अध्यायः 092
दुर्योधनवचनम् ॥ 1 ॥ दुर्योधनेन द्रौपदीम्प्रति निजोरौ प्रदर्शिते भीमेन तद्भेदनप्रतिज्ञा ॥ 2 ॥ अर्जुनादिभिः कर्णादिहननप्रतिज्ञा ॥ 3 ॥ द्रौपद्या दुर्योधनादीनां शापदानसमये अन्तरिक्षात्पुष्पवृष्टिः ॥ 4 ॥
वैशम्पायन उवाच 001
तथा तु दृष्ट्वा बहु तत्र देवीं रोरूयमाणां कुररीमिवार्ताम् । 001a
नोचुर्वचः साध्वथवाऽप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः ॥ 001c
दृष्ट्वा तथा पार्थिवपुत्रपौत्रांस्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः । 002a
स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम् ॥ 002c
दुर्योधन उवाच 003
तिष्ठत्वयं प्रश्न उदारसत्वे भीमेऽर्जुने सहदेवे तथैव । 003a
पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम् ॥ 003c
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः । 004a
कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात् ॥ 004c
धर्मे स्थितो धर्मसुतो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः । 005a
ईशो वा ते ह्यनीशोऽथवैष वाक्यादस्य क्षिप्रमेकं भजस्व ॥ 005c
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव । 006a
न विब्रुवन्त्यार्यसत्वा यथावत्पतींश्च ते समवेक्ष्याल्पभाग्यान् ॥ 006c
वैशम्पायन उवाच 007
ततः सभ्याः कुरुराजस्य तस्य वाक्यं सर्वे प्रशशंसुस्तथोच्चैः । 007a
चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः ॥ 007c
श्रुत्वा तुं तद्वाक्यमनोहरं तद्धर्षश्चासीत्कौरवाणां सभायाम् । 008a
सर्वे चासन्पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठं धार्मिकं पूजयन्तः ॥ 008c
युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः । 009a
किन्नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ॥ 009c
किन्नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः । 010a
भीमसेनो यमौ चोभौ भृशं कौतूहलान्विताः ॥ 010c
तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् । 011a
प्रगृह्य रुचिरं दिव्यं भुजं चन्दनचर्चितम् ॥ 011c
यद्येष गुरुरस्माकं धर्मराजो महामनाः । 012a
न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ॥ 012c
ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः । 013a
मन्यते जितमात्मानं यद्येष विजिता वयम् ॥ 013c
न हि मुच्येत मे जीवन्पदा भूमिमुपस्पृशन् । 014a
मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ॥ 014c
पश्यध्वं ह्यायतौ वृत्तौ भुजौ मे परिघाविव । 015a
नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ॥ 015c
धर्मपाशसितस्त्वेवमधिगच्छामि सङ्कटम् । 016a
गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ॥ 016c
धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव । 017a
धार्तराष्टारानिमान्पापान्निष्पिषेयं तलासिभिः ॥ 017c
वैशम्पायन उवाच 018
तमुवाच तदा भीष्मो द्रोणो विदुर एव च । 018a
क्षम्यतामिदमित्येवं सर्वं सम्भाव्यते त्वयि ॥ 018c
कर्ण उवाच 019
त्रयः किलेमे ह्यधना भवन्ति दासः पुत्रश्चास्वतन्त्रा च नारी । 019a
दासस्य पत्नी त्वधनस्य भद्रे हीनेश्वरा दासधनं च सर्वम् ॥ 019c
प्रविश्य राज्ञः परिवारं भजस्व तत्ते कार्यं शिष्टमादिश्यतेऽत्र । 020a
ईशास्तु सर्वे तव राजपुत्रि भवन्ति वै धार्तराष्ट्रा न पार्थाः ॥ 020c
अन्यं वृणीष्व पतिमाशु भामिनि यस्माद्दास्यं न लभसि देवनेन । 021a
अवाच्या वै पतिषु कामवृत्तिर्नित्यं दास्ये विदितं तत्तवास्तु ॥ 021c
पराजितो नकुलो भीमसेनो युधिष्ठरः सहदेवार्जुनौ च । 022a
दासीभूता त्वं हि वै याज्ञसेनि पराजितास्ते पतयो नैव सन्ति ॥ 022c
प्रयोजनं जन्मनि किं न मन्यते पराक्रमं पौरुषं चैव पार्थः । 023a
पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां सभामध्ये यो व्यदेवीद्ग्लहेषु ॥ 023c
वैशम्पायन उवाच 024
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी भृशं निशश्वास तदाऽऽर्तरूपः । 024a
राजानुगो धर्मपाशानुबद्धो दहन्निवैनं क्रोधसंरक्तदृष्टिः ॥ 024c
भीम उवाच 025
नाहं कुप्ये सूतपुत्रस्य राजन्नेष सत्यं दासधर्मः प्रदिष्टः । 025a
किं विद्विषो वै मामेवं व्याहरेयुर्नादेवीस्त्वं यद्यनया नरेन्द्र ॥ 025c
वैशम्पायन उवाच 026
भीमसेनवचः श्रुत्वा राजा दुर्योधनस्तदा । 026a
युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतनम् ॥ 026c
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने । 027a
प्रश्नं ब्रूहि च कृष्णां त्वमजितां यदि मन्यसे ॥ 027c
एवमुक्त्वा तु कौन्तेयमपोह्य वसनं स्वकम् । 028a
स्मयन्निवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः ॥ 028c
कदलीदण्डसदृशं सर्वलक्षणसंयुतम् । 029a
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥ 029c
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव । 030a
द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥ 030c
भीमसेनस्तमालोक्य नेत्रे उत्फाल्य लोहिते । 031a
प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥ 031c
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः । 032a
यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥ 032c
वैशम्पायन उवाच 033
क्रुद्धस्य तस्य सर्वेभ्यः स्रोतोभ्यः पावकार्चिषः । 033a
वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥ 033c
विदुर उवाच 034
परं भयं पश्यत भीमसेनात्तद्बुध्यध्वं पार्थिवाः प्रातिपेयाः । 034a
दैवेरितो नूनमयं पुरस्तात्परोऽनयो भरतेषूदपादि ॥ 034c
अतिद्यूतं कृतमिदं धार्तराष्ट्र यस्मात्स्त्रियं विवदध्वं सभायाम् । 035a
योगक्षेमौ नश्यतो वः समग्रौ पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥ 035c
इमं धर्मं कुरवो जानताशु ध्वस्ते धर्मे परिषत्सम्प्रदुष्येत् । 036a
इमां चेत्पूर्वं कितवोऽग्लहिष्यदीशोऽभविष्यदपराजितात्मा ॥ 036c
स्वप्ने यथैतद्विजितं धनं स्यादेवं मन्ये यस्य दीव्यत्यनीशः । 037a
गान्धारराजस्य वचो निशम्य धर्मादस्मात्कुरवो माऽपयात ॥ 037c
दुर्योधन उवाच 038
भीमस्य वाक्ये तद्वदेवार्जुनस्य स्थितोऽहं वै यमयोश्चैवमेव । 038a
युधिष्ठिरं ते प्रवदन्त्वनीशमथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥ 038c
अर्जुन उवाच 039
ईशो राजा पूर्वमासीद्ग्लहे नः कुन्तीसुतो धर्मराजो महात्मा । 039a
ईशस्त्वयं कस्य पराजितात्मा तज्जानीध्वं कुरवः सर्व एव ॥ 039c
'कर्ण उवाच 040
दुश्शासन निबोधेदं वचनं वै प्रभाषितम् । 040a
किमनेन चिरं वीर नयस्व द्रुपदात्मजाम् । 040c
दासीभावेन भुङ्क्ष्व त्वं यथेष्टं कुरुनन्दन ॥ 040e
वैशम्पायन उवाच 041
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत् । 041a
साधु कर्ण महाबाहो यथेष्टं क्रियतामिति ॥ 041c
ततो दुश्शासनस्तूर्णं द्रुपदस्य सुतां बलात् । 042a
प्रवेशयितुमारब्धः स चकर्ष दुरात्मवान् ॥ 042c
ततो विक्रोशति तदा पाञ्चाली वरवर्णिनी ॥ 043ac
द्रौपद्युवाच 044
परित्रायस्व मां भीष्ण द्रोण द्रौणे तथा कृप । 044a
परित्रायस्व विदुर धर्मिष्ठो धर्मवत्सल ॥ 044c
धृतराष्ट्र महाराज परित्रायस्व वै स्नुषाम् । 045a
गान्धारि त्वं महाभागे सर्वज्ञे सर्वदर्शिनि । 045c
परित्रायस्व मां भीरुं सुयोधनभयार्दिताम् ॥ 045e
त्वमार्ये वीरजननि किं मां पश्यसि यादवीम् । 046a
क्लिश्यमानामनार्येण न त्रायसि वधूं स्वकाम् ॥ 046c
यदि लालप्यमानां मां न कश्चित्किञ्चिदब्रवीत् । 047a
हा हताऽस्मि सुमन्दात्मा सुयोधनवशं गता ॥ 047c
न वै पाण्डुर्नरपतिर्न धर्मो न च देवराट् । 048a
न वायुर्नाश्विनौ वाऽपि परित्रायन्ति वै स्नुषाम् ॥ 048c
धिक्कष्टं यदि जीवेयं मन्दभाग्या पतिव्रता ॥ 049ac
विदुर उवाच 050
शृणोमि वाक्यं तव राजपुत्रि नेमे पार्थाः किञ्चिदपि ब्रुवन्ति । 050a
सा त्वं प्रियार्थं शृणु वाक्यमेतद्यदुच्यते पापमतिः कृतघ्नः ॥ 050c
सुयोधनः सानुचरः सुदुष्टः सहैव राजा निकृतः सूनुना च 051a
यद्येष वाचं महदुच्यमानां न श्रोष्यते पापमतिः सुदुष्टः ॥ 051c
वैशम्पायन उवाच 052
इत्येवमुक्त्वा द्रुपदस्य पुत्रीं क्षत्ताऽब्रवीद्धृतराष्ट्रस्य पुत्रम् । 052a
मा क्लिश्यतां वै द्रुपदस्य पुत्रीं मा त्वं चरीं द्रक्ष्यसि राजपुत्र ॥ 052c
वैशम्पायन उवाच 053
तमेवमुक्त्वा प्रथमं धृतराष्ट्रमुवाच ह ॥ 053ac
विदुर उवाच 054
यद्येवं त्वं महाराज सङ्क्लेशयसि द्रौपदीम् । 054a
अचिरेणैव कालेन पुत्रस्ते सह मन्त्रिभिः । 054c
गमिष्यति क्षयं पापः पाण्डवक्षयकारणात् ॥ 054e
भीमार्जुनाभ्यां क्रुद्धाभ्यां माद्रीपुत्रद्वयेन च । 055a
तस्मान्निवारय सुतं मा विनाशं विचिन्तय ॥ 055c
वैशम्पायन उवाच 056
एतच्छुत्वा मन्दबुद्धिर्नोत्तरं किञ्चिदब्रवीत् । 056a
ततो दुर्योधनस्तत्र दैवमोहबलात्कृतः ॥ 056c
अचिन्त्य क्षत्तुर्वचनं हर्षेणायतलोचनः । 057a
ऊरू दर्शयते पापो द्रौपद्या वै मुहुर्मुहुः ॥ 057c
ऊरौ सन्दर्श्यमाने तु निरीक्ष्य तु सुयोधनम् । 058a
वृकोदरस्तदालोक्य नेत्रे चोल्फाल्य लोहिते ॥ 058c
एतत्समीक्ष्यात्मनि चावमानं नियम्य मन्युं बलनान्स मानी । 059a
राजानुजः संसदि कौरवाणां विनिष्क्रमन्वाक्यमुवाच भीमः ॥ 059c
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः । 060a
शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥ 060c
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः । 061a
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥ 061c
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि । 062a
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥ 062c
वक्षः शूरस्य निर्वास्य परुषस्य दुरात्मनः । 063a
दुश्शासनस्य रुधिरं पास्यामि मृगराडिव ॥ 063c
अर्जुन उवाच 064
भीमसेन न ते सन्ति येषां वैरं त्वया सह । 064a
मन्दा गृहेषु सुखिनो न बुद्ध्यन्ते महद्भयम् ॥ 064c
नैव वाचा व्यवसितं भीम विज्ञायते सताम् । 065a
यदि स्थास्यन्ति सङ्ग्रामे क्षत्रधर्मेण वै सह ॥ 065c
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः । 066a
दुश्शासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ 066c
असूयितारं वक्तारं प्रहृष्टानां दुरात्मनाम् । 067a
भीमसेन नियोगात्ते हन्ताऽहं कर्णमाहवे ॥ 067c
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः । 068a
ये चान्ये विप्रयोत्स्यन्ति बुद्धिमोहेन मां नृपाः । 068c
तान्स्म सर्वाञ्छितैर्बाणैर्नेताऽस्मि यमसादनम् ॥ 068e
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः । 069a
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥ 069c
वैशम्पायन उवाच 070
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः । 070a
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥ 070c
सौबलस्य वधप्रेप्सुरिदं वचनमब्रवीत् । 071a
क्रोधसंरक्तनयनो निश्वस्य च मुहुर्मुहुः ॥ 071c
सहदेव उवाच 072
यानक्षान्मन्यसे मूढ गान्धाराणां यशोहर । 072a
नैते ह्यक्षाः शिता बाणास्त्वयैते समरे धृताः ॥ 072c
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् । 073a
कर्ताऽहं कर्मणा चास्य कुरुकार्याणि सर्वशः । 073c
यदि स्थस्यासि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥ 073e
वैशम्पायन उवाच 074
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते । 074a
दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥ 074c
नकुल उवाच 075
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः । 075a
यैर्वाचः श्राविता रूक्षा धूर्तैर्दुर्योधनप्रियैः ॥ 075c
धार्तराष्ट्रान्सुदुर्वृत्तान्मुमूर्षून्कालचोदितान् । 076a
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥ 076c
उलूकं च दुरात्मानं सौबलस्य प्रियं सुतम् । 077a
हन्ताऽहमस्मि समरे मम शत्रुं नराधमम् ॥ 077c
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । 078a
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥ 078c
द्रौपद्युवाच 079
यस्माच्चोरुं दर्शयसे यस्माच्चोरुं निरीक्षसे । 079a
तस्मात्तव ह्यधर्मिष्ठ ऊरौ मृत्युर्भविष्यति ॥ 079c
यस्माच्चैवं क्लेशयति भ्राता ते मां दुरात्मवान् । 080a
तस्मादुधिरमेवास्य पास्यते वै वृकोदरः ॥ 080c
इमं च पापिष्ठमतिं कर्णं ससुतबान्धवम् । 081a
सामात्यं सपरीवारं हनिष्यति धनञ्जयः ॥ 081c
क्षुद्रधर्मं नैकृतिकं शकुनिं पापचेतसम् । 082a
सहदेवो रणे क्रुद्धो हनिष्यति सबान्धवम् ॥ 082c
वैशम्पायन उवाच 083
एवमुक्ते तु वचने द्रौपद्या धर्मशीलया । 083a
ततोऽन्तरिक्षात्सुमहत्पुष्पवर्षमवापतत् ॥ 083c
तेषां तु वचनं श्रुत्वा नोचुस्तत्र सभासदः । 084a
अर्जुनस्य भयाद्राजन्नभून्निश्शब्दमत्र वै ॥ 084c
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥
2-92-13 द्रौपदीपणनात् प्रागिति शेषः । अतो द्रौपदी न दासभावमापन्नेति भावः ॥ 2-92-16 पश्यसितः पाशबद्धः ॥ 2-92-33 स्रोतोभ्यः रोमकूपेभ्यः ॥