनञ्जयम् । 018a
चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः ॥ 018c
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम् । 019a
तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह ॥ 019c
ततः पार्थो रणे सर्वान्वारयित्वा शितैः शरैः । 020a
बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान् । 020c
तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह ॥ 020e
भूयः शृणु महाराज फल्गुनस्य च साहसम् । 021a
ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम् ॥ 021c
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः । 022a
भक्षितुं खाण्डवं राजंस्तत्रस्थानुपचक्रमे ॥ 022c
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम् । 023a
रथा धन्वी शरान्गृह्य स कलापयुतः प्रभुः । 023c
पालयामास राजेन्द्र स्ववीर्येण महाबलः ॥ 023e
ततः श्रुत्वा महेन्द्रस्तु मेघांस्तान्सन्दिदेश ह । 024a
तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः ॥ 024c
ततो मेघगाणान्पार्थः शरव्रातैः समन्ततः । 025a
खगमैर्वारयामास तदाश्चर्यमिवाभवत् ॥ 025c
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः । 026a
पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः । 026c
ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च ॥ 026e
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा । 027a
आदित्याश्चैव साध्याश्च विश्वेदेवाश्च भारत । 027c
गन्धर्वाश्चैव सहिता अन्ये देवगणाश्च ये ॥ 027e
ते सर्वे शस्त्रसम्पन्ना दीप्यमानाः स्वतेजसा । 028a
धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः ॥ 028c
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि । 029a
सर्वाणि तत्र दृश्यन्ते निमित्तानि महीपते ॥ 029c
ततो देवगमाः सर्वे पार्थं समभिदुद्रुवुः । 030a
असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम् ॥ 030c
त्वरितः फल्गुनो गृह्य तीक्ष्णांस्तानाशुगांस्तदा । 031a
इन्द्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये ॥ 031c
ततो देवगणाः सर्वे बीभत्सुं सपुरन्दराः । 032a
अवाकिरञ्छरव्रातैर्मानुषं तं महीपते ॥ 032c
ततः पार्थो महातेजा गाण्डिवं गृह्य सत्वरः । 033a
वारयामास देवानां शरव्रातैः शरांस्तदा ॥ 033c
पुनः क्रुद्धाः सुराः सर्वे मर्त्यं तं सुमहाबलाः । 034a
नानाशस्त्रैर्ववर्षुस्तं सव्यसाची महीपते ॥ 034c
तान्पार्थः शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा । 035a
द्विधा त्रिधा स चिच्छेद स एव निशितैः शरैः ॥ 035c
पुनश्च पार्थः सङ्क्रुद्धो मण्डलीकृतकार्मुकः । 036a
देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयन्वै समन्ततः ॥ 036c
ततो देवगणाः सर्वे युध्वा पार्थेन वै मुहुः । 037a
रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ ॥ 037c
शान्तास्ते विबुधाः सर्वे पार्थबाणाभिपीडिताः । 038a
सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ॥ 038c
प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो ययुः । 039a
दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ ॥ 039c
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः । 040a
साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्तोऽस्य सायकान् ॥ 040c
एवं सुरगणाः सर्वे प्राद्रवन्त्सर्वतो दिशम् । 041a
मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम् ॥ 041c
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः । 042a
ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत् ॥ 042c
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम् ॥ 043ac
ततः सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः । 044a
तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥ 044c
अथ संवर्धयामास तद्वर्षं देवराडपि । 045a
भूय एव महावीर्यं जिज्ञासुः सव्यसाचिनः ॥ 045c
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च । 046a
विलयं गमयामास हर्षयन्पाकशासनम् ॥ 046c
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम् । 047a
सद्रुमं व्यसृजच्छक्रो जिघांसुः श्वेतवाहनम् ॥ 047c
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्मगैः । 048a
बाणैर्विध्वंसयामास गिरिराजं सहस्रधा ॥ 048c
शक्रं च पातयामास शरैः पार्थो महान्युधि । 049a
ततः शक्रो महाराज रणे वीरं धनञ्जयम् ॥ 049c
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम् । 050a
परां प्रीतिं ययौ तत्र पुत्रशौर्येण वासवः ॥ 050c
तदा तत्र न तस्यास्ति दिवि कश्चिन्महायशाः । 051a
समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः ॥ 051c
ततः पार्थः शरैर्हत्वा यक्षराक्षसपन्नगान् । 052a
दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम् ॥ 052c
प्रतिषेधयितुं पार्थं न शेकुस्तत्र केचन । 053a
दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह ॥ 053c
यथा सुपर्णः सोमार्थं विबुधानजयत्पुरा । 054a
तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम् ॥ 054c
ततोऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम् । 055a
रथं ध्वजं च सहयं दिव्यानस्त्रांश्च पाण्डवः ॥ 055c
गाण्डीवं च धनुः श्रेष्ठं तूणी चाक्षयसायकौ । 056a
एतान्यपि च बीभत्सुर्लेभे कीर्तिं च भारत ॥ 056c
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम् । 057a
विजित्य नववर्षांश्च सपुरांश्च सपर्वतान् ॥ 057c
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ । 058a
बलाज्जित्वा नृपान्सर्वान्करे च विनिवेश्य च ॥ 058c
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम् । 059a
ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम् । 059c
राजसूयं क्रतुश्रेष्ठं कारयामास भारत ॥ 059e
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा । 060a
अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित् ॥ 060c
देवदानवयक्षाश्च पिशाचोरगराक्षसाः । 061a
भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः ॥ 061c
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः । 062a
एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः ॥ 062c
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम् । 063a
अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात् ॥ 063c
गृहे गृहे च पश्यामि तात पार्थमहं सदा । 064a
शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम् ॥ 064c
अपि पार्थसहस्राणि भीतः पश्यामि भारत । 065a
पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे ॥ 065c
पार्थमेव हि पश्यामि रहिते तात भारत । 066a
दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः ॥ 066c
अकारादीनि नामानि अर्जुनग्रस्तचेतसः । 067a
अश्वाक्षराम्बुजाश्चैव त्रासं सञ्जनयन्ति मे ॥ 067c
नास्ति पार्थादृते तात परवीराद्भयं मम । 068a
प्रह्लादं वा बलिं वापि हन्याद्धि विजयो रणे ॥ 068c
तस्मात्तेन महाराज युद्धं नस्तात न क्षमम् । 069a
अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च ॥ 069c
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम् । 070a
भवेद्रामे महावीर्ये तथा पार्थे भयं मम ॥ 070c
धृतराष्ट्र उवाच 071
जानाम्येव महद्वीर्यं जिष्णोरेतद्दुरासदम् । 071a
एतद्वीरस्य पार्थस्य कार्षीस्त्वं तु विप्रियम् ॥ 071c
द्यूतं वा शस्त्रयुद्धं वा दुर्वाक्यं वा कथञ्चन । 072a
एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत् ॥ 072c
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय । 073a
यश्च पार्थेन सम्बन्धो वर्तते चेन्नरो भुवि ॥ 073c
तस्य नास्ति भयं किञ्चित्त्रिषु लोकेषु भारत । 074a
तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय ॥ 074c
दुर्योधन उवाच 075
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता । 075a
तस्माद्धि नो जयस्तात अन्योपायेन नो भवेत् ॥ 075c
धृतराष्ट्र उवाच 076
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत । 076a
पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया ॥ 076c
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः । 077a
तस्माद्धितं जीविताय नः कुलस्य जनस्य च ॥ 077c
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः । 078a
सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय ॥ 078c
वैशम्पायन उवाच 079
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा । 079a
चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत्'॥ 079a
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः । 080a
एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ ॥ 080c
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः । 081a
प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ 081c
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् । 082a
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ 082c
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् । 083a
अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ 083c
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ । 084a
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥ 084c
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च । 085a
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ 085c
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम् । 086a
जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ॥ 086c
धृतराष्ट्र उवाच 087
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि । 087a
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ॥ 087c
वैशम्पायन उवाच 088
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः । 088a
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ 088c
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः । 089a
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ 089c
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् । 090a
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ 090c
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् । 091a
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्शिता ॥ 091c
जाते दुर्योधने क्षत्ता महामतिरभाषत । 092a
नीयतां परलोकाय साध्वयं कुलपांसनः ॥ 092c
व्यनदज्जातमात्रो हि गोमायुरिव भारत । 093a
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ 093c
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत । 094a
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो ॥ 094c
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि । 095a
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ॥ 095c
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ । 096a
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः ॥ 096c
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च । 097a
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन ॥ 097c
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः । 098a
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः ॥ 098c
तथा ते न कृतं राजन्पुत्रस्नेहान्नराधिप । 099a
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत् ॥ 099c
शमेन धर्मेण नयेन युक्ता या ते बुद्धिः साऽस्तु ते मा प्रमादीः । 100a
प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ 100c
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् । 101a
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम् ॥ 101c
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः । 102a
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह ॥ 102c
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥ 2-97-90 अकामानां द्यूतमनिच्छतां सताम् ॥ 2-97-98 त्वन्नेत्रास्त्वमेव नेता येषां ते त्वन्नेत्राः । दीर्णास्त्वत्तो भिन्नमर्यादाः ॥