अध्यायः 093

कुप्यतोऽर्जुनस्य युधिष्ठिरेण परिसान्त्वनम् ॥ 1 ॥ धृतराष्ट्रेण वरं वरयेति द्रौपदीम्प्रति चोदनम् ॥ 2 ॥ तत्प्रार्थनया धृतराष्ट्रेण युधिष्ठिरादीनामदासत्ववरदानम् ॥ 3 ॥

वैशम्पायन उवाच 001
द्रौपद्या वचनं श्रुत्वा चुकोपाथ धनञ्जयः । 001a
स तदा क्रोधताम्राक्ष इदं वचनमब्रवीत् ॥ 001c
अयं तु मां वारयते धर्मराजो युधिष्ठिरः । 002a
इत्युक्त्वा क्रोधताम्राक्षो धनुरादाय वीर्यवान् ॥ 002c
सव्यसाची समुत्पत्य ताञ्छत्रून्समुदैक्षत । 003a
उद्यतं फल्गुनं तत्र ददृशुः सर्वपार्थिवाः ॥ 003c
युगान्ते सर्वलोकांस्तु दहन्तमिव पावकम् । 004a
वीक्षमाणं धनुष्पाणिं हन्तुकामं मुहुर्मुहुः ॥ 004c
हन्तुकामं पशून्क्रुद्धं रुद्रं दक्षक्रतौ यथा । 005a
तथाभूतं नरं दृष्ट्वा विषेदुस्तत्र मानवाः ॥ 005c
धनञ्जयस्य वीर्यज्ञा निराशा जीविते तदा । 006a
मृतभूता भवन्सर्वे नेत्रैरनिमिषैरिव ॥ 006c
अर्जुनं धर्मपुत्रं च समुदैक्षन्त पार्थिवाः । 007a
क्रुद्धं तदाऽर्जुनं दृष्ट्वा पृथिवी च चचाल ह ॥ 007c
खेचराणि च भूतानि वित्रेसुर्वै भयार्दिताः । 008a
नादित्यो विरराजाथ नापि वान्ति च मारुताः । 008c
न चन्द्रो न च नक्षत्रं द्यौर्दिशो न विभान्ति ह । 009a
सर्वमाविद्धमभवज्जगत्स्थावरजङ्गमम् ॥ 009c
उत्पतन्स बभौ पार्थो दिवाकर इवाम्बरे । 010ac
पार्थं दृष्ट्वा तथा क्रुद्धं कालान्तकयमोपमम् । 011a
भीमसेनो मुदा युक्तो युद्धायैव मनो दधे ॥ 011c
पाञ्चाली च ददर्शाथ सुसङ्क्रुद्धं धनञ्जयम् । 012a
हन्तुकामं रिपून्सर्वान्सुपर्णमिव पन्नगान् ॥ 012c
दुष्प्रेक्षः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन् । 013a
तं दृष्ट्वा तेजसा युक्तं विव्यधुः पुरवासिनः ॥ 013c
उत्पतन्तं तु वेगेन ततो दृष्ट्वा धनञ्जयम् । 014a
जग्राह स तदा राजा पुरुहूतो यथा हरिम् ॥ 014c
उवाच स घृणी ज्येष्ठो धर्मराजो युधिष्ठिरः । 015a
मा पार्थ साहसं कार्षीर्मा विनाशं गमेद्यशः ॥ 015c
अहमेतान्पापकृतो द्यूतज्ञान्दग्धुमुत्सहे । 016a
किन्त्वसत्यगतिं दृष्ट्वा क्रोधो नाशमुपैति मे ॥ 016c
त्वमिमं जगतोऽर्थे वै कोपं संयच्छ पाण्डव ॥ 017ac
वैशम्पायन उवाच 018
एवमुक्तस्तदा राज्ञा पाण्डवोऽथ धनञ्जयः । 018a
क्रोधं संशमयन्पार्थो धार्तराष्ट्रं प्रति स्थितः ॥ 018c
तस्मिन्वीरे प्रशान्ते तु पाण्डवे फल्गुने पुनः । 019a
सुसम्प्रहृष्टमभवज्जगत्स्थावरजङ्गमम् ॥ 019c
वारितं च तथा दृष्ट्वा भ्रात्रा पार्थं वृकोदरः । 020a
बभूव विमना राजन्नभून्निश्शब्दमत्र वै ॥ 020c
ततो राज्ञो धृतराष्ट्रस्य गेहे गोमायुरुच्चैर्व्याहरदग्निहोत्रे । 021a
तं रासभाः प्रत्यभाषन्त राजन्समन्ततः पक्षिणश्चैव रौद्राः ॥ 021c
तं वै शब्दं विदुरस्तत्त्ववेदी शुश्राव घोरं सुबलात्मजा च । 022a
भीष्मो द्रोणो गौतमश्चापि विद्वान् स्वस्तिस्वस्तीत्यपि चैवाहुरुच्चैः ॥ 022c
ततो गान्धारी विदुरश्चापि विद्वांस्तमुत्पातं घोरमालक्ष्य राज्ञे । 023a
निवेदयामासतुरार्तवत्तदा ततो राजा वाक्यमिदं बभाषे ॥ 023c
धृतराष्ट्र उवाच 024
हतोऽसि दुर्योधन मन्दबुद्धे यस्त्वं सभायां कुरुपुङ्गवानाम् । 024a
स्त्रियं समाभाषसि दुर्विनीत विशेषतो द्रौपदीं धर्मपत्नीम् ॥ 024c
वैशम्पायन उवाच 025
एवमुक्त्वा धृतराष्ट्रो मनीषी हितान्वेषी बान्धवानामपायात् । 025a
कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥ 025c
धृतराष्ट उवाच 026
वरं वृणीष्व पाञ्चालि मत्तो यदभिवाञ्छसि । 026a
वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥ 026c
द्रौपद्युवाच 027
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ । 027a
सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥ 027c
मनस्विनमजानन्तो मैवं ब्रूयुः कुमारकाः । 028a
एतं वै दासपुत्रेति प्रतिविन्ध्यं ममात्मजम् ॥ 028c
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् । 029a
लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥ 029c
धृतराष्ट्र उवाच 030
एवं भवतु कल्याणि यथा त्वमभिभाषसे । 030a
द्वितीयं ते वरं भद्रे ददानि वरयस्व ह । 030c
मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥ 030e
द्रौपद्युवाच 031
सरथौ सधनुष्कौ न भीमसेनधनञ्जयौ । 031a
यमौ च वरये राजन्नदासान्स्ववशानहम् ॥ 031c
धृतराष्ट्र उवाच 032
तथाऽस्तु ते महाभागे यथा त्वं नन्दिनीच्छसि । 032a
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसंस्कृता । 032c
त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥ 032e
द्रौपद्युवाच 033
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे । 033a
अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ 033c
एकामाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रियो वरौ । 034a
त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥ 034c
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम । 035a
वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥ 035c

इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

2-93-21 अग्निहोत्रे गृह्याग्निसमीपे ॥