अध्यायः 096
दुर्योधनेन धृतराष्ट्रसमीपे कार्तवीर्यार्जुनोपाख्यानकथनम् ॥ 1 ॥
जनमेजय उवाच 001
अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् । 001a
पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ॥ 001c
वैशम्पायन उवाच 002
अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता । 002a
राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ॥ 002c
दुर्योधनं समासाद्य सामात्यं भरतर्षभ । 003a
दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ॥ 003c
दुःशासन उवाच 004
दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ । 004a
शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ॥ 004c
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । 005a
मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ॥ 005c
वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् । 006a
अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ॥ 006c
दुर्योधन उवाच 007
न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः । 007a
शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ॥ 007c
सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुसूदन । 008a
पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ॥ 008c
ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् । 009a
यदि तान्योधयिष्यामः किं वै नः परिहास्यति ॥ 009c
अहीनाशीविषान्क्रुद्धान्नाशाय समुपस्थितान् । 010a
कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ॥ 010c
आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः । 011a
निःशेषान्नः करिष्यन्ति क्रुद्धा ह्याशीविषा इव ॥ 011c
सन्नद्धो ह्यर्जुनो याति विधृत्य परमेषुधी । 012a
गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ॥ 012c
गदां गुर्वींं समुद्यम्य त्वरितश्च वृकोदरः । 013a
स्वरथं योजयित्वाऽशु निर्यात इति नः श्रुतम् ॥ 013c
नकुलः खड्गमादाय चर्म चाप्यर्धचन्द्रवत् । 014a
सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ॥ 014c
ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् । 015a
अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ॥ 015c
न क्षंस्यन्ते तथाऽस्माभिर्जातु विप्रकृता हि ते । 016a
द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ॥ 016c
'न पश्यामि रणे क्रद्धुं बीभत्सुं प्रतिवारणम् । 017a
भीष्मो द्रोणश्च कर्णश्च द्रौणिश्च रथिनां वरः ॥ 017c
कृपश्च वृषसेनश्च विकर्णश्च जयद्रथः । 018a
बाह्लीकः सोमदत्तश्च भूरिर्भूरिश्रवाः शलः ॥ 018c
शकुनिः ससुतश्चैव नृपाश्चान्ये च कौरवाः । 019a
नैते सर्वे रणोद्युक्ताः पार्थं सोढुमशक्नुवन् ॥ 019c
अर्जुनेन समो लोके नास्ति वीर्ये धनुर्धरः । 020a
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ॥ 020c
धृतराष्ट्र उवाच 021
कस्त्वयोक्तः पुमान्वीरो बीभत्सुसमविक्रमः । 021a
तं ये ब्रूहि महावीर्यं श्रोतुमिच्छामि पुत्रक ॥ 021c
दुर्योधन उवाच 022
कार्तवीर्यस्य चरितं शृणु राजन्महात्मनः । 022a
अव्यक्तप्रभवो ब्रह्मा सर्वलोकपितामहः ॥ 022c
ब्रह्मणोऽत्रिः सुतो विद्वानत्रेः पुत्रो निशाकरः । 023a
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः ॥ 023c
तस्याप्यथ सुतोऽप्यायुरायोस्तु नहुषः सुतः । 024a
नहुषस्य ययातिस्तु ययातेस्तनुजो यदुः ॥ 024c
यदोः पुत्रो महाराज सहस्रौजेति विश्रुतः । 025a
025c सहस्रौजसुतो राजञ्छक्रदासेति विश्रुतः ॥
026a शक्रदासस्य दायादो हेहयो नाम पार्थिवः ।
हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः॥ 026c
धर्मनेत्रस्य तु कृती कृतवीर्यस्तु कार्तिजः । 027a
कृतवीर्यस्य तनयो ह्यर्जुनो बलिनां वरः॥ 027c
स चार्जुनो महाराज तपो घोरं चकार ह । 028a
साग्रं वर्षायुतं जज्ञ इत्येवं मे श्रुतं पुरा॥ 028c
तथेयं पृथिवी राजन्सप्तद्वीपा सपत्तना । 029a
ससमुद्राकारा तात विधिनोग्रेण वै जिता ॥ 029c
स चार्जुनोऽथ तेजस्वी तपः परमदुश्चरम् । 030a
दत्तमाराधयामास सोऽर्जुनोऽत्रिसुतं मुनिम् ॥ 030c
तस्य दत्तो वरान्प्रादाच्चतुरः पार्थिवस्य वै । 031a
पूर्वं बाहुसहस्रं तु प्रार्थितः परमो वरः ॥ 031c
अधर्मे प्रीयमाणस्य सद्भिस्तत्र निवारणम् । 032a
धर्मेण पृथिवीं जित्वा धर्मेणैव हि रञ्जनम् ॥ 032c
सङ्ग्रामान्सुबहून्कृत्वा हत्वा चारीन्सहस्रशः । 033a
सङ्ग्रामे यतमानस्य वधश्चैवाधिकाद्रणे ॥ 033c
तस्य बाहुसहस्रं तु युध्यतः किल भारत । 034a
रथो ध्वजश्च सञ्जज्ञ इत्येवं मे श्रुतं परा ॥ 034c
तथेयं पृथिवी राजन्त्सप्तद्वीपा सपत्तना । 035a
ससमुद्राकरा तात विधिनोग्रेण वै जिता ॥ 035c
स चार्जुनोऽथ तेजस्वी सप्तद्वीपेश्वरोऽभवत् । 036a
स राजा महायज्ञानाजहार महाबलः । 036c
प्रशशास महाबाहुर्महीं स च समा बहूः ॥ 036e
ततोऽर्जुनः कदाचिद्वै राजन्माहिष्मतीपतिः । 037a
नर्मदां भरतश्रेष्ठ तां तु दारैर्ययौ सह ॥ 037c
ततस्तां स नदीं गत्वा प्रविश्यान्तर्जले तदा । 038a
कर्तुं राजञ्जलक्रीडां ततो राजोपचक्रमे ॥ 038c
तस्मिन्नेव ततः काले रावणो राक्षसैः सह । 039a
लङ्काया ईश्वरस्तात तं देशं प्रययौ बली ॥ 039c
ततस्तमर्जुनं दृष्ट्वा नर्मदायां दशाननः । 040a
नित्यं क्रोधपरो धीरो वरदानेन मोहितः ॥ 040c
अभ्यधावत्सुसङ्क्रुद्धो महेन्द्रं शम्बरो यथा । 041a
अर्जुनोऽप्यथ तं दृष्ट्वा रावणं प्रत्यवारयत् ॥ 041c
ततस्तौ चक्रतुर्युद्धं रावणश्चार्जुनश्च वै । 042a
ततस्तु दुर्जयं वीरं वरदानेन दर्पितम् ॥ 042c
राक्षसेन्द्रं मनुष्येन्द्रो जित्वा बध्वा रणे बलात् । 043a
बध्वा धनुर्ज्यया राजन्विवेशाथ पुरीं स्वकाम् ॥ 043c
स तु तं बन्धितं श्रुत्वा पुलस्त्यो रावणं तदा । 044a
मोक्षयामास बन्धाद्वै पुरे दृष्ट्वाऽर्जुनं तदा ॥ 044c
ततः कदाचित्तेजस्वी कार्तवीर्यार्जुनो बली । 045a
समुद्रतीरं गत्वाथ विचरन्दर्पमोहितः ॥ 045c
अवाकिरच्छितशरैः समुद्रं स तु भारत । 046a
तं समुद्रो नमस्कृत्य कृताञ्जलिरभाषत ॥ 046c
आशुगान्वीर मा मुञ्च ब्रूहि किं करवाणि ते । 047a
मदाश्रयाणि सत्वानि त्वद्विसृष्टैर्महेषुभिः । 047c
बाध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ 047e
अर्जुन उवाच 048
देहि सिन्धुपते युद्धमद्यैव त्वरया मम । 048a
अथवा पीडयामि त्वां तस्मात्त्वं कुरु माचिरम् ॥ 048c
समुद्र उवाच 049
लोके राजन्महावीर्या बहवो निवसन्ति ये । 049a
तेषामेकेन राजेन्द्र कुरु युद्धं महाबल ॥ 049c
अर्जुन उवाच 050
मत्समो यदि सङ्ग्रामे वरायुधधरः क्वचित् । 050a
विद्यते तं ममाचक्ष्व यः समासेत मा मृधे ॥ 050c
समुद्र उवाच 051
महर्षिर्जमदग्निस्तु यदि राजन्परिश्रुतः । 051a
तस्य पुत्रो रणं दातुं यथावद्वै तवार्हति ॥ 051c
दुर्योधन उवाच 052
समुद्रस्य वचः श्रुत्वा राजा माहिष्मतीपतिः । 052a
नारदस्य च वै पूर्वं क्रोधेन महता वृतः ॥ 052c
ततः प्रतिययौ शीघ्रं क्रोधेन सह भारत । 053a
स तमाश्रममागत्य काममेवान्वपद्यत ॥ 053c
स कामं प्रतिकूलानि चकार सह बन्धुभिः । 054a
आयासं जनयामास रामस्य स महात्मनः ॥ 054c
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः । 055a
प्रदहन्निव सैन्यानि रश्मिमानिव तेजसा ॥ 055c
अथ तौ चक्रतुर्युद्धं वृत्रवासवयोरिव ॥ 056ac
ततः परशुमादाय नृपं बाहुसहस्रिणम् । 057a
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥ 057c
तं हतं पतितं दृष्ट्वा समेतास्तस्य बान्धवाः । 058a
असीनादाय शक्तीश्च रामं ते प्रत्यवारयन् ॥ 058c
रामोऽपि रथमास्थाय धनुरायम्य सत्वरः । 059a
विसृजन्परमास्त्राणि व्यधमत्पार्थिवान्बली ॥ 059c
ततस्तु क्षत्रिया राजञ्जामदग्न्यभयार्दिताः । 060a
विविशुर्गिरिदुर्गाणि मृगाः सिंहभयादिव ॥ 060c
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठति । 061a
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ 061c
तथा च द्रविडाः काचाः पुण्ड्राश्च शबरैः सह । 062a
वृषलत्वं परिगता विच्छिन्नाः क्षत्रधर्मिणः ॥ 062c
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः । 063a
द्विजैरभ्युदितं क्षत्रं तानि रामो निहत्य च ॥ 063c
ततस्त्रिस्सप्तमे याते रामं वागशरीरिणी । 064a
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ 064c
रामराम निवर्तस्व स्वगुणं नात्र पश्यसि । 065a
क्षत्रबन्धूनिमान्प्राणैर्विप्रयुज्य पुनः पुनः ॥ 065c
तथैव तं महात्मानमृचीकप्रमुखास्तथा । 066a
रामराम महावीर्य निवर्तस्वेत्यथाब्रुवन् ॥ 066c
पितुर्वधमसमृष्यंस्तु रामः प्रोवाच तानृषीन् । 067a
नार्हा हन्त भवन्तो मां निवारयितुमित्युत ॥ 067c
पितर ऊचुः 068
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर । 068a
न हि युक्तं त्वया तात ब्राह्मणेन सता नृपान् ॥ 068c
दुर्योधन उवाच 069
पितॄणां वचनं श्रुत्वा क्रोधं त्यक्त्वा स भार्गवः । 069c
अश्वमेधसहस्राणि नरमेधशतानि च ॥ 069c
इष्ट्वा सागरपर्यन्तां काश्यपाय ददौ महीम् । 070a
तेन रामेण सङ्ग्रामे तुल्यस्तात धनञ्जयः ॥ 070c
कार्तवीर्येण च रणे तुल्यः पार्थो न संशयः । 071a
रणे विक्रम्य राजेन्द्र पार्थं जेतुं न शक्यते ॥ ॥ 071c
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥
2-96-4 गमयत् अगमयत् ॥ 2-96-9 परिहास्यति नङ्क्ष्यति ॥