अध्यायः 094

कर्णप्रलपितम् ॥ 1 ॥ क्रुद्धं भीमं निवार्य युधिष्ठिरस्य धृतराष्ट्रसमीपगमनम् ॥ 2 ॥

कर्ण उवाच 001
या नः श्रुता मनुष्येषु स्त्रियो रूपेण सम्मताः । 001a
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम ॥ 001c
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति । 002a
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥ 002c
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् । 003a
पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाऽभवत् ॥ 003c
वैशम्पायन उवाच 004
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः । 004a
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥ 004c
भीम उवाच 005
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् । 005a
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥ 005c
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते । 006a
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते ॥ 006c
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् । 007a
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥ 007c
अर्जुन उवाच 008
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः । 008a
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥ 008c
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि । 009a
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम् ॥ 009c
भीम उवाच 010
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान् । 010a
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत ॥ 010c
किन्नो विवदितेनेह किमुक्तेन च भारत । 011a
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम् ॥ 011c
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह । 012a
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत ॥ 012c
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा । 013a
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान् ॥ 013c
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप । 014a
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥ 014c
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् । 015a
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ॥ 015c
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् । 016a
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत ॥ 016c
निवार्य च महाबाहुं कोपसंरक्तलोचनम् । 017a
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥ 017c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

2-94-16 जोषं तूष्णीम् ॥